धृतराष्ट्र उवाच:
ध्वजान्वहुविधाकारान्भ्राजमानानतिश्रिय़ा |
१ क
धृतराष्ट्र उवाच:
पार्थानां मामकानां च तान्ममाचक्ष्व सञ्जय़ ||
१ ख
सञ्जय़ उवाच:
ध्वजान्वहुविधाकाराञ्शृणु तेषां महात्मनाम् |
२ क
सञ्जय़ उवाच:
रूपतो वर्णतश्चैव नामतश्च निवोध मे ||
२ ख
सञ्जय़ उवाच:
तेषां तु रथमुह्यानां रथेषु विविधा ध्वजाः |
३ क
सञ्जय़ उवाच:
प्रत्यदृश्यन्त राजेन्द्र ज्वलिता इव पावकाः ||
३ ख
सञ्जय़ उवाच:
काञ्चनाः काञ्चनापीडाः काञ्चनस्रगलङ्कृताः |
४ क
सञ्जय़ उवाच:
काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः ||
४ ख
सञ्जय़ उवाच:
ते ध्वजाः संवृतास्तेषां पताकाभिः समन्ततः |
५ क
सञ्जय़ उवाच:
नानावर्णविरागाभिर्विवभुः सर्वतो वृताः ||
५ ख
सञ्जय़ उवाच:
पताकाश्च ततस्तास्तु श्वसनेन समीरिताः |
६ क
सञ्जय़ उवाच:
नृत्यमानाः व्यदृश्यन्त रङ्गमध्ये विलासिकाः ||
६ ख
सञ्जय़ उवाच:
इन्द्राय़ुधसवर्णाभाः पताका भरतर्षभ |
७ क
सञ्जय़ उवाच:
दोधूय़माना रथिनां शोभय़न्ति महारथान् ||
७ ख
सञ्जय़ उवाच:
सिंहलाङ्गूलमुग्रास्यं धजं वानरलक्षणम् |
८ क
सञ्जय़ उवाच:
धनञ्जय़स्य सङ्ग्रामे प्रत्यपश्याम भैरवम् ||
८ ख
सञ्जय़ उवाच:
स वानरवरो राजन्पताकाभिरलङ्कृतः |
९ क
सञ्जय़ उवाच:
त्रासय़ामास तत्सैन्यं ध्वजो गाण्डीवधन्वनः ||
९ ख
सञ्जय़ उवाच:
तथैव सिंहलाङ्गूलं द्रोणपुत्रस्य भारत |
१० क
सञ्जय़ उवाच:
ध्वजाग्रं समपश्याम वालसूर्यसमप्रभम् ||
१० ख
सञ्जय़ उवाच:
काञ्चनं पवनोद्धूतं शक्रध्वजसमप्रभम् |
११ क
सञ्जय़ उवाच:
नन्दनं कौरवेन्द्राणां द्रौणेर्लक्षणमुच्छ्रितम् ||
११ ख
सञ्जय़ उवाच:
हस्तिकक्ष्या पुनर्हैमी वभूवाधिरथेर्ध्वजे |
१२ क
सञ्जय़ उवाच:
आहवे खं महाराज ददृशे पूरय़न्निव ||
१२ ख
सञ्जय़ उवाच:
पताकी काञ्चनस्रग्वी ध्वजः कर्णस्य संय़ुगे |
१३ क
सञ्जय़ उवाच:
नृत्यतीव रथोपस्थे श्वसनेन समीरितः ||
१३ ख
सञ्जय़ उवाच:
आचार्यस्य च पाण्डूनां व्राह्मणस्य यशस्विनः |
१४ क
सञ्जय़ उवाच:
गोवृषो गौतमस्यासीत्कृपस्य सुपरिष्कृतः ||
१४ ख
सञ्जय़ उवाच:
स तेन भ्राजते राजन्गोवृषेण महारथः |
१५ क
सञ्जय़ उवाच:
त्रिपुरघ्नरथो यद्वद्गोवृषेण विराजते ||
१५ ख
सञ्जय़ उवाच:
मय़ूरो वृषसेनस्य काञ्चनो मणिरत्नवान् |
१६ क
सञ्जय़ उवाच:
व्याहरिष्यन्निवातिष्ठत्सेनाग्रमपि शोभय़न् ||
१६ ख
सञ्जय़ उवाच:
तेन तस्य रथो भाति मय़ूरेण महात्मनः |
१७ क
सञ्जय़ उवाच:
यथा स्कन्दस्य राजेन्द्र मय़ूरेण विराजता ||
१७ ख
सञ्जय़ उवाच:
मद्रराजस्य शल्यस्य ध्वजाग्रेऽग्निशिखामिव |
१८ क
सञ्जय़ उवाच:
सौवर्णीं प्रतिपश्याम सीतामप्रतिमां शुभाम् ||
१८ ख
सञ्जय़ उवाच:
सा सीता भ्राजते तस्य रथमास्थाय़ मारिष |
१९ क
सञ्जय़ उवाच:
सर्ववीजविरूढेव यथा सीता श्रिय़ा वृता ||
