chevron_left भीष्म पर्व अध्याय ८
धृतराष्ट्र उवाच:
मेरोरथोत्तरं पार्श्वं पूर्वं चाचक्ष्व सञ्जय़ |
१ क
धृतराष्ट्र उवाच:
निखिलेन महावुद्धे माल्यवन्तं च पर्वतम् ||
१ ख
सञ्जय़ उवाच:
दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे |
२ क
सञ्जय़ उवाच:
उत्तराः कुरवो राजन्पुण्याः सिद्धनिषेविताः ||
२ ख
सञ्जय़ उवाच:
तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः |
३ क
सञ्जय़ उवाच:
पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च ||
३ ख
सञ्जय़ उवाच:
सर्वकामफलास्तत्र केचिद्वृक्षा जनाधिप |
४ क
सञ्जय़ उवाच:
अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप ||
४ ख
सञ्जय़ उवाच:
ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम् |
५ क
सञ्जय़ उवाच:
वस्त्राणि च प्रसूय़न्ते फलेष्वाभरणानि च ||
५ ख
सञ्जय़ उवाच:
सर्वा मणिमय़ी भूमिः सूक्ष्मकाञ्चनवालुका |
६ क
सञ्जय़ उवाच:
सर्वत्र सुखसंस्पर्शा निष्पङ्का च जनाधिप ||
६ ख
सञ्जय़ उवाच:
देवलोकच्युताः सर्वे जाय़न्ते तत्र मानवाः |
७ क
सञ्जय़ उवाच:
तुल्यरूपगुणोपेताः समेषु विषमेषु च ||
७ ख
सञ्जय़ उवाच:
मिथुनानि च जाय़न्ते स्त्रिय़श्चाप्सरसोपमाः |
८ क
सञ्जय़ उवाच:
तेषां ते क्षीरिणां क्षीरं पिवन्त्यमृतसंनिभम् ||
८ ख
सञ्जय़ उवाच:
मिथुनं जाय़मानं वै समं तच्च प्रवर्धते |
९ क
सञ्जय़ उवाच:
तुल्यरूपगुणोपेतं समवेषं तथैव च |
९ ख
सञ्जय़ उवाच:
एकैकमनुरक्तं च चक्रवाकसमं विभो ||
९ ग
सञ्जय़ उवाच:
निरामय़ा वीतशोका नित्यं मुदितमानसाः |
१० क
सञ्जय़ उवाच:
दश वर्षसहस्राणि दश वर्षशतानि च |
१० ख
सञ्जय़ उवाच:
जीवन्ति ते महाराज न चान्योन्यं जहत्युत ||
१० ग
सञ्जय़ उवाच:
भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महावलाः |
११ क
सञ्जय़ उवाच:
ते निर्हरन्ति हि मृतान्दरीषु प्रक्षिपन्ति च ||
११ ख
सञ्जय़ उवाच:
उत्तराः कुरवो राजन्व्याख्यातास्ते समासतः |
१२ क
सञ्जय़ उवाच:
मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम् ||
१२ ख
सञ्जय़ उवाच:
तस्य पूर्वाभिषेकस्तु भद्राश्वस्य विशां पते |
१३ क
सञ्जय़ उवाच:
भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः ||
१३ ख
सञ्जय़ उवाच:
कालाम्रश्च महाराज नित्यपुष्पफलः शुभः |
१४ क
सञ्जय़ उवाच:
द्वीपश्च योजनोत्सेधः सिद्धचारणसेवितः ||
१४ ख
सञ्जय़ उवाच:
तत्र ते पुरुषाः श्वेतास्तेजोय़ुक्ता महावलाः |
१५ क
सञ्जय़ उवाच:
स्त्रिय़ः कुमुदवर्णाश्च सुन्दर्यः प्रिय़दर्शनाः ||
१५ ख
सञ्जय़ उवाच:
चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः |
१६ क
सञ्जय़ उवाच:
चन्द्रशीतलगात्र्यश्च नृत्तगीतविशारदाः ||
१६ ख
सञ्जय़ उवाच:
दश वर्षसहस्राणि तत्राय़ुर्भरतर्षभ |
१७ क
सञ्जय़ उवाच:
कालाम्ररसपीतास्ते नित्यं संस्थितय़ौवनाः ||
१७ ख
सञ्जय़ उवाच:
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु |
१८ क
सञ्जय़ उवाच:
सुदर्शनो नाम महाञ्जम्वूवृक्षः सनातनः ||
१८ ख
सञ्जय़ उवाच:
सर्वकामफलः पुण्यः सिद्धचारणसेवितः |
१९ क
सञ्जय़ उवाच:
तस्य नाम्ना समाख्यातो जम्वूद्वीपः सनातनः ||
१९ ख
सञ्जय़ उवाच:
योजनानां सहस्रं च शतं च भरतर्षभ |
२० क
सञ्जय़ उवाच:
उत्सेधो वृक्षराजस्य दिवस्पृङ्मनुजेश्वर ||
२० ख
सञ्जय़ उवाच:
अरत्नीनां सहस्रं च शतानि दश पञ्च च |
२१ क
सञ्जय़ उवाच:
परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम् ||
२१ ख
सञ्जय़ उवाच:
पतमानानि तान्युर्व्यां कुर्वन्ति विपुलं स्वनम् |
२२ क
सञ्जय़ उवाच:
मुञ्चन्ति च रसं राजंस्तस्मिन्रजतसंनिभम् ||
२२ ख
सञ्जय़ उवाच:
तस्या जम्व्वाः फलरसो नदी भूत्वा जनाधिप |
२३ क
सञ्जय़ उवाच:
मेरुं प्रदक्षिणं कृत्वा सम्प्रय़ात्युत्तरान्कुरून् ||
२३ ख
सञ्जय़ उवाच:
पिवन्ति तद्रसं हृष्टा जना नित्यं जनाधिप |
२४ क
सञ्जय़ उवाच:
तस्मिन्फलरसे पीते न जरा वाधते च तान् ||
२४ ख
सञ्जय़ उवाच:
तत्र जाम्वूनदं नाम कनकं देवभूषणम् |
२५ क
सञ्जय़ उवाच:
तरुणादित्यवर्णाश्च जाय़न्ते तत्र मानवाः ||
२५ ख
सञ्जय़ उवाच:
तथा माल्यवतः शृङ्गे दीप्यते तत्र हव्यवाट् |
२६ क
सञ्जय़ उवाच:
नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ ||
२६ ख
सञ्जय़ उवाच:
तथा माल्यवतः शृङ्गे पूर्वे पूर्वान्तगण्डिका |
२७ क
सञ्जय़ उवाच:
योजनानां सहस्राणि पञ्चाशन्माल्यवान्स्थितः ||
२७ ख
सञ्जय़ उवाच:
महारजतसङ्काशा जाय़न्ते तत्र मानवाः |
२८ क
सञ्जय़ उवाच:
व्रह्मलोकाच्च्युताः सर्वे सर्वे च व्रह्मवादिनः ||
२८ ख
सञ्जय़ उवाच:
तपस्तु तप्यमानास्ते भवन्ति ह्यूर्ध्वरेतसः |
२९ क
सञ्जय़ उवाच:
रक्षणार्थं तु भूतानां प्रविशन्ति दिवाकरम् ||
२९ ख
सञ्जय़ उवाच:
षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च |
३० क
सञ्जय़ उवाच:
अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् ||
३० ख
सञ्जय़ उवाच:
षष्टिं वर्षसहस्राणि षष्टिमेव शतानि च |
३१ क
सञ्जय़ उवाच:
आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम् ||
३१ ख