सञ्जय़ उवाच:
तौ शङ्खभेरीनिनदे समृद्धे; समीय़तुः श्वेतहय़ौ नराग्र्यौ |
१ क
सञ्जय़ उवाच:
वैकर्तनः सूतपुत्रोऽर्जुनश्च; दुर्मन्त्रिते तव पुत्रस्य राजन् ||
१ ख
सञ्जय़ उवाच:
यथा गजौ हैमवतौ प्रभिन्नौ; प्रगृह्य दन्ताविव वाशितार्थे |
२ क
सञ्जय़ उवाच:
तथा समाजग्मतुरुग्रवेगौ; धनञ्जय़श्चाधिरथिश्च वीरौ ||
२ ख
सञ्जय़ उवाच:
वलाहकेनेव यथा वलाहको; यदृच्छय़ा वा गिरिणा गिरिर्यथा |
३ क
सञ्जय़ उवाच:
तथा धनुर्ज्यातलनेमिनिस्वनौ; समीय़तुस्ताविषुवर्षवर्षिणौ ||
३ ख
सञ्जय़ उवाच:
प्रवृद्धशृङ्गद्रुमवीरुदोषधी; प्रवृद्धनानाविधपर्वतौकसौ |
४ क
सञ्जय़ उवाच:
यथाचलौ वा गलितौ महावलौ; तथा महास्त्रैरितरेतरं घ्नतः ||
४ ख
सञ्जय़ उवाच:
स संनिपातस्तु तय़ोर्महानभू; त्सुरेशवैरोचनय़ोर्यथा पुरा |
५ क
सञ्जय़ उवाच:
शरैर्विभुग्नाङ्गनिय़न्तृवाहनः; सुदुःसहोऽन्यैः पटुशोणितोदकः ||
५ ख
सञ्जय़ उवाच:
प्रभूतपद्मोत्पलमत्स्यकच्छपौ; महाह्रदौ पक्षिगणानुनादितौ |
६ क
सञ्जय़ उवाच:
सुसंनिकृष्टावनिलोद्धतौ यथा; तथा रथौ तौ ध्वजिनौ समीय़तुः ||
६ ख
सञ्जय़ उवाच:
उभौ महेन्द्रस्य समानविक्रमा; वुभौ महेन्द्रप्रतिमौ महारथौ |
७ क
सञ्जय़ उवाच:
महेन्द्रवज्रप्रतिमैश्च साय़कै; र्महेन्द्रवृत्राविव सम्प्रजह्रतुः ||
७ ख
सञ्जय़ उवाच:
सनागपत्त्यश्वरथे उभे वले; विचित्रवर्णाभरणाम्वरस्रजे |
८ क
सञ्जय़ उवाच:
चकम्पतुश्चोन्नमतः स्म विस्मय़ा; द्विय़द्गताश्चार्जुनकर्णसंय़ुगे ||
८ ख
सञ्जय़ उवाच:
भुजाः सवज्राङ्गुलय़ः समुच्छ्रिताः; ससिंहनादा हृषितैर्दिदृक्षुभिः |
९ क
सञ्जय़ उवाच:
यदार्जुनं मत्तमिव द्विपो द्विपं; समभ्ययादाधिरथिर्जिघांसय़ा ||
९ ख
सञ्जय़ उवाच:
अभ्यक्रोशन्सोमकास्तत्र पार्थं; त्वरस्व याह्यर्जुन विध्य कर्णम् |
१० क
सञ्जय़ उवाच:
छिन्ध्यस्य मूर्धानमलं चिरेण; श्रद्धां च राज्याद्धृतराष्ट्रसूनोः ||
१० ख
सञ्जय़ उवाच:
तथास्माकं वहवस्तत्र योधाः; कर्णं तदा याहि याहीत्यवोचन् |
११ क
सञ्जय़ उवाच:
जह्यर्जुनं कर्ण ततः सचीराः; पुनर्वनं यान्तु चिराय़ पार्थाः ||
११ ख
सञ्जय़ उवाच:
ततः कर्णः प्रथमं तत्र पार्थं; महेषुभिर्दशभिः पर्यविध्यत् |
१२ क
सञ्जय़ उवाच:
तमर्जुनः प्रत्यविध्यच्छिताग्रैः; कक्षान्तरे दशभिरतीव क्रुद्धः ||
