सञ्जय़ उवाच:
ततो युधिष्ठिरो राजा मध्यं प्राप्ते दिवाकरे |
१ क
सञ्जय़ उवाच:
श्रुताय़ुषमभिप्रेक्ष्य चोदय़ामास वाजिनः ||
१ ख
सञ्जय़ उवाच:
अभ्यधावत्ततो राजा श्रुताय़ुषमरिन्दमम् |
२ क
सञ्जय़ उवाच:
विनिघ्नन्साय़कैस्तीक्ष्णैर्नवभिर्नतपर्वभिः ||
२ ख
सञ्जय़ उवाच:
स संवार्य रणे राजा प्रेषितान्धर्मसूनुना |
३ क
सञ्जय़ उवाच:
शरान्सप्त महेष्वासः कौन्तेय़ाय़ समर्पय़त् ||
३ ख
सञ्जय़ उवाच:
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे |
४ क
सञ्जय़ उवाच:
असूनिव विचिन्वन्तो देहे तस्य महात्मनः ||
४ ख
सञ्जय़ उवाच:
पाण्डवस्तु भृशं विद्धस्तेन राज्ञा महात्मना |
५ क
सञ्जय़ उवाच:
रणे वराहकर्णेन राजानं हृदि विव्यधे ||
५ ख
सञ्जय़ उवाच:
अथापरेण भल्लेन केतुं तस्य महात्मनः |
६ क
सञ्जय़ उवाच:
रथश्रेष्ठो रथात्तूर्णं भूमौ पार्थो न्यपातय़त् ||
६ ख
सञ्जय़ उवाच:
केतुं निपतितं दृष्ट्वा श्रुताय़ुः स तु पार्थिवः |
७ क
सञ्जय़ उवाच:
पाण्डवं विशिखैस्तीक्ष्णै राजन्विव्याध सप्तभिः ||
७ ख
सञ्जय़ उवाच:
ततः क्रोधात्प्रजज्वाल धर्मपुत्रो युधिष्ठिरः |
८ क
सञ्जय़ उवाच:
यथा युगान्ते भूतानि धक्ष्यन्निव हुताशनः ||
८ ख
सञ्जय़ उवाच:
क्रुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वराक्षसाः |
९ क
सञ्जय़ उवाच:
प्रविव्यथुर्महाराज व्याकुलं चाप्यभूज्जगत् ||
९ ख
सञ्जय़ उवाच:
सर्वेषां चैव भूतानामिदमासीन्मनोगतम् |
१० क
सञ्जय़ उवाच:
त्रीँल्लोकानद्य सङ्क्रुद्धो नृपोऽय़ं धक्ष्यतीति वै ||
१० ख
सञ्जय़ उवाच:
ऋषय़श्चैव देवाश्च चक्रुः स्वस्त्ययनं महत् |
११ क
सञ्जय़ उवाच:
लोकानां नृप शान्त्यर्थं क्रोधिते पाण्डवे तदा ||
११ ख
सञ्जय़ उवाच:
स च क्रोधसमाविष्टः सृक्किणी परिलेलिहन् |
१२ क
सञ्जय़ उवाच:
दधारात्मवपुर्घोरं युगान्तादित्यसंनिभम् ||
१२ ख
सञ्जय़ उवाच:
ततः सर्वाणि सैन्यानि तावकानि विशां पते |
१३ क
सञ्जय़ उवाच:
निराशान्यभवंस्तत्र जीवितं प्रति भारत ||
१३ ख
सञ्जय़ उवाच:
स तु धैर्येण तं कोपं संनिवार्य महाय़शाः |
१४ क
सञ्जय़ उवाच:
श्रुताय़ुषः प्रचिच्छेद मुष्टिदेशे महद्धनुः ||
१४ ख
सञ्जय़ उवाच:
अथैनं छिन्नधन्वानं नाराचेन स्तनान्तरे |
१५ क
सञ्जय़ उवाच:
निर्विभेद रणे राजा सर्वसैन्यस्य पश्यतः ||
१५ ख
सञ्जय़ उवाच:
सत्वरं चरणे राजंस्तस्य वाहान्महात्मनः |
१६ क
सञ्जय़ उवाच:
निजघान शरैः क्षिप्रं सूतं च सुमहावलः ||
१६ ख
सञ्जय़ उवाच:
हताश्वं तु रथं त्यक्त्वा दृष्ट्वा राज्ञस्तु पौरुषम् |
