chevron_left शल्य पर्व अध्याय ८
सञ्जय़ उवाच:
ततः प्रववृते युद्धं कुरूणां भय़वर्धनम् |
१ क
सञ्जय़ उवाच:
सृञ्जय़ैः सह राजेन्द्र घोरं देवासुरोपमम् ||
१ ख
सञ्जय़ उवाच:
नरा रथा गजौघाश्च सादिनश्च सहस्रशः |
२ क
सञ्जय़ उवाच:
वाजिनश्च पराक्रान्ताः समाजग्मुः परस्परम् ||
२ ख
सञ्जय़ उवाच:
नागानां भीमरूपाणां द्रवतां निस्वनो महान् |
३ क
सञ्जय़ उवाच:
अश्रूय़त यथा काले जलदानां नभस्तले ||
३ ख
सञ्जय़ उवाच:
नागैरभ्याहताः केचित्सरथा रथिनोऽपतन् |
४ क
सञ्जय़ उवाच:
व्यद्रवन्त रणे वीरा द्राव्यमाणा मदोत्कटैः ||
४ ख
सञ्जय़ उवाच:
हय़ौघान्पादरक्षांश्च रथिनस्तत्र शिक्षिताः |
५ क
सञ्जय़ उवाच:
शरैः सम्प्रेषय़ामासुः परलोकाय़ भारत ||
५ ख
सञ्जय़ उवाच:
सादिनः शिक्षिता राजन्परिवार्य महारथान् |
६ क
सञ्जय़ उवाच:
विचरन्तो रणेऽभ्यघ्नन्प्रासशक्त्यृष्टिभिस्तथा ||
६ ख
सञ्जय़ उवाच:
धन्विनः पुरुषाः केचित्संनिवार्य महारथान् |
७ क
सञ्जय़ उवाच:
एकं वहव आसाद्य प्रेषय़ेय़ुर्यमक्षय़म् ||
७ ख
सञ्जय़ उवाच:
नागं रथवरांश्चान्ये परिवार्य महारथाः |
८ क
सञ्जय़ उवाच:
सोत्तराय़ुधिनं जघ्नुर्द्रवमाणा महारवम् ||
८ ख
सञ्जय़ उवाच:
तथा च रथिनं क्रुद्धं विकिरन्तं शरान्वहून् |
९ क
सञ्जय़ उवाच:
नागा जघ्नुर्महाराज परिवार्य समन्ततः ||
९ ख
सञ्जय़ उवाच:
नागो नागमभिद्रुत्य रथी च रथिनं रणे |
१० क
सञ्जय़ उवाच:
शक्तितोमरनाराचैर्निजघ्नुस्तत्र तत्र ह ||
१० ख
सञ्जय़ उवाच:
पादातानवमृद्नन्तो रथवारणवाजिनः |
११ क
सञ्जय़ उवाच:
रणमध्ये व्यदृश्यन्त कुर्वन्तो महदाकुलम् ||
११ ख
सञ्जय़ उवाच:
हय़ाश्च पर्यधावन्त चामरैरुपशोभिताः |
१२ क
सञ्जय़ उवाच:
हंसा हिमवतः प्रस्थे पिवन्त इव मेदिनीम् ||
१२ ख
सञ्जय़ उवाच:
तेषां तु वाजिनां भूमिः खुरैश्चित्रा विशां पते |
१३ क
सञ्जय़ उवाच:
अशोभत यथा नारी करजक्षतविक्षता ||
१३ ख
सञ्जय़ उवाच:
वाजिनां खुरशव्देन रथनेमिस्वनेन च |
१४ क
सञ्जय़ उवाच:
पत्तीनां चापि शव्देन नागानां वृंहितेन च ||
१४ ख
सञ्जय़ उवाच:
वादित्राणां च घोषेण शङ्खानां निस्वनेन च |
१५ क
सञ्जय़ उवाच:
अभवन्नादिता भूमिर्निर्घातैरिव भारत ||
१५ ख
सञ्जय़ उवाच:
धनुषां कूजमानानां निस्त्रिंशानां च दीप्यताम् |
१६ क
सञ्जय़ उवाच:
कवचानां प्रभाभिश्च न प्राज्ञाय़त किञ्चन ||
१६ ख
सञ्जय़ उवाच:
वहवो वाहवश्छिन्ना नागराजकरोपमाः |
१७ क
सञ्जय़ उवाच:
उद्वेष्टन्ते विवेष्टन्ते वेगं कुर्वन्ति दारुणम् ||
१७ ख
सञ्जय़ उवाच:
शिरसां च महाराज पततां वसुधातले |
१८ क
सञ्जय़ उवाच:
च्युतानामिव तालेभ्यः फलानां श्रूय़ते स्वनः ||
१८ ख
सञ्जय़ उवाच:
शिरोभिः पतितैर्भाति रुधिरार्द्रैर्वसुन्धरा |
१९ क
सञ्जय़ उवाच:
तपनीय़निभैः काले नलिनैरिव भारत ||
१९ ख
सञ्जय़ उवाच:
उद्वृत्तनय़नैस्तैस्तु गतसत्त्वैः सुविक्षतैः |
२० क
सञ्जय़ उवाच:
व्यभ्राजत महाराज पुण्डरीकैरिवावृता ||
२० ख
सञ्जय़ उवाच:
वाहुभिश्चन्दनादिग्धैः सकेय़ूरैर्महाधनैः |
२१ क
सञ्जय़ उवाच:
पतितैर्भाति राजेन्द्र मही शक्रध्वजैरिव ||
२१ ख
सञ्जय़ उवाच:
ऊरुभिश्च नरेन्द्राणां विनिकृत्तैर्महाहवे |
२२ क
सञ्जय़ उवाच:
हस्तिहस्तोपमैरन्यैः संवृतं तद्रणाङ्गणम् ||
२२ ख
सञ्जय़ उवाच:
कवन्धशतसङ्कीर्णं छत्रचामरशोभितम् |
२३ क
सञ्जय़ उवाच:
सेनावनं तच्छुशुभे वनं पुष्पाचितं यथा ||
२३ ख
सञ्जय़ उवाच:
तत्र योधा महाराज विचरन्तो ह्यभीतवत् |
२४ क
सञ्जय़ उवाच:
दृश्यन्ते रुधिराक्ताङ्गाः पुष्पिता इव किंशुकाः ||
२४ ख
सञ्जय़ उवाच:
मातङ्गाश्चाप्यदृश्यन्त शरतोमरपीडिताः |
२५ क
सञ्जय़ उवाच:
पतन्तस्तत्र तत्रैव छिन्नाभ्रसदृशा रणे ||
२५ ख
सञ्जय़ उवाच:
गजानीकं महाराज वध्यमानं महात्मभिः |
२६ क
सञ्जय़ उवाच:
व्यदीर्यत दिशः सर्वा वातनुन्ना घना इव ||
२६ ख
सञ्जय़ उवाच:
ते गजा घनसङ्काशाः पेतुरुर्व्यां समन्ततः |
२७ क
सञ्जय़ उवाच:
वज्ररुग्णा इव वभुः पर्वता युगसङ्क्षय़े ||
२७ ख
सञ्जय़ उवाच:
हय़ानां सादिभिः सार्धं पतितानां महीतले |
२८ क
सञ्जय़ उवाच:
राशय़ः सम्प्रदृश्यन्ते गिरिमात्रास्ततस्ततः ||
२८ ख
सञ्जय़ उवाच:
सञ्जज्ञे रणभूमौ तु परलोकवहा नदी |
२९ क
सञ्जय़ उवाच:
शोणितोदा रथावर्ता ध्वजवृक्षास्थिशर्करा ||
२९ ख
सञ्जय़ उवाच:
भुजनक्रा धनुःस्रोता हस्तिशैला हय़ोपला |
३० क
सञ्जय़ उवाच:
मेदोमज्जाकर्दमिनी छत्रहंसा गदोडुपा ||
३० ख
सञ्जय़ उवाच:
कवचोष्णीषसञ्छन्ना पताकारुचिरद्रुमा |
३१ क
सञ्जय़ उवाच:
चक्रचक्रावलीजुष्टा त्रिवेणूदण्डकावृता ||
३१ ख
सञ्जय़ उवाच:
शूराणां हर्षजननी भीरूणां भय़वर्धिनी |
३२ क
सञ्जय़ उवाच:
प्रावर्तत नदी रौद्रा कुरुसृञ्जय़सङ्कुला ||
३२ ख
सञ्जय़ उवाच:
तां नदीं पितृलोकाय़ वहन्तीमतिभैरवाम् |
३३ क
सञ्जय़ उवाच:
तेरुर्वाहननौभिस्ते शूराः परिघवाहवः ||
३३ ख
सञ्जय़ उवाच:
वर्तमाने तथा युद्धे निर्मर्यादे विशां पते |
३४ क
सञ्जय़ उवाच:
चतुरङ्गक्षय़े घोरे पूर्वं देवासुरोपमे ||
३४ ख
सञ्जय़ उवाच:
अक्रोशन्वान्धवानन्ये तत्र तत्र परन्तप |
३५ क
सञ्जय़ उवाच:
क्रोशद्भिर्वान्धवैश्चान्ये भय़ार्ता न निवर्तिरे ||
३५ ख
सञ्जय़ उवाच:
निर्मर्यादे तथा युद्धे वर्तमाने भय़ानके |
३६ क
सञ्जय़ उवाच:
अर्जुनो भीमसेनश्च मोहय़ां चक्रतुः परान् ||
३६ ख
सञ्जय़ उवाच:
सा वध्यमाना महती सेना तव जनाधिप |
३७ क
सञ्जय़ उवाच:
अमुह्यत्तत्र तत्रैव योषिन्मदवशादिव ||
३७ ख
सञ्जय़ उवाच:
मोहय़ित्वा च तां सेनां भीमसेनधनञ्जय़ौ |
३८ क
सञ्जय़ उवाच:
दध्मतुर्वारिजौ तत्र सिंहनादं च नेदतुः ||
३८ ख
सञ्जय़ उवाच:
श्रुत्वैव तु महाशव्दं धृष्टद्युम्नशिखण्डिनौ |
३९ क
सञ्जय़ उवाच:
धर्मराजं पुरस्कृत्य मद्रराजमभिद्रुतौ ||
३९ ख
सञ्जय़ उवाच:
तत्राश्चर्यमपश्याम घोररूपं विशां पते |
४० क
सञ्जय़ उवाच:
शल्येन सङ्गताः शूरा यदय़ुध्यन्त भागशः ||
४० ख
सञ्जय़ उवाच:
माद्रीपुत्रौ सरभसौ कृतास्त्रौ युद्धदुर्मदौ |
४१ क
सञ्जय़ उवाच:
अभ्ययातां त्वराय़ुक्तौ जिगीषन्तौ वलं तव ||
४१ ख
सञ्जय़ उवाच:
ततो न्यवर्तत वलं तावकं भरतर्षभ |
४२ क
सञ्जय़ उवाच:
शरैः प्रणुन्नं वहुधा पाण्डवैर्जितकाशिभिः ||
४२ ख
सञ्जय़ उवाच:
वध्यमाना चमूः सा तु पुत्राणां प्रेक्षतां तव |
४३ क
सञ्जय़ उवाच:
भेजे दिशो महाराज प्रणुन्ना दृढधन्विभिः |
४३ ख
सञ्जय़ उवाच:
हाहाकारो महाञ्जज्ञे योधानां तव भारत ||
४३ ग
सञ्जय़ उवाच:
तिष्ठ तिष्ठेति वागासीद्द्रावितानां महात्मनाम् |
४४ क
सञ्जय़ उवाच:
क्षत्रिय़ाणां तदान्योन्यं संय़ुगे जय़मिच्छताम् |
४४ ख
सञ्जय़ उवाच:
आद्रवन्नेव भग्नास्ते पाण्डवैस्तव सैनिकाः ||
४४ ग
सञ्जय़ उवाच:
त्यक्त्वा युद्धे प्रिय़ान्पुत्रान्भ्रातॄनथ पितामहान् |
४५ क
सञ्जय़ उवाच:
मातुलान्भागिनेय़ांश्च तथा सम्वन्धिवान्धवान् ||
४५ ख
सञ्जय़ उवाच:
हय़ान्द्विपांस्त्वरय़न्तो योधा जग्मुः समन्ततः |
४६ क
सञ्जय़ उवाच:
आत्मत्राणकृतोत्साहास्तावका भरतर्षभ ||
४६ ख