१२ ख
सञ्जय़ उवाच:
परस्परं तौ विशिखैः सुतीक्ष्णै; स्ततक्षतुः सूतपुत्रोऽर्जुनश्च |
१३ क
सञ्जय़ उवाच:
परस्परस्यान्तरेप्सू विमर्दे; सुभीममभ्याय़यतुः प्रहृष्टौ ||
१३ ख
सञ्जय़ उवाच:
अमृष्यमाणश्च महाविमर्दे; तत्राक्रुध्यद्भीमसेनो महात्मा |
१४ क
सञ्जय़ उवाच:
अथाव्रवीत्पाणिना पाणिमाघ्न; न्सन्दष्टौष्ठो नृत्यति वादय़न्निव |
१४ ख
सञ्जय़ उवाच:
कथं नु त्वां सूतपुत्रः किरीटि; न्महेषुभिर्दशभिरविध्यदग्रे ||
१४ ग
सञ्जय़ उवाच:
यय़ा धृत्या सर्वभूतान्यजैषी; र्ग्रासं ददद्वह्नय़े खाण्डवे त्वम् |
१५ क
सञ्जय़ उवाच:
तय़ा धृत्या सूतपुत्रं जहि त्व; महं वैनं गदय़ा पोथय़िष्ये ||
१५ ख
सञ्जय़ उवाच:
अथाव्रवीद्वासुदेवोऽपि पार्थं; दृष्ट्वा रथेषून्प्रतिहन्यमानान् |
१६ क
सञ्जय़ उवाच:
अमीमृदत्सर्वथा तेऽद्य कर्णो; ह्यस्त्रैरस्त्राणि किमिदं किरीटिन् ||
१६ ख
सञ्जय़ उवाच:
स वीर किं मुह्यसि नावधीय़से; नदन्त्येते कुरवः सम्प्रहृष्टाः |
१७ क
सञ्जय़ उवाच:
कर्णं पुरस्कृत्य विदुर्हि सर्वे; त्वदस्त्रमस्त्रैर्विनिपात्यमानम् ||
१७ ख
सञ्जय़ उवाच:
यय़ा धृत्या निहतं तामसास्त्रं; युगे युगे राक्षसाश्चापि घोराः |
१८ क
सञ्जय़ उवाच:
दम्भोद्भवाश्चासुराश्चाहवेषु; तय़ा धृत्या त्वं जहि सूतपुत्रम् ||
१८ ख
सञ्जय़ उवाच:
अनेन वास्य क्षुरनेमिनाद्य; सञ्छिन्द्धि मूर्धानमरेः प्रसह्य |
१९ क
सञ्जय़ उवाच:
मय़ा निसृष्टेन सुदर्शनेन; वज्रेण शक्रो नमुचेरिवारेः ||
१९ ख
सञ्जय़ उवाच:
किरातरूपी भगवान्यया च; त्वय़ा महत्या परितोषितोऽभूत् |
२० क
सञ्जय़ उवाच:
तां त्वं धृतिं वीर पुनर्गृहीत्वा; सहानुवन्धं जहि सूतपुत्रम् ||
२० ख
सञ्जय़ उवाच:
ततो महीं सागरमेखलां त्वं; सपत्तनां ग्रामवतीं समृद्धाम् |
२१ क
सञ्जय़ उवाच:
प्रय़च्छ राज्ञे निहतारिसङ्घां; यशश्च पार्थातुलमाप्नुहि त्वम् ||
२१ ख
सञ्जय़ उवाच:
सञ्चोदितो भीमजनार्दनाभ्यां; स्मृत्वा तदात्मानमवेक्ष्य सत्त्वम् |
२२ क
सञ्जय़ उवाच:
महात्मनश्चागमने विदित्वा; प्रय़ोजनं केशवमित्युवाच ||
२२ ख
सञ्जय़ उवाच:
प्रादुष्करोम्येष महास्त्रमुग्रं; शिवाय़ लोकस्य वधाय़ सौतेः |
२३ क
सञ्जय़ उवाच:
तन्मेऽनुजानातु भवान्सुराश्च; व्रह्मा भवो व्रह्मविदश्च सर्वे ||
२३ ख
