chevron_left वन पर्व अध्याय ८१
पुलस्त्य उवाच:
ततो गच्छेत राजेन्द्र कुरुक्षेत्रमभिष्टुतम् |
१ क
पुलस्त्य उवाच:
पापेभ्यो विप्रमुच्यन्ते तद्गताः सर्वजन्तवः ||
१ ख
पुलस्त्य उवाच:
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् |
२ क
पुलस्त्य उवाच:
य एवं सततं व्रूय़ात्सोऽपि पापैः प्रमुच्यते ||
२ ख
पुलस्त्य उवाच:
तत्र मासं वसेद्वीर सरस्वत्यां युधिष्ठिर |
३ क
पुलस्त्य उवाच:
यत्र व्रह्मादय़ो देवा ऋषय़ः सिद्धचारणाः ||
३ ख
पुलस्त्य उवाच:
गन्धर्वाप्सरसो यक्षाः पन्नगाश्च महीपते |
४ क
पुलस्त्य उवाच:
व्रह्मक्षेत्रं महापुण्यमभिगच्छन्ति भारत ||
४ ख
पुलस्त्य उवाच:
मनसाप्यभिकामस्य कुरुक्षेत्रं युधिष्ठिर |
५ क
पुलस्त्य उवाच:
पापानि विप्रणश्यन्ति व्रह्मलोकं च गच्छति ||
५ ख
पुलस्त्य उवाच:
गत्वा हि श्रद्धय़ा युक्तः कुरुक्षेत्रं कुरूद्वह |
६ क
पुलस्त्य उवाच:
राजसूय़ाश्वमेधाभ्यां फलं प्राप्नोति मानवः ||
६ ख
पुलस्त्य उवाच:
ततो मचक्रुकं राजन्द्वारपालं महावलम् |
७ क
पुलस्त्य उवाच:
यक्षं समभिवाद्यैव गोसहस्रफलं लभेत् ||
७ ख
पुलस्त्य उवाच:
ततो गच्छेत धर्मज्ञ विष्णोः स्थानमनुत्तमम् |
८ क
पुलस्त्य उवाच:
सततं नाम राजेन्द्र यत्र संनिहितो हरिः ||
८ ख
पुलस्त्य उवाच:
तत्र स्नात्वार्चय़ित्वा च त्रिलोकप्रभवं हरिम् |
९ क
पुलस्त्य उवाच:
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ||
९ ख
पुलस्त्य उवाच:
ततः पारिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् |
१० क
पुलस्त्य उवाच:
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ||
१० ख
पुलस्त्य उवाच:
पृथिव्यास्तीर्थमासाद्य गोसहस्रफलं लभेत् |
११ क
पुलस्त्य उवाच:
ततः शालूकिनीं गत्वा तीर्थसेवी नराधिप |
११ ख
पुलस्त्य उवाच:
दशाश्वमेधिके स्नात्वा तदेव लभते फलम् ||
११ ग
पुलस्त्य उवाच:
सर्पदर्वीं समासाद्य नागानां तीर्थमुत्तमम् |
१२ क
पुलस्त्य उवाच:
अग्निष्टोममवाप्नोति नागलोकं च विन्दति ||
१२ ख
पुलस्त्य उवाच:
ततो गच्छेत धर्मज्ञ द्वारपालं तरन्तुकम् |
१३ क
पुलस्त्य उवाच:
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ||
१३ ख
पुलस्त्य उवाच:
ततः पञ्चनदं गत्वा निय़तो निय़ताशनः |
१४ क
पुलस्त्य उवाच:
कोटितीर्थमुपस्पृश्य हय़मेधफलं लभेत् |
१४ ख
पुलस्त्य उवाच:
अश्विनोस्तीर्थमासाद्य रूपवानभिजाय़ते ||
१४ ग
पुलस्त्य उवाच:
ततो गच्छेत धर्मज्ञ वाराहं तीर्थमुत्तमम् |
१५ क
पुलस्त्य उवाच:
विष्णुर्वाराहरूपेण पूर्वं यत्र स्थितोऽभवत् |
१५ ख
पुलस्त्य उवाच:
तत्र स्नात्वा नरव्याघ्र अग्निष्टोमफलं लभेत् ||
१५ ग
पुलस्त्य उवाच:
ततो जय़न्त्या राजेन्द्र सोमतीर्थं समाविशेत् |