१७ क
सञ्जय़ उवाच:
विप्रदुद्राव वेगेन श्रुताय़ुः समरे तदा ||
१७ ख
सञ्जय़ उवाच:
तस्मिञ्जिते महेष्वासे धर्मपुत्रेण संय़ुगे |
१८ क
सञ्जय़ उवाच:
दुर्योधनवलं राजन्सर्वमासीत्पराङ्मुखम् ||
१८ ख
सञ्जय़ उवाच:
एतत्कृत्वा महाराज धर्मपुत्रो युधिष्ठिरः |
१९ क
सञ्जय़ उवाच:
व्यात्ताननो यथा कालस्तव सैन्यं जघान ह ||
१९ ख
सञ्जय़ उवाच:
चेकितानस्तु वार्ष्णेय़ो गौतमं रथिनां वरम् |
२० क
सञ्जय़ उवाच:
प्रेक्षतां सर्वसैन्यानां छादय़ामास साय़कैः ||
२० ख
सञ्जय़ उवाच:
संनिवार्य शरांस्तांस्तु कृपः शारद्वतो युधि |
२१ क
सञ्जय़ उवाच:
चेकितानं रणे यत्तं राजन्विव्याध पत्रिभिः ||
२१ ख
सञ्जय़ उवाच:
अथापरेण भल्लेन धनुश्चिच्छेद मारिष |
२२ क
सञ्जय़ उवाच:
सारथिं चास्य समरे क्षिप्रहस्तो न्यपातय़त् |
२२ ख
सञ्जय़ उवाच:
हय़ांश्चास्यावधीद्राजन्नुभौ च पार्ष्णिसारथी ||
२२ ग
सञ्जय़ उवाच:
सोऽवप्लुत्य रथात्तूर्णं गदां जग्राह सात्वतः |
२३ क
सञ्जय़ उवाच:
स तय़ा वीरघातिन्या गदय़ा गदिनां वरः |
२३ ख
सञ्जय़ उवाच:
गौतमस्य हय़ान्हत्वा सारथिं च न्यपातय़त् ||
२३ ग
सञ्जय़ उवाच:
भूमिष्ठो गौतमस्तस्य शरांश्चिक्षेप षोडश |
२४ क
सञ्जय़ उवाच:
ते शराः सात्वतं भित्त्वा प्राविशन्त धरातलम् ||
२४ ख
सञ्जय़ उवाच:
चेकितानस्ततः क्रुद्धः पुनश्चिक्षेप तां गदाम् |
२५ क
सञ्जय़ उवाच:
गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरन्दरः ||
२५ ख
सञ्जय़ उवाच:
तामापतन्तीं विमलामश्मगर्भां महागदाम् |
२६ क
सञ्जय़ उवाच:
शरैरनेकसाहस्रैर्वारय़ामास गौतमः ||
२६ ख
सञ्जय़ उवाच:
चेकितानस्ततः खड्गं कोशादुद्धृत्य भारत |
२७ क
सञ्जय़ उवाच:
लाघवं परमास्थाय़ गौतमं समुपाद्रवत् ||
२७ ख
सञ्जय़ उवाच:
गौतमोऽपि धनुस्त्यक्त्वा प्रगृह्यासिं सुसंशितम् |
२८ क
सञ्जय़ उवाच:
वेगेन महता राजंश्चेकितानमुपाद्रवत् ||
२८ ख
सञ्जय़ उवाच:
तावुभौ वलसम्पन्नौ निस्त्रिंशवरधारिणौ |
२९ क
सञ्जय़ उवाच:
निस्त्रिंशाभ्यां सुतीक्ष्णाभ्यामन्योन्यं सन्ततक्षतुः ||
२९ ख
सञ्जय़ उवाच:
निस्त्रिंशवेगाभिहतौ ततस्तौ पुरुषर्षभौ |
३० क
सञ्जय़ उवाच:
धरणीं समनुप्राप्तौ सर्वभूतनिषेविताम् |
३० ख
सञ्जय़ उवाच:
मूर्छय़ाभिपरीताङ्गौ व्याय़ामेन च मोहितौ ||
३० ग
सञ्जय़ उवाच:
ततोऽभ्यधावद्वेगेन करकर्षः सुहृत्तय़ा |
३१ क
सञ्जय़ उवाच:
चेकितानं तथाभूतं दृष्ट्वा समरदुर्मदम् |
३१ ख
सञ्जय़ उवाच:
रथमारोपय़च्चैनं सर्वसैन्यस्य पश्यतः ||
३१ ग
