वैशम्पाय़न उवाच:
ततः केशान्समुत्क्षिप्य वेल्लिताग्राननिन्दितान् |
१ क
वैशम्पाय़न उवाच:
जुगूह दक्षिणे पार्श्वे मृदूनसितलोचना ||
१ ख
वैशम्पाय़न उवाच:
वासश्च परिधाय़ैकं कृष्णं सुमलिनं महत् |
२ क
वैशम्पाय़न उवाच:
कृत्वा वेषं च सैरन्ध्र्याः कृष्णा व्यचरदार्तवत् ||
२ ख
वैशम्पाय़न उवाच:
तां नराः परिधावन्तीं स्त्रिय़श्च समुपाद्रवन् |
३ क
वैशम्पाय़न उवाच:
अपृच्छंश्चैव तां दृष्ट्वा का त्वं किं च चिकीर्षसि ||
३ ख
वैशम्पाय़न उवाच:
सा तानुवाच राजेन्द्र सैरन्ध्र्यहमुपागता |
४ क
वैशम्पाय़न उवाच:
कर्म चेच्छामि वै कर्तुं तस्य यो मां पुपुक्षति ||
४ ख
वैशम्पाय़न उवाच:
तस्या रूपेण वेषेण श्लक्ष्णय़ा च तथा गिरा |
५ क
वैशम्पाय़न उवाच:
नाश्रद्दधत तां दासीमन्नहेतोरुपस्थिताम् ||
५ ख
वैशम्पाय़न उवाच:
विराटस्य तु कैकेय़ी भार्या परमसंमता |
६ क
वैशम्पाय़न उवाच:
अवलोकय़न्ती ददृशे प्रासादाद्द्रुपदात्मजाम् ||
६ ख
वैशम्पाय़न उवाच:
सा समीक्ष्य तथारूपामनाथामेकवाससम् |
७ क
वैशम्पाय़न उवाच:
समाहूय़ाव्रवीद्भद्रे का त्वं किं च चिकीर्षसि ||
७ ख
वैशम्पाय़न उवाच:
सा तामुवाच राजेन्द्र सैरन्ध्र्यहमुपागता |
८ क
वैशम्पाय़न उवाच:
कर्म चेच्छाम्यहं कर्तुं तस्य यो मां पुपुक्षति ||
८ ख
सुदेष्णो उवाच:
नैवंरूपा भवन्त्येवं यथा वदसि भामिनि |
९ क
सुदेष्णो उवाच:
प्रेषय़न्ति च वै दासीर्दासांश्चैवंविधान्वहून् ||
९ ख
सुदेष्णो उवाच:
गूढगुल्फा संहतोरुस्त्रिगम्भीरा षडुन्नता |
१० क
सुदेष्णो उवाच:
रक्ता पञ्चसु रक्तेषु हंसगद्गदभाषिणी ||
१० ख
सुदेष्णो उवाच:
सुकेशी सुस्तनी श्यामा पीनश्रोणिपय़ोधरा |
११ क
सुदेष्णो उवाच:
तेन तेनैव सम्पन्ना काश्मीरीव तुरङ्गमा ||
११ ख
सुदेष्णो उवाच:
स्वरालपक्ष्मनय़ना विम्वोष्ठी तनुमध्यमा |
१२ क
सुदेष्णो उवाच:
कम्वुग्रीवा गूढसिरा पूर्णचन्द्रनिभानना ||
१२ ख
सुदेष्णो उवाच:
का त्वं व्रूहि यथा भद्रे नासि दासी कथञ्चन |
१३ क
सुदेष्णो उवाच:
यक्षी वा यदि वा देवी गन्धर्वी यदि वाप्सराः ||
१३ ख
सुदेष्णो उवाच:
अलम्वुसा मिश्रकेशी पुण्डरीकाथ मालिनी |
१४ क
सुदेष्णो उवाच:
इन्द्राणी वारुणी वा त्वं त्वष्टुर्धातुः प्रजापतेः |
१४ ख
सुदेष्णो उवाच:
देव्यो देवेषु विख्यातास्तासां त्वं कतमा शुभे ||
१४ ग
द्रौपद्यु उवाच:
नास्मि देवी न गन्धर्वी नासुरी न च राक्षसी |
१५ क
द्रौपद्यु उवाच:
सैरन्ध्री तु भुजिष्यास्मि सत्यमेतद्व्रवीमि ते ||
१५ ख
द्रौपद्यु उवाच:
केशाञ्जानाम्यहं कर्तुं पिंषे साधु विलेपनम् |
१६ क
द्रौपद्यु उवाच:
ग्रथय़िष्ये विचित्राश्च स्रजः परमशोभनाः ||
१६ ख
द्रौपद्यु उवाच:
आराधय़ं सत्यभामां कृष्णस्य महिषीं प्रिय़ाम् |
१७ क
द्रौपद्यु उवाच:
कृष्णां च भार्यां पाण्डूनां कुरूणामेकसुन्दरीम् ||
१७ ख
द्रौपद्यु उवाच:
तत्र तत्र चराम्येवं लभमाना सुशोभनम् |
१८ क
द्रौपद्यु उवाच:
वासांसि यावच्च लभे तावत्तावद्रमे तथा ||
१८ ख
द्रौपद्यु उवाच:
मालिनीत्येव मे नाम स्वय़ं देवी चकार सा |
१९ क
द्रौपद्यु उवाच:
साहमभ्यागता देवि सुदेष्णे त्वन्निवेशनम् ||
१९ ख
सुदेष्णो उवाच:
मूर्ध्नि त्वां वासय़ेय़ं वै संशय़ो मे न विद्यते |
२० क
सुदेष्णो उवाच:
नो चेदिह तु राजा त्वां गच्छेत्सर्वेण चेतसा ||
२० ख
सुदेष्णो उवाच:
स्त्रिय़ो राजकुले पश्य याश्चेमा मम वेश्मनि |
२१ क
सुदेष्णो उवाच:
प्रसक्तास्त्वां निरीक्षन्ते पुमांसं कं न मोहय़ेः ||
२१ ख
सुदेष्णो उवाच:
वृक्षांश्चावस्थितान्पश्य य इमे मम वेश्मनि |
२२ क
सुदेष्णो उवाच:
तेऽपि त्वां संनमन्तीव पुमांसं कं न मोहय़ेः ||
२२ ख
सुदेष्णो उवाच:
राजा विराटः सुश्रोणि दृष्ट्वा वपुरमानुषम् |
२३ क
सुदेष्णो उवाच:
विहाय़ मां वरारोहे त्वां गच्छेत्सर्वचेतसा ||
२३ ख
सुदेष्णो उवाच:
यं हि त्वमनवद्याङ्गि नरमाय़तलोचने |
२४ क
सुदेष्णो उवाच:
प्रसक्तमभिवीक्षेथाः स कामवशगो भवेत् ||
२४ ख
सुदेष्णो उवाच:
यश्च त्वां सततं पश्येत्पुरुषश्चारुहासिनि |
२५ क
सुदेष्णो उवाच:
एवं सर्वानवद्याङ्गि स चानङ्गवशो भवेत् ||
२५ ख
सुदेष्णो उवाच:
यथा कर्कटकी गर्भमाधत्ते मृत्युमात्मनः |
२६ क
सुदेष्णो उवाच:
तथाविधमहं मन्ये वासं तव शुचिस्मिते ||
२६ ख
द्रौपद्यु उवाच:
नास्मि लभ्या विराटेन न चान्येन कथञ्चन |
२७ क
द्रौपद्यु उवाच:
गन्धर्वाः पतय़ो मह्यं युवानः पञ्च भामिनि ||
२७ ख
द्रौपद्यु उवाच:
पुत्रा गन्धर्वराजस्य महासत्त्वस्य कस्यचित् |
२८ क
द्रौपद्यु उवाच:
रक्षन्ति ते च मां नित्यं दुःखाचारा तथा न्वहम् ||
२८ ख
द्रौपद्यु उवाच:
यो मे न दद्यादुच्छिष्टं न च पादौ प्रधावय़ेत् |
२९ क
द्रौपद्यु उवाच:
प्रीय़ेय़ुस्तेन वासेन गन्धर्वाः पतय़ो मम ||
२९ ख
द्रौपद्यु उवाच:
यो हि मां पुरुषो गृध्येद्यथान्याः प्राकृतस्त्रिय़ः |
३० क
द्रौपद्यु उवाच:
तामेव स ततो रात्रिं प्रविशेदपरां तनुम् ||
३० ख
द्रौपद्यु उवाच:
न चाप्यहं चालय़ितुं शक्या केनचिदङ्गने |
३१ क
द्रौपद्यु उवाच:
दुःखशीला हि गन्धर्वास्ते च मे वलवत्तराः ||
३१ ख
सुदेष्णो उवाच:
एवं त्वां वासय़िष्यामि यथा त्वं नन्दिनीच्छसि |
३२ क
सुदेष्णो उवाच:
न च पादौ न चोच्छिष्टं स्प्रक्ष्यसि त्वं कथञ्चन ||
३२ ख
वैशम्पाय़न उवाच:
एवं कृष्णा विराटस्य भार्यया परिसान्त्विता |
३३ क
वैशम्पाय़न उवाच:
न चैनां वेद तत्रान्यस्तत्त्वेन जनमेजय़ ||
३३ ख