१६ क
पुलस्त्य उवाच:
स्नात्वा फलमवाप्नोति राजसूय़स्य मानवः ||
१६ ख
पुलस्त्य उवाच:
एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत् |
१७ क
पुलस्त्य उवाच:
कृतशौचं समासाद्य तीर्थसेवी कुरूद्वह |
१७ ख
पुलस्त्य उवाच:
पुण्डरीकमवाप्नोति कृतशौचो भवेन्नरः ||
१७ ग
पुलस्त्य उवाच:
ततो मुञ्जवटं नाम महादेवस्य धीमतः |
१८ क
पुलस्त्य उवाच:
तत्रोष्य रजनीमेकां गाणपत्यमवाप्नुय़ात् ||
१८ ख
पुलस्त्य उवाच:
तत्रैव च महाराज यक्षी लोकपरिश्रुता |
१९ क
पुलस्त्य उवाच:
तां चाभिगम्य राजेन्द्र पुण्याँल्लोकानवाप्नुय़ात् ||
१९ ख
पुलस्त्य उवाच:
कुरुक्षेत्रस्य तद्द्वारं विश्रुतं भरतर्षभ |
२० क
पुलस्त्य उवाच:
प्रदक्षिणमुपावृत्य तीर्थसेवी समाहितः ||
२० ख
पुलस्त्य उवाच:
संमिते पुष्कराणां च स्नात्वार्च्य पितृदेवताः |
२१ क
पुलस्त्य उवाच:
जामदग्न्येन रामेण आहृते वै महात्मना |
२१ ख
पुलस्त्य उवाच:
कृतकृत्यो भवेद्राजन्नश्वमेधं च विन्दति ||
२१ ग
पुलस्त्य उवाच:
ततो रामह्रदान्गच्छेत्तीर्थसेवी नराधिप |
२२ क
पुलस्त्य उवाच:
यत्र रामेण राजेन्द्र तरसा दीप्ततेजसा |
२२ ख
पुलस्त्य उवाच:
क्षत्रमुत्साद्य वीर्येण ह्रदाः पञ्च निवेशिताः ||
२२ ग
पुलस्त्य उवाच:
पूरय़ित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम् |
२३ क
पुलस्त्य उवाच:
पितरस्तर्पिताः सर्वे तथैव च पितामहाः |
२३ ख
पुलस्त्य उवाच:
ततस्ते पितरः प्रीता राममूचुर्महीपते ||
२३ ग
पुलस्त्य उवाच:
राम राम महाभाग प्रीताः स्म तव भार्गव |
२४ क
पुलस्त्य उवाच:
अनय़ा पितृभक्त्या च विक्रमेण च ते विभो |
२४ ख
पुलस्त्य उवाच:
वरं वृणीष्व भद्रं ते किमिच्छसि महाद्युते ||
२४ ग
पुलस्त्य उवाच:
एवमुक्तः स राजेन्द्र रामः प्रहरतां वरः |
२५ क
पुलस्त्य उवाच:
अव्रवीत्प्राञ्जलिर्वाक्यं पितॄन्स गगने स्थितान् ||
२५ ख
पुलस्त्य उवाच:
भवन्तो यदि मे प्रीता यद्यनुग्राह्यता मय़ि |
२६ क
पुलस्त्य उवाच:
पितृप्रसादादिच्छेय़ं तपसाप्याय़नं पुनः ||
२६ ख
पुलस्त्य उवाच:
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मय़ा |
२७ क
पुलस्त्य उवाच:
ततश्च पापान्मुच्येय़ं युष्माकं तेजसा ह्यहम् |
२७ ख
पुलस्त्य उवाच:
ह्रदाश्च तीर्थभूता मे भवेय़ुर्भुवि विश्रुताः ||
२७ ग
पुलस्त्य उवाच:
एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा |
२८ क
पुलस्त्य उवाच:
प्रत्यूचुः परमप्रीता रामं हर्षसमन्विताः ||
२८ ख
पुलस्त्य उवाच:
तपस्ते वर्धतां भूय़ः पितृभक्त्या विशेषतः |
२९ क
पुलस्त्य उवाच:
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं त्वय़ा ||
२९ ख
पुलस्त्य उवाच:
