वैशम्पाय़न उवाच:
श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम् |
१ क
वैशम्पाय़न उवाच:
धृतराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः ||
१ ख
वैशम्पाय़न उवाच:
स सौवलं समानाय़्य कर्णदुःशासनावपि |
२ क
वैशम्पाय़न उवाच:
अव्रवीद्वचनं राजा प्रविश्यावुद्धिजं तमः ||
२ ख
वैशम्पाय़न उवाच:
एष प्रत्यागतो मन्त्री धृतराष्ट्रस्य संमतः |
३ क
वैशम्पाय़न उवाच:
विदुरः पाण्डुपुत्राणां सुहृद्विद्वान्हिते रतः ||
३ ख
वैशम्पाय़न उवाच:
यावदस्य पुनर्वुद्धिं विदुरो नापकर्षति |
४ क
वैशम्पाय़न उवाच:
पाण्डवानय़ने तावन्मन्त्रय़ध्वं हितं मम ||
४ ख
वैशम्पाय़न उवाच:
अथ पश्याम्यहं पार्थान्प्राप्तानिह कथञ्चन |
५ क
वैशम्पाय़न उवाच:
पुनः शोषं गमिष्यामि निरासुर्निरवग्रहः ||
५ ख
वैशम्पाय़न उवाच:
विषमुद्वन्धनं वापि शस्त्रमग्निप्रवेशनम् |
६ क
वैशम्पाय़न उवाच:
करिष्ये न हि तानृद्धान्पुनर्द्रष्टुमिहोत्सहे ||
६ ख
शकुनिरु उवाच:
किं वालिषां मतिं राजन्नास्थितोऽसि विशां पते |
७ क
शकुनिरु उवाच:
गतास्ते समय़ं कृत्वा नैतदेवं भविष्यति ||
७ ख
शकुनिरु उवाच:
सत्यवाक्ये स्थिताः सर्वे पाण्डवा भरतर्षभ |
८ क
शकुनिरु उवाच:
पितुस्ते वचनं तात न ग्रहीष्यन्ति कर्हिचित् ||
८ ख
शकुनिरु उवाच:
अथ वा ते ग्रहीष्यन्ति पुनरेष्यन्ति वा पुरम् |
९ क
शकुनिरु उवाच:
निरस्य समय़ं भूय़ः पणोऽस्माकं भविष्यति ||
९ ख
शकुनिरु उवाच:
सर्वे भवामो मध्यस्था राज्ञश्छन्दानुवर्तिनः |
१० क
शकुनिरु उवाच:
छिद्रं वहु प्रपश्यन्तः पाण्डवानां सुसंवृताः ||
१० ख
दुःशासन उवाच:
एवमेतन्महाप्राज्ञ यथा वदसि मातुल |
११ क
दुःशासन उवाच:
नित्यं हि मे कथय़तस्तव वुद्धिर्हि रोचते ||
११ ख
कर्ण उवाच:
काममीक्षामहे सर्वे दुर्योधन तवेप्सितम् |
१२ क
कर्ण उवाच:
ऐकमत्यं हि नो राजन्सर्वेषामेव लक्ष्यते ||
१२ ख
वैशम्पाय़न उवाच:
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा |
१३ क
वैशम्पाय़न उवाच:
नातिहृष्टमनाः क्षिप्रमभवत्स पराङ्मुखः ||
१३ ख
वैशम्पाय़न उवाच:
उपलभ्य ततः कर्णो विवृत्य नय़ने शुभे |
१४ क
वैशम्पाय़न उवाच:
रोषाद्दुःशासनं चैव सौवलेय़ं च तावुभौ ||
१४ ख
वैशम्पाय़न उवाच:
उवाच परमक्रुद्ध उद्यम्यात्मानमात्मना |
१५ क
वैशम्पाय़न उवाच:
अहो मम मतं यत्तन्निवोधत नराधिपाः ||
१५ ख
वैशम्पाय़न उवाच:
प्रिय़ं सर्वे चिकीर्षामो राज्ञः किङ्करपाणय़ः |
१६ क
वैशम्पाय़न उवाच:
न चास्य शक्नुमः सर्वे प्रिय़े स्थातुमतन्द्रिताः ||
१६ ख
वैशम्पाय़न उवाच:
वय़ं तु शस्त्राण्यादाय़ रथानास्थाय़ दंशिताः |
१७ क
वैशम्पाय़न उवाच:
गच्छामः सहिता हन्तुं पाण्डवान्वनगोचरान् ||
१७ ख
वैशम्पाय़न उवाच:
तेषु सर्वेषु शान्तेषु गतेष्वविदितां गतिम् |
१८ क
वैशम्पाय़न उवाच:
निर्विवादा भविष्यन्ति धार्तराष्ट्रास्तथा वय़म् ||
१८ ख
वैशम्पाय़न उवाच:
यावदेव परिद्यूना यावच्छोकपराय़णाः |
१९ क
वैशम्पाय़न उवाच:
यावन्मित्रविहीनाश्च तावच्छक्या मतं मम ||
१९ ख
वैशम्पाय़न उवाच:
तस्य तद्वचनं श्रुत्वा पूजय़न्तः पुनः पुनः |
२० क
वैशम्पाय़न उवाच:
वाढमित्येव ते सर्वे प्रत्यूचुः सूतजं तदा ||
२० ख
वैशम्पाय़न उवाच:
एवमुक्त्वा तु सङ्क्रुद्धा रथैः सर्वे पृथक्पृथक् |
२१ क
वैशम्पाय़न उवाच:
निर्ययुः पाण्डवान्हन्तुं सङ्घशः कृतनिश्चय़ाः ||
२१ ख
वैशम्पाय़न उवाच:
तान्प्रस्थितान्परिज्ञाय़ कृष्णद्वैपाय़नस्तदा |
२२ क
वैशम्पाय़न उवाच:
आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा ||
२२ ख
वैशम्पाय़न उवाच:
प्रतिषिध्याथ तान्सर्वान्भगवाँल्लोकपूजितः |
२३ क
वैशम्पाय़न उवाच:
प्रज्ञाचक्षुषमासीनमुवाचाभ्येत्य सत्वरः ||
२३ ख