सञ्जय़ उवाच:
तथैव शकुनिः शूरः स्यालस्तव विशां पते |
३२ क
सञ्जय़ उवाच:
आरोपय़द्रथं तूर्णं गौतमं रथिनां वरम् ||
३२ ख
सञ्जय़ उवाच:
सौमदत्तिं तथा क्रुद्धो धृष्टकेतुर्महावलः |
३३ क
सञ्जय़ उवाच:
नवत्या साय़कैः क्षिप्रं राजन्विव्याध वक्षसि ||
३३ ख
सञ्जय़ उवाच:
सौमदत्तिरुरःस्थैस्तैर्भृशं वाणैरशोभत |
३४ क
सञ्जय़ उवाच:
मध्यन्दिने महाराज रश्मिभिस्तपनो यथा ||
३४ ख
सञ्जय़ उवाच:
भूरिश्रवास्तु समरे धृष्टकेतुं महारथम् |
३५ क
सञ्जय़ उवाच:
हतसूतहय़ं चक्रे विरथं साय़कोत्तमैः ||
३५ ख
सञ्जय़ उवाच:
विरथं चैनमालोक्य हताश्वं हतसारथिम् |
३६ क
सञ्जय़ उवाच:
महता शरवर्षेण छादय़ामास संय़ुगे ||
३६ ख
सञ्जय़ उवाच:
स च तं रथमुत्सृज्य धृष्टकेतुर्महामनाः |
३७ क
सञ्जय़ उवाच:
आरुरोह ततो यानं शतानीकस्य मारिष ||
३७ ख
सञ्जय़ उवाच:
चित्रसेनो विकर्णश्च राजन्दुर्मर्षणस्तथा |
३८ क
सञ्जय़ उवाच:
रथिनो हेमसंनाहाः सौभद्रमभिदुद्रुवुः ||
३८ ख
सञ्जय़ उवाच:
अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत |
३९ क
सञ्जय़ उवाच:
शरीरस्य यथा राजन्वातपित्तकफैस्त्रिभिः ||
३९ ख
सञ्जय़ उवाच:
विरथांस्तव पुत्रांस्तु कृत्वा राजन्महाहवे |
४० क
सञ्जय़ उवाच:
न जघान नरव्याघ्रः स्मरन्भीमवचस्तदा ||
४० ख
सञ्जय़ उवाच:
ततो राज्ञां वहुशतैर्गजाश्वरथय़ाय़िभिः |
४१ क
सञ्जय़ उवाच:
संवृतं समरे भीष्मं देवैरपि दुरासदम् ||
४१ ख
सञ्जय़ उवाच:
प्रय़ान्तं शीघ्रमुद्वीक्ष्य परित्रातुं सुतांस्तव |
४२ क
सञ्जय़ उवाच:
अभिमन्युं समुद्दिश्य वालमेकं महारथम् |
४२ ख
सञ्जय़ उवाच:
वासुदेवमुवाचेदं कौन्तेय़ः श्वेतवाहनः ||
४२ ग
सञ्जय़ उवाच:
चोदय़ाश्वान्हृषीकेश यत्रैते वहुला रथाः |
४३ क
सञ्जय़ उवाच:
एते हि वहवः शूराः कृतास्त्रा युद्धदुर्मदाः |
४३ ख
सञ्जय़ उवाच:
यथा न हन्युर्नः सेनां तथा माधव चोदय़ ||
४३ ग
सञ्जय़ उवाच:
एवमुक्तः स वार्ष्णेय़ः कौन्तेय़ेनामितौजसा |
४४ क
सञ्जय़ उवाच:
रथं श्वेतहय़ैर्युक्तं प्रेषय़ामास संय़ुगे ||
४४ ख
सञ्जय़ उवाच:
निष्टानको महानासीत्तव सैन्यस्य मारिष |
४५ क
सञ्जय़ उवाच:
यदर्जुनो रणे क्रुद्धः संय़ातस्तावकान्प्रति ||
४५ ख
सञ्जय़ उवाच:
समासाद्य तु कौन्तेय़ो राज्ञस्तान्भीष्मरक्षिणः |
४६ क
सञ्जय़ उवाच:
सुशर्माणमथो राजन्निदं वचनमव्रवीत् ||
४६ ख
सञ्जय़ उवाच:
जानामि त्वां युधि श्रेष्ठमत्यन्तं पूर्ववैरिणम् |
४७ क
सञ्जय़ उवाच:
पर्याय़स्याद्य सम्प्राप्तं फलं पश्य सुदारुणम् |
४७ ख