ततश्च पापान्मुक्तस्त्वं कर्मभिस्ते च पातिताः |
३० क
पुलस्त्य उवाच:
ह्रदाश्च तव तीर्थत्वं गमिष्यन्ति न संशय़ः ||
३० ख
पुलस्त्य उवाच:
ह्रदेष्वेतेषु यः स्नात्वा पितॄन्सन्तर्पय़िष्यति |
३१ क
पुलस्त्य उवाच:
पितरस्तस्य वै प्रीता दास्यन्ति भुवि दुर्लभम् |
३१ ख
पुलस्त्य उवाच:
ईप्सितं मनसः कामं स्वर्गलोकं च शाश्वतम् ||
३१ ग
पुलस्त्य उवाच:
एवं दत्त्वा वरान्राजन्रामस्य पितरस्तदा |
३२ क
पुलस्त्य उवाच:
आमन्त्र्य भार्गवं प्रीतास्तत्रैवान्तर्दधुस्तदा ||
३२ ख
पुलस्त्य उवाच:
एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः |
३३ क
पुलस्त्य उवाच:
स्नात्वा ह्रदेषु रामस्य व्रह्मचारी शुभव्रतः |
३३ ख
पुलस्त्य उवाच:
राममभ्यर्च्य राजेन्द्र लभेद्वहु सुवर्णकम् ||
३३ ग
पुलस्त्य उवाच:
वंशमूलकमासाद्य तीर्थसेवी कुरूद्वह |
३४ क
पुलस्त्य उवाच:
स्ववंशमुद्धरेद्राजन्स्नात्वा वै वंशमूलके ||
३४ ख
पुलस्त्य उवाच:
काय़शोधनमासाद्य तीर्थं भरतसत्तम |
३५ क
पुलस्त्य उवाच:
शरीरशुद्धिः स्नातस्य तस्मिंस्तीर्थे न संशय़ः |
३५ ख
पुलस्त्य उवाच:
शुद्धदेहश्च संय़ाति शुभाँल्लोकाननुत्तमान् ||
३५ ग
पुलस्त्य उवाच:
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् |
३६ क
पुलस्त्य उवाच:
लोका यत्रोद्धृताः पूर्वं विष्णुना प्रभविष्णुना ||
३६ ख
पुलस्त्य उवाच:
लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यविश्रुतम् |
३७ क
पुलस्त्य उवाच:
स्नात्वा तीर्थवरे राजँल्लोकानुद्धरते स्वकान् |
३७ ख
पुलस्त्य उवाच:
श्रीतीर्थं च समासाद्य विन्दते श्रिय़मुत्तमाम् ||
३७ ग
पुलस्त्य उवाच:
कपिलातीर्थमासाद्य व्रह्मचारी समाहितः |
३८ क
पुलस्त्य उवाच:
तत्र स्नात्वार्चय़ित्वा च दैवतानि पितॄंस्तथा |
३८ ख
पुलस्त्य उवाच:
कपिलानां सहस्रस्य फलं विन्दति मानवः ||
३८ ग
पुलस्त्य उवाच:
सूर्यतीर्थं समासाद्य स्नात्वा निय़तमानसः |
३९ क
पुलस्त्य उवाच:
अर्चय़ित्वा पितॄन्देवानुपवासपराय़णः |
३९ ख
पुलस्त्य उवाच:
अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति ||
३९ ग
पुलस्त्य उवाच:
गवाम्भवनमासाद्य तीर्थसेवी यथाक्रमम् |
४० क
पुलस्त्य उवाच:
तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत् ||
४० ख
पुलस्त्य उवाच:
शङ्खिनीं तत्र आसाद्य तीर्थसेवी कुरूद्वह |
४१ क
पुलस्त्य उवाच:
देव्यास्तीर्थे नरः स्नात्वा लभते रूपमुत्तमम् ||
४१ ख
पुलस्त्य उवाच:
ततो गच्छेत राजेन्द्र द्वारपालमरन्तुकम् |
४२ क
पुलस्त्य उवाच:
तस्य तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः |
४२ ख
पुलस्त्य उवाच:
तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत् ||
४२ ग