वैशम्पाय़न उवाच:
शल्यः श्रुत्वा तु दूतानां सैन्येन महता वृतः |
१ क
वैशम्पाय़न उवाच:
अभ्ययात्पाण्डवान्राजन्सह पुत्रैर्महारथैः ||
१ ख
वैशम्पाय़न उवाच:
तस्य सेनानिवेशोऽभूदध्यर्धमिव योजनम् |
२ क
वैशम्पाय़न उवाच:
तथा हि वहुलां सेनां स विभर्ति नरर्षभः ||
२ ख
वैशम्पाय़न उवाच:
विचित्रकवचाः शूरा विचित्रध्वजकार्मुकाः |
३ क
वैशम्पाय़न उवाच:
विचित्राभरणाः सर्वे विचित्ररथवाहनाः ||
३ ख
वैशम्पाय़न उवाच:
स्वदेशवेषाभरणा वीराः शतसहस्रशः |
४ क
वैशम्पाय़न उवाच:
तस्य सेनाप्रणेतारो वभूवुः क्षत्रिय़र्षभाः ||
४ ख
वैशम्पाय़न उवाच:
व्यथय़न्निव भूतानि कम्पय़न्निव मेदिनीम् |
५ क
वैशम्पाय़न उवाच:
शनैर्विश्रामय़न्सेनां स यय़ौ येन पाण्डवः ||
५ ख
वैशम्पाय़न उवाच:
ततो दुर्योधनः श्रुत्वा महासेनं महारथम् |
६ क
वैशम्पाय़न उवाच:
उपाय़ान्तमभिद्रुत्य स्वय़मानर्च भारत ||
६ ख
वैशम्पाय़न उवाच:
कारय़ामास पूजार्थं तस्य दुर्योधनः सभाः |
७ क
वैशम्पाय़न उवाच:
रमणीय़ेषु देशेषु रत्नचित्राः स्वलङ्कृताः ||
७ ख
वैशम्पाय़न उवाच:
स ताः सभाः समासाद्य पूज्यमानो यथामरः |
८ क
वैशम्पाय़न उवाच:
दुर्योधनस्य सचिवैर्देशे देशे यथार्हतः |
८ ख
वैशम्पाय़न उवाच:
आजगाम सभामन्यां देवावसथवर्चसम् ||
८ ग
वैशम्पाय़न उवाच:
स तत्र विषय़ैर्युक्तः कल्याणैरतिमानुषैः |
९ क
वैशम्पाय़न उवाच:
मेनेऽभ्यधिकमात्मानमवमेने पुरन्दरम् ||
९ ख
वैशम्पाय़न उवाच:
पप्रच्छ स ततः प्रेष्यान्प्रहृष्टः क्षत्रिय़र्षभः |
१० क
वैशम्पाय़न उवाच:
युधिष्ठिरस्य पुरुषाः के नु चक्रुः सभा इमाः |
१० ख
वैशम्पाय़न उवाच:
आनीय़न्तां सभाकाराः प्रदेय़ार्हा हि मे मताः ||
१० ग
वैशम्पाय़न उवाच:
गूढो दुर्योधनस्तत्र दर्शय़ामास मातुलम् |
११ क
वैशम्पाय़न उवाच:
तं दृष्ट्वा मद्रराजस्तु ज्ञात्वा यत्नं च तस्य तम् |
११ ख
वैशम्पाय़न उवाच:
परिष्वज्याव्रवीत्प्रीत इष्टोऽर्थो गृह्यतामिति ||
११ ग
दुर्योधन उवाच:
सत्यवाग्भव कल्याण वरो वै मम दीय़ताम् |
१२ क
दुर्योधन उवाच:
सर्वसेनाप्रणेता मे भवान्भवितुमर्हति ||
१२ ख
वैशम्पाय़न उवाच:
कृतमित्यव्रवीच्छल्यः किमन्यत्क्रिय़तामिति |
१३ क
वैशम्पाय़न उवाच:
कृतमित्येव गान्धारिः प्रत्युवाच पुनः पुनः ||
१३ ख
वैशम्पाय़न उवाच:
स तथा शल्यमामन्त्र्य पुनराय़ात्स्वकं पुरम् |
१४ क
वैशम्पाय़न उवाच:
शल्यो जगाम कौन्तेय़ानाख्यातुं कर्म तस्य तत् ||
१४ ख
वैशम्पाय़न उवाच:
उपप्लव्यं स गत्वा तु स्कन्धावारं प्रविश्य च |
१५ क
वैशम्पाय़न उवाच:
पाण्डवानथ तान्सर्वाञ्शल्यस्तत्र ददर्श ह ||
१५ ख
वैशम्पाय़न उवाच:
समेत्य तु महावाहुः शल्यः पाण्डुसुतैस्तदा |
१६ क
वैशम्पाय़न उवाच:
पाद्यमर्घ्यं च गां चैव प्रत्यगृह्णाद्यथाविधि ||
१६ ख
वैशम्पाय़न उवाच:
ततः कुशलपूर्वं स मद्रराजोऽरिसूदनः |
१७ क
वैशम्पाय़न उवाच:
प्रीत्या परमय़ा युक्तः समाश्लिष्य युधिष्ठिरम् ||
१७ ख
वैशम्पाय़न उवाच:
तथा भीमार्जुनौ हृष्टौ स्वस्रीय़ौ च यमावुभौ |
१८ क
वैशम्पाय़न उवाच:
आसने चोपविष्टस्तु शल्यः पार्थमुवाच ह ||
१८ ख
