युधिष्ठिर उवाच:
पवित्राणां पवित्रं यच्छ्रेष्ठं लोके च यद्भवेत् |
१ क
युधिष्ठिर उवाच:
पावनं परमं चैव तन्मे व्रूहि पितामह ||
१ ख
भीष्म उवाच:
गावो महार्थाः पुण्याश्च तारय़न्ति च मानवान् |
२ क
भीष्म उवाच:
धारय़न्ति प्रजाश्चेमाः पय़सा हविषा तथा ||
२ ख
भीष्म उवाच:
न हि पुण्यतमं किञ्चिद्गोभ्यो भरतसत्तम |
३ क
भीष्म उवाच:
एताः पवित्राः पुण्याश्च त्रिषु लोकेष्वनुत्तमाः ||
३ ख
भीष्म उवाच:
देवानामुपरिष्टाच्च गावः प्रतिवसन्ति वै |
४ क
भीष्म उवाच:
दत्त्वा चैता नरपते यान्ति स्वर्गं मनीषिणः ||
४ ख
भीष्म उवाच:
मान्धाता यौवनाश्वश्च यय़ातिर्नहुषस्तथा |
५ क
भीष्म उवाच:
गावो ददन्तः सततं सहस्रशतसंमिताः |
५ ख
भीष्म उवाच:
गताः परमकं स्थानं देवैरपि सुदुर्लभम् ||
५ ग
भीष्म उवाच:
अपि चात्र पुरावृत्तं कथय़िष्यामि तेऽनघ |
७ क
भीष्म उवाच:
ऋषीणामुत्तमं धीमान्कृष्णद्वैपाय़नं शुकः |
७ ख
भीष्म उवाच:
अभिवाद्याह्निकं कृत्वा शुचिः प्रय़तमानसः |
७ ग
भीष्म उवाच:
पितरं परिपप्रच्छ दृष्टलोकपरावरम् ||
७ घ
भीष्म उवाच:
को यज्ञः सर्वय़ज्ञानां वरिष्ठ उपलक्ष्यते |
८ क
भीष्म उवाच:
किं च कृत्वा परं स्वर्गं प्राप्नुवन्ति मनीषिणः ||
८ ख
भीष्म उवाच:
केन देवाः पवित्रेण स्वर्गमश्नन्ति वा विभो |
९ क
भीष्म उवाच:
किं च यज्ञस्य यज्ञत्वं क्व च यज्ञः प्रतिष्ठितः ||
९ ख
भीष्म उवाच:
दानानामुत्तमं किं च किं च सत्रमतः परम् |
१० क
भीष्म उवाच:
पवित्राणां पवित्रं च यत्तद्व्रूहि ममानघ ||
१० ख
भीष्म उवाच:
एतच्छ्रुत्वा तु वचनं व्यासः परमधर्मवित् |
११ क
भीष्म उवाच:
पुत्राय़ाकथय़त्सर्वं तत्त्वेन भरतर्षभ ||
११ ख
व्यास उवाच:
गावः प्रतिष्ठा भूतानां तथा गावः पराय़णम् |
१२ क
व्यास उवाच:
गावः पुण्याः पवित्राश्च पावनं धर्म एव च ||
१२ ख
व्यास उवाच:
पूर्वमासन्नशृङ्गा वै गाव इत्यनुशुश्रुमः |
१३ क
व्यास उवाच:
शृङ्गार्थे समुपासन्त ताः किल प्रभुमव्ययम् ||
१३ ख
व्यास उवाच:
ततो व्रह्मा तु गाः प्राय़मुपविष्टाः समीक्ष्य ह |
१४ क
व्यास उवाच:
ईप्सितं प्रददौ ताभ्यो गोभ्यः प्रत्येकशः प्रभुः ||
१४ ख
व्यास उवाच:
तासां शृङ्गाण्यजाय़न्त यस्या यादृङ्मनोगतम् |
१५ क
व्यास उवाच:
नानावर्णाः शृङ्गवन्त्यस्ता व्यरोचन्त पुत्रक ||
१५ ख
व्यास उवाच:
व्रह्मणा वरदत्तास्ता हव्यकव्यप्रदाः शुभाः |
१६ क
व्यास उवाच:
पुण्याः पवित्राः सुभगा दिव्यसंस्थानलक्षणाः |
१६ ख
व्यास उवाच:
गावस्तेजो महद्दिव्यं गवां दानं प्रशस्यते ||
१६ ग
व्यास उवाच:
ये चैताः सम्प्रय़च्छन्ति साधवो वीतमत्सराः |
१७ क
व्यास उवाच:
ते वै सुकृतिनः प्रोक्ताः सर्वदानप्रदाश्च ते |
१७ ख
व्यास उवाच:
गवां लोकं तथा पुण्यमाप्नुवन्ति च तेऽनघ ||
१७ ग
व्यास उवाच:
यत्र वृक्षा मधुफला दिव्यपुष्पफलोपगाः |
१८ क
व्यास उवाच:
पुष्पाणि च सुगन्धीनि दिव्यानि द्विजसत्तम ||
१८ ख
व्यास उवाच:
सर्वा मणिमय़ी भूमिः सूक्ष्मकाञ्चनवालुका |
१९ क
व्यास उवाच:
सर्वत्र सुखसंस्पर्शा निष्पङ्का नीरजा शुभा ||
१९ ख
व्यास उवाच:
रक्तोत्पलवनैश्चैव मणिदण्डैर्हिरण्मय़ैः |
२० क
व्यास उवाच:
तरुणादित्यसङ्काशैर्भान्ति तत्र जलाशय़ाः ||
२० ख
व्यास उवाच:
महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः |
२१ क
व्यास उवाच:
नीलोत्पलविमिश्रैश्च सरोभिर्वहुपङ्कजैः ||
२१ ख
व्यास उवाच:
करवीरवनैः फुल्लैः सहस्रावर्तसंवृतैः |
२२ क
व्यास उवाच:
सन्तानकवनैः फुल्लैर्वृक्षैश्च समलङ्कृताः ||
२२ ख
व्यास उवाच:
निर्मलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः |
२३ क
व्यास उवाच:
उद्धूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ||
२३ ख
व्यास उवाच:
सर्वरत्नमय़ैश्चित्रैरवगाढा नगोत्तमैः |
२४ क
व्यास उवाच:
जातरूपमय़ैश्चान्यैर्हुताशनसमप्रभैः ||
२४ ख
व्यास उवाच:
सौवर्णगिरय़स्तत्र मणिरत्नशिलोच्चय़ाः |
२५ क
व्यास उवाच:
सर्वरत्नमय़ैर्भान्ति शृङ्गैश्चारुभिरुच्छ्रितैः ||
२५ ख
व्यास उवाच:
नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः |
२६ क
व्यास उवाच:
दिव्यगन्धरसैः पुष्पैः फलैश्च भरतर्षभ ||
२६ ख
व्यास उवाच:
रमन्ते पुण्यकर्माणस्तत्र नित्यं युधिष्ठिर |
२७ क
व्यास उवाच:
सर्वकामसमृद्धार्था निःशोका गतमन्यवः ||
२७ ख
व्यास उवाच:
विमानेषु विचित्रेषु रमणीय़ेषु भारत |
२८ क
व्यास उवाच:
मोदन्ते पुण्यकर्माणो विहरन्तो यशस्विनः ||
२८ ख
व्यास उवाच:
उपक्रीडन्ति तान्राजञ्शुभाश्चाप्सरसां गणाः |
२९ क
व्यास उवाच:
एताँल्लोकानवाप्नोति गां दत्त्वा वै युधिष्ठिर ||
२९ ख
व्यास उवाच:
यासामधिपतिः पूषा मारुतो वलवान्वली |
३० क
व्यास उवाच:
ऐश्वर्ये वरुणो राजा ता मां पान्तु युगन्धराः ||
३० ख
व्यास उवाच:
सुरूपा वहुरूपाश्च विश्वरूपाश्च मातरः |
३१ क
व्यास उवाच:
प्राजापत्या इति व्रह्मञ्जपेन्नित्यं यतव्रतः ||
३१ ख
व्यास उवाच:
गास्तु शुश्रूषते यश्च समन्वेति च सर्वशः |
३२ क
व्यास उवाच:
तस्मै तुष्टाः प्रय़च्छन्ति वरानपि सुदुर्लभान् ||
३२ ख
व्यास उवाच:
न द्रुह्येन्मनसा चापि गोषु ता हि सुखप्रदाः |
३३ क
व्यास उवाच:
अर्चय़ेत सदा चैव नमस्कारैश्च पूजय़ेत् |
३३ ख
व्यास उवाच:
दान्तः प्रीतमना नित्यं गवां व्युष्टिं तथाश्नुते ||
३३ ग
व्यास उवाच:
येन देवाः पवित्रेण भुञ्जते लोकमुत्तमम् |
३४ क
व्यास उवाच:
यत्पवित्रं पवित्राणां तद्घृतं शिरसा वहेत् ||
३४ ख
व्यास उवाच:
घृतेन जुहुय़ादग्निं घृतेन स्वस्ति वाचय़ेत् |
३५ क
व्यास उवाच:
घृतं प्राशेद्घृतं दद्याद्गवां व्युष्टिं तथाश्नुते ||
३५ ख
व्यास उवाच:
त्र्यहमुष्णं पिवेन्मूत्रं त्र्यहमुष्णं पिवेत्पय़ः |
३६ क
व्यास उवाच:
गवामुष्णं पय़ः पीत्वा त्र्यहमुष्णं घृतं पिवेत् |
३६ ख
व्यास उवाच:
त्र्यहमुष्णं घृतं पीत्वा वाय़ुभक्षो भवेत्त्र्यहम् ||
३६ ग
व्यास उवाच:
निर्हृतैश्च यवैर्गोभिर्मासं प्रसृतय़ावकः |
३७ क
व्यास उवाच:
व्रह्महत्यासमं पापं सर्वमेतेन शुध्यति ||
३७ ख
व्यास उवाच:
पराभवार्थं दैत्यानां देवैः शौचमिदं कृतम् |
३८ क
व्यास उवाच:
देवत्वमपि च प्राप्ताः संसिद्धाश्च महावलाः ||
३८ ख
व्यास उवाच:
गावः पवित्राः पुण्याश्च पावनं परमं महत् |
३९ क
व्यास उवाच:
ताश्च दत्त्वा द्विजातिभ्यो नरः स्वर्गमुपाश्नुते ||
३९ ख
व्यास उवाच:
गवां मध्ये शुचिर्भूत्वा गोमतीं मनसा जपेत् |
४० क
व्यास उवाच:
पूताभिरद्भिराचम्य शुचिर्भवति निर्मलः ||
४० ख
व्यास उवाच:
अग्निमध्ये गवां मध्ये व्राह्मणानां च संसदि |
४१ क
व्यास उवाच:
विद्यावेदव्रतस्नाता व्राह्मणाः पुण्यकर्मिणः ||
४१ ख
व्यास उवाच:
अध्यापय़ेरञ्शिष्यान्वै गोमतीं यज्ञसंमिताम् |
४२ क
व्यास उवाच:
त्रिरात्रोपोषितः श्रुत्वा गोमतीं लभते वरम् ||
४२ ख
व्यास उवाच:
पुत्रकामश्च लभते पुत्रं धनमथापि च |
४३ क
व्यास उवाच:
पतिकामा च भर्तारं सर्वकामांश्च मानवः |
४३ ख
व्यास उवाच:
गावस्तुष्टाः प्रय़च्छन्ति सेविता वै न संशय़ः ||
४३ ग
व्यास उवाच:
एवमेता महाभागा यज्ञिय़ाः सर्वकामदाः |
४४ क
व्यास उवाच:
रोहिण्य इति जानीहि नैताभ्यो विद्यते परम् ||
४४ ख
व्यास उवाच:
इत्युक्तः स महातेजाः शुकः पित्रा महात्मना |
४५ क
व्यास उवाच:
पूजय़ामास गा नित्यं तस्मात्त्वमपि पूजय़ ||
४५ ख