सञ्जय़ उवाच:
ते सेनेऽन्योन्यमासाद्य प्रहृष्टाश्वनरद्विपे |
१ क
सञ्जय़ उवाच:
वृहत्यौ सम्प्रजह्राते देवासुरचमूपमे ||
१ ख
सञ्जय़ उवाच:
ततो गजा रथाश्चाश्वाः पत्तय़श्च महाहवे |
२ क
सञ्जय़ उवाच:
सम्प्रहारं परं चक्रुर्देहपाप्मप्रणाशनम् ||
२ ख
सञ्जय़ उवाच:
पूर्णचन्द्रार्कपद्मानां कान्तित्विड्गन्धतः समैः |
३ क
सञ्जय़ उवाच:
उत्तमाङ्गैर्नृसिंहानां नृसिंहास्तस्तरुर्महीम् ||
३ ख
सञ्जय़ उवाच:
अर्धचन्द्रैस्तथा भल्लैः क्षुरप्रैरसिपट्टिशैः |
४ क
सञ्जय़ उवाच:
परश्वधैश्चाप्यकृन्तन्नुत्तमाङ्गानि युध्यताम् ||
४ ख
सञ्जय़ उवाच:
व्याय़ताय़तवाहूनां व्याय़ताय़तवाहुभिः |
५ क
सञ्जय़ उवाच:
व्याय़ता वाहवः पेतुश्छिन्नमुष्ट्याय़ुधाङ्गदाः ||
५ ख
सञ्जय़ उवाच:
तैः स्फुरद्भिर्मही भाति रक्ताङ्गुलितलैस्तदा |
६ क
सञ्जय़ उवाच:
गरुडप्रहतैरुग्रैः पञ्चास्यैरिव पन्नगैः ||
६ ख
सञ्जय़ उवाच:
हय़स्यन्दननागेभ्यः पेतुर्वीरा द्विषद्धताः |
७ क
सञ्जय़ उवाच:
विमानेभ्यो यथा क्षीणे पुण्ये स्वर्गसदस्तथा ||
७ ख
सञ्जय़ उवाच:
गदाभिरन्यैर्गुर्वीभिः परिघैर्मुसलैरपि |
८ क
सञ्जय़ उवाच:
पोथिताः शतशः पेतुर्वीरा वीरतरै रणे ||
८ ख
सञ्जय़ उवाच:
रथा रथैर्विनिहता मत्ता मत्तैर्द्विपैर्द्विपाः |
९ क
सञ्जय़ उवाच:
सादिनः सादिभिश्चैव तस्मिन्परमसङ्कुले ||
९ ख
सञ्जय़ उवाच:
रथा वररथैर्नागैरश्वारोहाश्च पत्तिभिः |
१० क
सञ्जय़ उवाच:
अश्वारोहैः पदाताश्च निहता युधि शेरते ||
१० ख
सञ्जय़ उवाच:
रथाश्वपत्तय़ो नागै रथैर्नागाश्च पत्तय़ः |
११ क
सञ्जय़ उवाच:
रथपत्तिद्विपाश्चाश्वैर्नृभिश्चाश्वरथद्विपाः ||
११ ख
सञ्जय़ उवाच:
रथाश्वेभनराणां च नराश्वेभरथैः कृतम् |
१२ क
सञ्जय़ उवाच:
पाणिपादैश्च शस्त्रैश्च रथैश्च कदनं महत् ||
१२ ख
सञ्जय़ उवाच:
तथा तस्मिन्वले शूरैर्वध्यमाने हतेऽपि च |
१३ क
सञ्जय़ उवाच:
अस्मानभ्यागमन्पार्था वृकोदरपुरोगमाः ||
१३ ख
सञ्जय़ उवाच:
धृष्टद्युम्नः शिखण्डी च द्रौपदेय़ाः प्रभद्रकाः |
१४ क
सञ्जय़ उवाच:
सात्यकिश्चेकितानश्च द्रविडैः सैनिकैः सह ||
१४ ख
सञ्जय़ उवाच:
भृता वित्तेन महता पाण्ड्याश्चौड्राः सकेरलाः |
१५ क
सञ्जय़ उवाच:
व्यूढोरस्का दीर्घभुजाः प्रांशवः प्रिय़दर्शनाः ||