वैशम्पाय़न उवाच:
कुशलं राजशार्दूल कच्चित्ते कुरुनन्दन |
१९ क
वैशम्पाय़न उवाच:
अरण्यवासाद्दिष्ट्यासि विमुक्तो जय़तां वर ||
१९ ख
वैशम्पाय़न उवाच:
सुदुष्करं कृतं राजन्निर्जने वसता वने |
२० क
वैशम्पाय़न उवाच:
भ्रातृभिः सह राजेन्द्र कृष्णय़ा चानय़ा सह ||
२० ख
वैशम्पाय़न उवाच:
अज्ञातवासं घोरं च वसता दुष्करं कृतम् |
२१ क
वैशम्पाय़न उवाच:
दुःखमेव कुतः सौख्यं राज्यभ्रष्टस्य भारत ||
२१ ख
वैशम्पाय़न उवाच:
दुःखस्यैतस्य महतो धार्तराष्ट्रकृतस्य वै |
२२ क
वैशम्पाय़न उवाच:
अवाप्स्यसि सुखं राजन्हत्वा शत्रून्परन्तप ||
२२ ख
वैशम्पाय़न उवाच:
विदितं ते महाराज लोकतत्त्वं नराधिप |
२३ क
वैशम्पाय़न उवाच:
तस्माल्लोभकृतं किञ्चित्तव तात न विद्यते ||
२३ ख
वैशम्पाय़न उवाच:
ततोऽस्याकथय़द्राजा दुर्योधनसमागमम् |
२४ क
वैशम्पाय़न उवाच:
तच्च शुश्रूषितं सर्वं वरदानं च भारत ||
२४ ख
युधिष्ठिर उवाच:
सुकृतं ते कृतं राजन्प्रहृष्टेनान्तरात्मना |
२५ क
युधिष्ठिर उवाच:
दुर्योधनस्य यद्वीर त्वय़ा वाचा प्रतिश्रुतम् |
२५ ख
युधिष्ठिर उवाच:
एकं त्विच्छामि भद्रं ते क्रिय़माणं महीपते ||
२५ ग
युधिष्ठिर उवाच:
भवानिह महाराज वासुदेवसमो युधि |
२६ क
युधिष्ठिर उवाच:
कर्णार्जुनाभ्यां सम्प्राप्ते द्वैरथे राजसत्तम |
२६ ख
युधिष्ठिर उवाच:
कर्णस्य भवता कार्यं सारथ्यं नात्र संशय़ः ||
२६ ग
युधिष्ठिर उवाच:
तत्र पाल्योऽर्जुनो राजन्यदि मत्प्रिय़मिच्छसि |
२७ क
युधिष्ठिर उवाच:
तेजोवधश्च ते कार्यः सौतेरस्मज्जय़ावहः |
२७ ख
युधिष्ठिर उवाच:
अकर्तव्यमपि ह्येतत्कर्तुमर्हसि मातुल ||
२७ ग
शल्य उवाच:
शृणु पाण्डव भद्रं ते यद्व्रवीषि दुरात्मनः |
२८ क
शल्य उवाच:
तेजोवधनिमित्तं मां सूतपुत्रस्य संय़ुगे ||
२८ ख
शल्य उवाच:
अहं तस्य भविष्यामि सङ्ग्रामे सारथिर्ध्रुवम् |
२९ क
शल्य उवाच:
वासुदेवेन हि समं नित्यं मां स हि मन्यते ||
२९ ख
शल्य उवाच:
तस्याहं कुरुशार्दूल प्रतीपमहितं वचः |
३० क
शल्य उवाच:
ध्रुवं सङ्कथय़िष्यामि योद्धुकामस्य संय़ुगे ||
३० ख
शल्य उवाच:
यथा स हृतदर्पश्च हृततेजाश्च पाण्डव |
३१ क
शल्य उवाच:
भविष्यति सुखं हन्तुं सत्यमेतद्व्रवीमि ते ||
३१ ख
शल्य उवाच:
एवमेतत्करिष्यामि यथा तात त्वमात्थ माम् |
३२ क
शल्य उवाच:
यच्चान्यदपि शक्ष्यामि तत्करिष्यामि ते प्रिय़म् ||
३२ ख
शल्य उवाच:
यच्च दुःखं त्वय़ा प्राप्तं द्यूते वै कृष्णय़ा सह |
३३ क
शल्य उवाच:
परुषाणि च वाक्यानि सूतपुत्रकृतानि वै ||
३३ ख
शल्य उवाच:
जटासुरात्परिक्लेशः कीचकाच्च महाद्युते |
३४ क
शल्य उवाच:
द्रौपद्याधिगतं सर्वं दमय़न्त्या यथाशुभम् ||
३४ ख
शल्य उवाच:
सर्वं दुःखमिदं वीर सुखोदर्कं भविष्यति |
३५ क
शल्य उवाच:
नात्र मन्युस्त्वय़ा कार्यो विधिर्हि वलवत्तरः ||
३५ ख
शल्य उवाच:
दुःखानि हि महात्मानः प्राप्नुवन्ति युधिष्ठिर |
३६ क
शल्य उवाच:
देवैरपि हि दुःखानि प्राप्तानि जगतीपते ||
३६ ख
शल्य उवाच:
इन्द्रेण श्रूय़ते राजन्सभार्येण महात्मना |
३७ क
शल्य उवाच:
अनुभूतं महद्दुःखं देवराजेन भारत ||
३७ ख