वैशम्पाय़न उवाच:
तथा विलप्योपरता भर्तुः पादौ प्रगृह्य सा |
१ क
वैशम्पाय़न उवाच:
उपविष्टाभवद्देवी सोच्छ्वासं पुत्रमीक्षती ||
१ ख
वैशम्पाय़न उवाच:
ततः सञ्ज्ञां पुनर्लव्ध्वा स राजा वभ्रुवाहनः |
२ क
वैशम्पाय़न उवाच:
मातरं तामथालोक्य रणभूमावथाव्रवीत् ||
२ ख
वैशम्पाय़न उवाच:
इतो दुःखतरं किं नु यन्मे माता सुखैधिता |
३ क
वैशम्पाय़न उवाच:
भूमौ निपतितं वीरमनुशेते मृतं पतिम् ||
३ ख
वैशम्पाय़न उवाच:
निहन्तारं रणेऽरीणां सर्वशस्त्रभृतां वरम् |
४ क
वैशम्पाय़न उवाच:
मय़ा विनिहतं सङ्ख्ये प्रेक्षते दुर्मरं वत ||
४ ख
वैशम्पाय़न उवाच:
अहोऽस्या हृदय़ं देव्या दृढं यन्न विदीर्यते |
५ क
वैशम्पाय़न उवाच:
व्यूढोरस्कं महावाहुं प्रेक्षन्त्या निहतं पतिम् ||
५ ख
वैशम्पाय़न उवाच:
दुर्मरं पुरुषेणेह मन्ये ह्यध्वन्यनागते |
६ क
वैशम्पाय़न उवाच:
यत्र नाहं न मे माता विप्रय़ुज्येत जीवितात् ||
६ ख
वैशम्पाय़न उवाच:
अहो धिक्कुरुवीरस्य ह्युरःस्थं काञ्चनं भुवि |
७ क
वैशम्पाय़न उवाच:
व्यपविद्धं हतस्येह मय़ा पुत्रेण पश्यत ||
७ ख
वैशम्पाय़न उवाच:
भो भो पश्यत मे वीरं पितरं व्राह्मणा भुवि |
८ क
वैशम्पाय़न उवाच:
शय़ानं वीरशय़ने मय़ा पुत्रेण पातितम् ||
८ ख
वैशम्पाय़न उवाच:
व्राह्मणाः कुरुमुख्यस्य प्रय़ुक्ता हय़सारिणः |
९ क
वैशम्पाय़न उवाच:
कुर्वन्तु शान्तिकां त्वद्य रणे योऽय़ं मय़ा हतः ||
९ ख
वैशम्पाय़न उवाच:
व्यादिशन्तु च किं विप्राः प्राय़श्चित्तमिहाद्य मे |
१० क
वैशम्पाय़न उवाच:
सुनृशंसस्य पापस्य पितृहन्तू रणाजिरे ||
१० ख
वैशम्पाय़न उवाच:
दुश्चरा द्वादश समा हत्वा पितरमद्य वै |
११ क
वैशम्पाय़न उवाच:
ममेह सुनृशंसस्य संवीतस्यास्य चर्मणा ||
११ ख
वैशम्पाय़न उवाच:
शिरःकपाले चास्यैव भुञ्जतः पितुरद्य मे |
१२ क
वैशम्पाय़न उवाच:
प्राय़श्चित्तं हि नास्त्यन्यद्धत्वाद्य पितरं मम ||
१२ ख
वैशम्पाय़न उवाच:
पश्य नागोत्तमसुते भर्तारं निहतं मय़ा |
१३ क
वैशम्पाय़न उवाच:
कृतं प्रिय़ं मय़ा तेऽद्य निहत्य समरेऽर्जुनम् ||
१३ ख
वैशम्पाय़न उवाच:
सोऽहमप्यद्य यास्यामि गतिं पितृनिषेविताम् |
१४ क
वैशम्पाय़न उवाच:
न शक्नोम्यात्मनात्मानमहं धारय़ितुं शुभे ||
१४ ख
वैशम्पाय़न उवाच:
सा त्वं मय़ि मृते मातस्तथा गाण्डीवधन्वनि |
१५ क
वैशम्पाय़न उवाच:
भव प्रीतिमती देवि सत्येनात्मानमालभे ||
१५ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा स तदा राजा दुःखशोकसमाहतः |
१६ क
वैशम्पाय़न उवाच:
उपस्पृश्य महाराज दुःखाद्वचनमव्रवीत् ||
१६ ख
वैशम्पाय़न उवाच:
शृण्वन्तु सर्वभूतानि स्थावराणि चराणि च |
१७ क
वैशम्पाय़न उवाच:
त्वं च मातर्यथा सत्यं व्रवीमि भुजगोत्तमे ||
१७ ख
वैशम्पाय़न उवाच:
यदि नोत्तिष्ठति जय़ः पिता मे भरतर्षभः |
१८ क
वैशम्पाय़न उवाच:
अस्मिन्नेव रणोद्देशे शोषय़िष्ये कलेवरम् ||
१८ ख
वैशम्पाय़न उवाच:
न हि मे पितरं हत्वा निष्कृतिर्विद्यते क्वचित् |
१९ क
वैशम्पाय़न उवाच:
नरकं प्रतिपत्स्यामि ध्रुवं गुरुवधार्दितः ||
१९ ख
वैशम्पाय़न उवाच:
वीरं हि क्षत्रिय़ं हत्वा गोशतेन प्रमुच्यते |
२० क
वैशम्पाय़न उवाच:
पितरं तु निहत्यैवं दुस्तरा निष्कृतिर्मय़ा ||
२० ख
वैशम्पाय़न उवाच:
एष ह्येको महातेजाः पाण्डुपुत्रो धनञ्जय़ः |
२१ क
वैशम्पाय़न उवाच:
पिता च मम धर्मात्मा तस्य मे निष्कृतिः कुतः ||
२१ ख
वैशम्पाय़न उवाच:
इत्येवमुक्त्वा नृपते धनञ्जय़सुतो नृपः |
२२ क
वैशम्पाय़न उवाच:
उपस्पृश्याभवत्तूष्णीं प्राय़ोपेतो महामतिः ||
२२ ख