सञ्जय़ उवाच:
इत्यूचिवान्व्राह्ममसह्यमस्त्रं; प्रादुश्चक्रे मनसा संविधेय़म् |
२४ क
सञ्जय़ उवाच:
ततो दिशश्च प्रदिशश्च सर्वाः; समावृणोत्साय़कैर्भूरितेजाः |
२४ ख
सञ्जय़ उवाच:
ससर्ज वाणान्भरतर्षभोऽपि; शतंशतानेकवदाशुवेगान् ||
२४ ग
सञ्जय़ उवाच:
वैकर्तनेनापि तथाजिमध्ये; सहस्रशो वाणगणा विसृष्टाः |
२५ क
सञ्जय़ उवाच:
ते घोषिणः पाण्डवमभ्युपेय़ुः; पर्जन्यमुक्ता इव वारिधाराः ||
२५ ख
सञ्जय़ उवाच:
स भीमसेनं च जनार्दनं च; किरीटिनं चाप्यमनुष्यकर्मा |
२६ क
सञ्जय़ उवाच:
त्रिभिस्त्रिभिर्भीमवलो निहत्य; ननाद घोरं महता स्वरेण ||
२६ ख
सञ्जय़ उवाच:
स कर्णवाणाभिहतः किरीटी; भीमं तथा प्रेक्ष्य जनार्दनं च |
२७ क
सञ्जय़ उवाच:
अमृष्यमाणः पुनरेव पार्थः; शरान्दशाष्टौ च समुद्ववर्ह ||
२७ ख
सञ्जय़ उवाच:
सुषेणमेकेन शरेण विद्ध्वा; शल्यं चतुर्भिस्त्रिभिरेव कर्णम् |
२८ क
सञ्जय़ उवाच:
ततः सुमुक्तैर्दशभिर्जघान; सभापतिं काञ्चनवर्मनद्धम् ||
२८ ख
सञ्जय़ उवाच:
स राजपुत्रो विशिरा विवाहु; र्विवाजिसूतो विधनुर्विकेतुः |
२९ क
सञ्जय़ उवाच:
ततो रथाग्रादपतत्प्रभग्नः; परश्वधैः शाल इवाभिकृत्तः ||
२९ ख
सञ्जय़ उवाच:
पुनश्च कर्णं त्रिभिरष्टभिश्च; द्वाभ्यां चतुर्भिर्दशभिश्च विद्ध्वा |
३० क
सञ्जय़ उवाच:
चतुःशतान्द्विरदान्साय़ुधीय़ा; न्हत्वा रथानष्टशतं जघान |
३० ख
सञ्जय़ उवाच:
सहस्रमश्वांश्च पुनश्च सादी; नष्टौ सहस्राणि च पत्तिवीरान् ||
३० ग
सञ्जय़ उवाच:
दृष्ट्वाजिमुख्यावथ युध्यमानौ; दिदृक्षवः शूरवरावरिघ्नौ |
३१ क
सञ्जय़ उवाच:
कर्णं च पार्थं च निय़म्य वाहा; न्खस्था महीस्थाश्च जनावतस्थुः ||
३१ ख
सञ्जय़ उवाच:
ततो धनुर्ज्या सहसातिकृष्टा; सुघोषमाच्छिद्यत पाण्डवस्य |
३२ क
सञ्जय़ उवाच:
तस्मिन्क्षणे सूतपुत्रस्तु पार्थं; समाचिनोत्क्षुद्रकाणां शतेन ||
३२ ख
सञ्जय़ उवाच:
निर्मुक्तसर्पप्रतिमैश्च तीक्ष्णै; स्तैलप्रधौतैः खगपत्रवाजैः |
३३ क
सञ्जय़ उवाच:
षष्ट्या नाराचैर्वासुदेवं विभेद; तदन्तरं सोमकाः प्राद्रवन्त ||
३३ ख
सञ्जय़ उवाच:
ततो धनुर्ज्यामवधम्य शीघ्रं; शरानस्तानाधिरथेर्विधम्य |
३४ क
सञ्जय़ उवाच:
सुसंरव्धः कर्णशरक्षताङ्गो; रणे पार्थः सोमकान्प्रत्यगृह्णात् |
३४ ख
सञ्जय़ उवाच:
न पक्षिणः सम्पतन्त्यन्तरिक्षे; क्षेपीय़सास्त्रेण कृतेऽन्धकारे ||
३४ ग
सञ्जय़ उवाच:
शल्यं च पार्थो दशभिः पृषत्कै; र्भृशं तनुत्रे प्रहसन्नविध्यत् |
३५ क
सञ्जय़ उवाच:
ततः कर्णं द्वादशभिः सुमुक्तै; र्विद्ध्वा पुनः सप्तभिरभ्यविध्यत् ||
३५ ख
सञ्जय़ उवाच:
स पार्थवाणासनवेगनुन्नै; र्दृढाहतः पत्रिभिरुग्रवेगैः |
३६ क
सञ्जय़ उवाच:
विभिन्नगात्रः क्षतजोक्षिताङ्गः; कर्णो वभौ रुद्र इवाततेषुः ||
३६ ख
सञ्जय़ उवाच:
ततस्त्रिभिश्च त्रिदशाधिपोपमं; शरैर्विभेदाधिरथिर्धनञ्जय़म् |
३७ क
सञ्जय़ उवाच:
शरांस्तु पञ्च ज्वलितानिवोरगा; न्प्रवीरय़ामास जिघांसुरच्युते ||
३७ ख
सञ्जय़ उवाच:
ते वर्म भित्त्वा पुरुषोत्तमस्य; सुवर्णचित्रं न्यपतन्सुमुक्ताः |
३८ क
सञ्जय़ उवाच:
वेगेन गामाविविशुः सुवेगाः; स्नात्वा च कर्णाभिमुखाः प्रतीय़ुः ||
३८ ख
सञ्जय़ उवाच:
तान्पञ्चभल्लैस्त्वरितैः सुमुक्तै; स्त्रिधा त्रिधैकैकमथोच्चकर्त |
३९ क
सञ्जय़ उवाच:
धनञ्जय़स्ते न्यपतन्पृथिव्यां; महाहय़स्तक्षकपुत्रपक्षाः ||
३९ ख
सञ्जय़ उवाच:
ततः प्रजज्वाल किरीटमाली; क्रोधेन कक्षं प्रदहन्निवाग्निः |
४० क
सञ्जय़ उवाच:
स कर्णमाकर्णविकृष्टसृष्टैः; शरैः शरीरान्तकरैर्ज्वलद्भिः |
४० ख
सञ्जय़ उवाच:
मर्मस्वविध्यत्स चचाल दुःखा; द्धैर्यात्तु तस्थावतिमात्रधैर्यः ||
४० ग
सञ्जय़ उवाच:
ततः शरौघैः प्रदिशो दिशश्च; रविप्रभा कर्णरथश्च राजन् |
४१ क
सञ्जय़ उवाच:
अदृश्य आसीत्कुपिते धनञ्जय़े; तुषारनीहारवृतं यथा नभः ||
४१ ख
सञ्जय़ उवाच:
स चक्ररक्षानथ पादरक्षा; न्पुरःसरान्पृष्ठगोपांश्च सर्वान् |
४२ क
सञ्जय़ उवाच:
दुर्योधनेनानुमतानरिघ्ना; न्समुच्चितान्सुरथान्सारभूतान् ||
४२ ख
सञ्जय़ उवाच:
द्विसाहस्रान्समरे सव्यसाची; कुरुप्रवीरानृषभः कुरूणाम् |
४३ क
सञ्जय़ उवाच:
क्षणेन सर्वान्सरथाश्वसूता; न्निनाय़ राजन्क्षय़मेकवीरः ||
४३ ख
सञ्जय़ उवाच:
अथापलाय़न्त विहाय़ कर्णं; तवात्मजाः कुरवश्चावशिष्टाः |
४४ क
सञ्जय़ उवाच:
हतानवाकीर्य शरक्षतांश्च; लालप्यमानांस्तनय़ान्पितॄंश्च ||
४४ ख
सञ्जय़ उवाच:
स सर्वतः प्रेक्ष्य दिशो विशून्या; भय़ावदीर्णैः कुरुभिर्विहीनः |
४५ क
सञ्जय़ उवाच:
न विव्यथे भारत तत्र कर्णः; प्रतीपमेवार्जुनमभ्यधावत् ||
४५ ख