१५ ख
सञ्जय़ उवाच:
आपीडिनो रक्तदन्ता मत्तमातङ्गविक्रमाः |
१६ क
सञ्जय़ उवाच:
नानाविरागवसना गन्धचूर्णावचूर्णिताः ||
१६ ख
सञ्जय़ उवाच:
वद्धासय़ः पाशहस्ता वारणप्रतिवारणाः |
१७ क
सञ्जय़ उवाच:
समानमृत्यवो राजन्ननीकस्थाः परस्परम् ||
१७ ख
सञ्जय़ उवाच:
कलापिनश्चापहस्ता दीर्घकेशाः प्रिय़ाहवाः |
१८ क
सञ्जय़ उवाच:
पत्तय़ः सात्यकेरन्ध्रा घोररूपपराक्रमाः ||
१८ ख
सञ्जय़ उवाच:
अथापरे पुनः शूराश्चेदिपाञ्चालकेकय़ाः |
१९ क
सञ्जय़ उवाच:
करूषाः कोसलाः काश्या मागधाश्चापि दुद्रुवुः ||
१९ ख
सञ्जय़ उवाच:
तेषां रथाश्च नागाश्च प्रवराश्चापि पत्तय़ः |
२० क
सञ्जय़ उवाच:
नानाविधरवैर्हृष्टा नृत्यन्ति च हसन्ति च ||
२० ख
सञ्जय़ उवाच:
तस्य सैन्यस्य महतो महामात्रवरैर्वृतः |
२१ क
सञ्जय़ उवाच:
मध्यं वृकोदरोऽभ्यागात्त्वदीय़ं नागधूर्गतः ||
२१ ख
सञ्जय़ उवाच:
स नागप्रवरोऽत्युग्रो विधिवत्कल्पितो वभौ |
२२ क
सञ्जय़ उवाच:
उदय़ाद्र्यग्र्यभवनं यथाभ्युदितभास्करम् ||
२२ ख
सञ्जय़ उवाच:
तस्याय़सं वर्मवरं वररत्नविभूषितम् |
२३ क
सञ्जय़ उवाच:
तारोद्भासस्य नभसः शारदस्य समत्विषम् ||
२३ ख
सञ्जय़ उवाच:
स तोमरप्रासकरश्चारुमौलिः स्वलङ्कृतः |
२४ क
सञ्जय़ उवाच:
चरन्मध्यन्दिनार्काभस्तेजसा व्यदहद्रिपून् ||
२४ ख
सञ्जय़ उवाच:
तं दृष्ट्वा द्विरदं दूरात्क्षेमधूर्तिर्द्विपस्थितः |
२५ क
सञ्जय़ उवाच:
आह्वय़ानोऽभिदुद्राव प्रमनाः प्रमनस्तरम् ||
२५ ख
सञ्जय़ उवाच:
तय़ोः समभवद्युद्धं द्विपय़ोरुग्ररूपय़ोः |
२६ क
सञ्जय़ उवाच:
यदृच्छय़ा द्रुमवतोर्महापर्वतय़ोरिव ||
२६ ख
सञ्जय़ उवाच:
संसक्तनागौ तौ वीरौ तोमरैरितरेतरम् |
२७ क
सञ्जय़ उवाच:
वलवत्सूर्यरश्म्याभैर्भित्त्वा भित्त्वा विनेदतुः ||
२७ ख
सञ्जय़ उवाच:
व्यपसृत्य तु नागाभ्यां मण्डलानि विचेरतुः |
२८ क
सञ्जय़ उवाच:
प्रगृह्य चैव धनुषी जघ्नतुर्वै परस्परम् ||
२८ ख
सञ्जय़ उवाच:
क्ष्वेडितास्फोटितरवैर्वाणशव्दैश्च सर्वशः |
२९ क
सञ्जय़ उवाच:
तौ जनान्हर्षय़ित्वा च सिंहनादान्प्रचक्रतुः ||
२९ ख
सञ्जय़ उवाच:
समुद्यतकराभ्यां तौ द्विपाभ्यां कृतिनावुभौ |
३० क
सञ्जय़ उवाच:
वातोद्धूतपताकाभ्यां युय़ुधाते महावलौ ||
