chevron_left आदि पर्व अध्याय ८०
वैशम्पाय़न उवाच:
पौरवेणाथ वय़सा यय़ातिर्नहुषात्मजः |
१ क
वैशम्पाय़न उवाच:
प्रीतिय़ुक्तो नृपश्रेष्ठश्चचार विषय़ान्प्रिय़ान् ||
१ ख
वैशम्पाय़न उवाच:
यथाकामं यथोत्साहं यथाकालं यथासुखम् |
२ क
वैशम्पाय़न उवाच:
धर्माविरुद्धान्राजेन्द्रो यथार्हति स एव हि ||
२ ख
वैशम्पाय़न उवाच:
देवानतर्पय़द्यज्ञैः श्राद्धैस्तद्वत्पितृनपि |
३ क
वैशम्पाय़न उवाच:
दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ||
३ ख
वैशम्पाय़न उवाच:
अतिथीनन्नपानैश्च विशश्च परिपालनैः |
४ क
वैशम्पाय़न उवाच:
आनृशंस्येन शूद्रांश्च दस्यून्संनिग्रहेण च ||
४ ख
वैशम्पाय़न उवाच:
धर्मेण च प्रजाः सर्वा यथावदनुरञ्जय़न् |
५ क
वैशम्पाय़न उवाच:
यय़ातिः पालय़ामास साक्षादिन्द्र इवापरः ||
५ ख
वैशम्पाय़न उवाच:
स राजा सिंहविक्रान्तो युवा विषय़गोचरः |
६ क
वैशम्पाय़न उवाच:
अविरोधेन धर्मस्य चचार सुखमुत्तमम् ||
६ ख
वैशम्पाय़न उवाच:
स सम्प्राप्य शुभान्कामांस्तृप्तः खिन्नश्च पार्थिवः |
७ क
वैशम्पाय़न उवाच:
कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः ||
७ ख
वैशम्पाय़न उवाच:
परिसङ्ख्याय़ कालज्ञः कलाः काष्ठाश्च वीर्यवान् |
८ क
वैशम्पाय़न उवाच:
पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह ||
८ ख
वैशम्पाय़न उवाच:
यथाकामं यथोत्साहं यथाकालमरिन्दम |
९ क
वैशम्पाय़न उवाच:
सेविता विषय़ाः पुत्र यौवनेन मय़ा तव ||
९ ख
वैशम्पाय़न उवाच:
पूरो प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वय़ौवनम् |
१० क
वैशम्पाय़न उवाच:
राज्यं चैव गृहाणेदं त्वं हि मे प्रिय़कृत्सुतः ||
१० ख
वैशम्पाय़न उवाच:
प्रतिपेदे जरां राजा यय़ातिर्नाहुषस्तदा |
११ क
वैशम्पाय़न उवाच:
यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मनः ||
११ ख
वैशम्पाय़न उवाच:
अभिषेक्तुकामं नृपतिं पूरुं पुत्रं कनीय़सम् |
१२ क
वैशम्पाय़न उवाच:
व्राह्मणप्रमुखा वर्णा इदं वचनमव्रुवन् ||
१२ ख
वैशम्पाय़न उवाच:
कथं शुक्रस्य नप्तारं देवय़ान्याः सुतं प्रभो |
१३ क
वैशम्पाय़न उवाच:
ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यसि ||
१३ ख
वैशम्पाय़न उवाच:
यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः |
१४ क
वैशम्पाय़न उवाच:
शर्मिष्ठाय़ाः सुतो द्रुह्युस्ततोऽनुः पूरुरेव च ||
१४ ख
वैशम्पाय़न उवाच:
कथं ज्येष्ठानतिक्रम्य कनीय़ान्राज्यमर्हति |
१५ क
वैशम्पाय़न उवाच:
एतत्सम्वोधय़ामस्त्वां धर्मं त्वमनुपालय़ ||
१५ ख
यय़ातिरु उवाच:
व्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः |
१६ क
यय़ातिरु उवाच:
ज्येष्ठं प्रति यथा राज्यं न देय़ं मे कथञ्चन ||
१६ ख
यय़ातिरु उवाच:
मम ज्येष्ठेन यदुना निय़ोगो नानुपालितः |
१७ क
यय़ातिरु उवाच:
प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः ||
१७ ख
यय़ातिरु उवाच:
मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः |
१८ क
यय़ातिरु उवाच:
स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु ||
१८ ख
यय़ातिरु उवाच:
यदुनाहमवज्ञातस्तथा तुर्वसुनापि च |
१९ क
यय़ातिरु उवाच:
द्रुह्युना चानुना चैव मय़्यवज्ञा कृता भृशम् ||
१९ ख
यय़ातिरु उवाच:
पूरुणा मे कृतं वाक्यं मानितश्च विशेषतः |
२० क
यय़ातिरु उवाच:
कनीय़ान्मम दाय़ादो जरा येन धृता मम |
२० ख
यय़ातिरु उवाच:
मम कामः स च कृतः पूरुणा पुत्ररूपिणा ||
२० ग
यय़ातिरु उवाच:
शुक्रेण च वरो दत्तः काव्येनोशनसा स्वय़म् |
२१ क
यय़ातिरु उवाच:
पुत्रो यस्त्वानुवर्तेत स राजा पृथिवीपतिः |
२१ ख
यय़ातिरु उवाच:
भवतोऽनुनय़ाम्येवं पूरू राज्येऽभिषिच्यताम् ||
२१ ग
प्रकृतय़ ऊचुः:
यः पुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा |
२२ क
प्रकृतय़ ऊचुः:
सर्वमर्हति कल्याणं कनीय़ानपि स प्रभो ||
२२ ख
प्रकृतय़ ऊचुः:
अर्हः पूरुरिदं राज्यं यः सुतः प्रिय़कृत्तव |
२३ क
प्रकृतय़ ऊचुः:
वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ||
२३ ख
वैशम्पाय़न उवाच:
पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा |
२४ क
वैशम्पाय़न उवाच:
अभ्यषिञ्चत्ततः पूरुं राज्ये स्वे सुतमात्मजम् ||
२४ ख
वैशम्पाय़न उवाच:
दत्त्वा च पूरवे राज्यं वनवासाय़ दीक्षितः |
२५ क
वैशम्पाय़न उवाच:
पुरात्स निर्ययौ राजा व्राह्मणैस्तापसैः सह ||
२५ ख
वैशम्पाय़न उवाच:
यदोस्तु यादवा जातास्तुर्वसोर्यवनाः सुताः |
२६ क
वैशम्पाय़न उवाच:
द्रुह्योरपि सुता भोजा अनोस्तु म्लेच्छजातय़ः ||
२६ ख
वैशम्पाय़न उवाच:
पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव |
२७ क
वैशम्पाय़न उवाच:
इदं वर्षसहस्राय़ राज्यं कारय़ितुं वशी ||
२७ ख