१९ ख
सञ्जय़ उवाच:
वराहः सिन्धुराजस्य राजतोऽभिविराजते |
२० क
सञ्जय़ उवाच:
ध्वजाग्रेऽलोहितार्काभो हेमजालपरिष्कृतः ||
२० ख
सञ्जय़ उवाच:
शुशुभे केतुना तेन राजतेन जय़द्रथः |
२१ क
सञ्जय़ उवाच:
यथा देवासुरे युद्धे पुरा पूषा स्म शोभते ||
२१ ख
सञ्जय़ उवाच:
सौमदत्तेः पुनर्यूपो यज्ञशीलस्य धीमतः |
२२ क
सञ्जय़ उवाच:
ध्वजः सूर्य इवाभाति सोमश्चात्र प्रदृश्यते ||
२२ ख
सञ्जय़ उवाच:
स यूपः काञ्चनो राजन्सौमदत्तेर्विराजते |
२३ क
सञ्जय़ उवाच:
राजसूय़े मखश्रेष्ठे यथा यूपः समुच्छ्रितः ||
२३ ख
सञ्जय़ उवाच:
शलस्य तु महाराज राजतो द्विरदो महान् |
२४ क
सञ्जय़ उवाच:
केतुः काञ्चनचित्राङ्गैर्मय़ूरैरुपशोभितः ||
२४ ख
सञ्जय़ उवाच:
स केतुः शोभय़ामास सैन्यं ते भरतर्षभ |
२५ क
सञ्जय़ उवाच:
यथा श्वेतो महानागो देवराजचमूं तथा ||
२५ ख
सञ्जय़ उवाच:
नागो मणिमय़ो राज्ञो ध्वजः कनकसंवृतः |
२६ क
सञ्जय़ उवाच:
किङ्किणीशतसंह्रादो भ्राजंश्चित्रे रथोत्तमे ||
२६ ख
सञ्जय़ उवाच:
व्यभ्राजत भृशं राजन्पुत्रस्तव विशां पते |
२७ क
सञ्जय़ उवाच:
ध्वजेन महता सङ्ख्ये कुरूणामृषभस्तदा ||
२७ ख
सञ्जय़ उवाच:
नवैते तव वाहिन्यामुच्छ्रिताः परमध्वजाः |
२८ क
सञ्जय़ उवाच:
व्यदीपय़ंस्ते पृतनां युगान्तादित्यसंनिभाः ||
२८ ख
सञ्जय़ उवाच:
दशमस्त्वर्जुनस्यासीदेक एव महाकपिः |
२९ क
सञ्जय़ उवाच:
अदीप्यतार्जुनो येन हिमवानिव वह्निना ||
२९ ख
सञ्जय़ उवाच:
ततश्चित्राणि शुभ्राणि सुमहान्ति महारथाः |
३० क
सञ्जय़ उवाच:
कार्मुकाण्याददुस्तूर्णमर्जुनार्थे परन्तपाः ||
३० ख
सञ्जय़ उवाच:
तथैव धनुराय़च्छत्पार्थः शत्रुविनाशनः |
३१ क
सञ्जय़ उवाच:
गाण्डीवं दिव्यकर्मा तद्राजन्दुर्मन्त्रिते तव ||
३१ ख
सञ्जय़ उवाच:
तवापराधाद्धि नरा निहता वहुधा युधि |
३२ क
सञ्जय़ उवाच:
नानादिग्भ्यः समाहूताः सहय़ाः सरथद्विपाः ||
३२ ख
सञ्जय़ उवाच:
तेषामासीद्व्यतिक्षेपो गर्जतामितरेतरम् |
३३ क
सञ्जय़ उवाच:
दुर्योधनमुखानां च पाण्डूनामृषभस्य च ||
३३ ख
सञ्जय़ उवाच:
तत्राद्भुतं परं चक्रे कौन्तेय़ः कृष्णसारथिः |
३४ क
सञ्जय़ उवाच:
यदेको वहुभिः सार्धं समागच्छदभीतवत् ||
३४ ख
सञ्जय़ उवाच:
अशोभत महावाहुर्गाण्डीवं विक्षिपन्धनुः |
३५ क
सञ्जय़ उवाच:
जिगीषुस्तान्नरव्याघ्राञ्जिघांसुश्च जय़द्रथम् ||
३५ ख
सञ्जय़ उवाच:
तत्रार्जुनो महाराज शरैर्मुक्तैः सहस्रशः |
३६ क
सञ्जय़ उवाच:
अदृश्यानकरोद्योधांस्तावकाञ्शत्रुतापनः ||
३६ ख
सञ्जय़ उवाच:
ततस्तेऽपि नरव्याघ्राः पार्थं सर्वे महारथाः |
३७ क
सञ्जय़ उवाच:
अदृश्यं समरे चक्रुः साय़कौघैः समन्ततः ||
३७ ख
सञ्जय़ उवाच:
संवृते नरसिंहैस्तैः कुरूणामृषभेऽर्जुने |
३८ क
सञ्जय़ उवाच:
महानासीत्समुद्धूतस्तस्य सैन्यस्य निस्वनः ||
३८ ख