३० ख
सञ्जय़ उवाच:
तावन्योन्यस्य धनुषी छित्त्वान्योन्यं विनेदतुः |
३१ क
सञ्जय़ उवाच:
शक्तितोमरवर्षेण प्रावृण्मेघाविवाम्वुभिः ||
३१ ख
सञ्जय़ उवाच:
क्षेमधूर्तिस्तदा भीमं तोमरेण स्तनान्तरे |
३२ क
सञ्जय़ उवाच:
निर्विभेद तु वेगेन षड्भिश्चाप्यपरैर्नदन् ||
३२ ख
सञ्जय़ उवाच:
स भीमसेनः शुशुभे तोमरैरङ्गमाश्रितैः |
३३ क
सञ्जय़ उवाच:
क्रोधदीप्तवपुर्मेघैः सप्तसप्तिरिवांशुमान् ||
३३ ख
सञ्जय़ उवाच:
ततो भास्करवर्णाभमञ्जोगतिमय़स्मय़म् |
३४ क
सञ्जय़ उवाच:
ससर्ज तोमरं भीमः प्रत्यमित्राय़ यत्नवान् ||
३४ ख
सञ्जय़ उवाच:
ततः कुलूताधिपतिश्चापमाय़म्य साय़कैः |
३५ क
सञ्जय़ उवाच:
दशभिस्तोमरं छित्त्वा शक्त्या विव्याध पाण्डवम् ||
३५ ख
सञ्जय़ उवाच:
अथ कार्मुकमादाय़ महाजलदनिस्वनम् |
३६ क
सञ्जय़ उवाच:
रिपोरभ्यर्दय़न्नागमुन्मदः पाण्डवः शरैः ||
३६ ख
सञ्जय़ उवाच:
स शरौघार्दितो नागो भीमसेनेन संय़ुगे |
३७ क
सञ्जय़ उवाच:
निगृह्यमाणो नातिष्ठद्वातध्वस्त इवाम्वुदः ||
३७ ख
सञ्जय़ उवाच:
तामभ्यधावद्द्विरदं भीमसेनस्य नागराट् |
३८ क
सञ्जय़ उवाच:
महावातेरितं मेघं वातोद्धूत इवाम्वुदः ||
३८ ख
सञ्जय़ उवाच:
संनिवर्त्यात्मनो नागं क्षेमधूर्तिः प्रय़त्नतः |
३९ क
सञ्जय़ उवाच:
विव्याधाभिद्रुतं वाणैर्भीमसेनं सकुञ्जरम् ||
३९ ख
सञ्जय़ उवाच:
ततः साधुविसृष्टेन क्षुरेण पुरुषर्षभः |
४० क
सञ्जय़ उवाच:
छित्त्वा शरासनं शत्रोर्नागमामित्रमार्दय़त् ||
४० ख
सञ्जय़ उवाच:
ततः खजाकय़ा भीमं क्षेमधूर्तिः पराभिनत् |
४१ क
सञ्जय़ उवाच:
जघान चास्य द्विरदं नाराचैः सर्वमर्मसु ||
४१ ख
सञ्जय़ उवाच:
पुरा नागस्य पतनादवप्लुत्य स्थितो महीम् |
४२ क
सञ्जय़ उवाच:
भीमसेनो रिपोर्नागं गदय़ा समपोथय़त् ||
४२ ख
सञ्जय़ उवाच:
तस्मात्प्रमथितान्नागात्क्षेमधूर्तिमवद्रुतम् |
४३ क
सञ्जय़ उवाच:
उद्यतासिमुपाय़ान्तं गदय़ाहन्वृकोदरः ||
४३ ख
सञ्जय़ उवाच:
स पपात हतः सासिर्व्यसुः स्वमभितो द्विपम् |
४४ क
सञ्जय़ उवाच:
वज्रप्ररुग्णमचलं सिंहो वज्रहतो यथा ||
४४ ख
सञ्जय़ उवाच:
निहतं नृपतिं दृष्ट्वा कुलूतानां यशस्करम् |
४५ क
सञ्जय़ उवाच:
प्राद्रवद्व्यथिता सेना त्वदीय़ा भरतर्षभ ||
४५ ख