chevron_left आदि पर्व अध्याय ८१
वैशम्पाय़न उवाच:
एवं स नाहुषो राजा यय़ातिः पुत्रमीप्सितम् |
१ क
वैशम्पाय़न उवाच:
राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः ||
१ ख
वैशम्पाय़न उवाच:
उषित्वा च वने वासं व्राह्मणैः सह संश्रितः |
२ क
वैशम्पाय़न उवाच:
फलमूलाशनो दान्तो यथा स्वर्गमितो गतः ||
२ ख
वैशम्पाय़न उवाच:
स गतः सुरवासं तं निवसन्मुदितः सुखम् |
३ क
वैशम्पाय़न उवाच:
कालस्य नातिमहतः पुनः शक्रेण पातितः ||
३ ख
वैशम्पाय़न उवाच:
निपतन्प्रच्युतः स्वर्गादप्राप्तो मेदिनीतलम् |
४ क
वैशम्पाय़न उवाच:
स्थित आसीदन्तरिक्षे स तदेति श्रुतं मय़ा ||
४ ख
वैशम्पाय़न उवाच:
तत एव पुनश्चापि गतः स्वर्गमिति श्रुतिः |
५ क
वैशम्पाय़न उवाच:
राज्ञा वसुमता सार्धमष्टकेन च वीर्यवान् |
५ ख
वैशम्पाय़न उवाच:
प्रतर्दनेन शिविना समेत्य किल संसदि ||
५ ग
जनमेजय़ उवाच:
कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः |
६ क
जनमेजय़ उवाच:
सर्वमेतदशेषेण श्रोतुमिच्छामि तत्त्वतः |
६ ख
जनमेजय़ उवाच:
कथ्यमानं त्वय़ा विप्र विप्रर्षिगणसंनिधौ ||
६ ग
जनमेजय़ उवाच:
देवराजसमो ह्यासीद्ययातिः पृथिवीपतिः |
७ क
जनमेजय़ उवाच:
वर्धनः कुरुवंशस्य विभावसुसमद्युतिः ||
७ ख
जनमेजय़ उवाच:
तस्य विस्तीर्णय़शसः सत्यकीर्तेर्महात्मनः |
८ क
जनमेजय़ उवाच:
चरितं श्रोतुमिच्छामि दिवि चेह च सर्वशः ||
८ ख
वैशम्पाय़न उवाच:
हन्त ते कथय़िष्यामि यय़ातेरुत्तरां कथाम् |
९ क
वैशम्पाय़न उवाच:
दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम् ||
९ ख
वैशम्पाय़न उवाच:
यय़ातिर्नाहुषो राजा पूरुं पुत्रं कनीय़सम् |
१० क
वैशम्पाय़न उवाच:
राज्येऽभिषिच्य मुदितः प्रवव्राज वनं तदा ||
१० ख
वैशम्पाय़न उवाच:
अन्तेषु स विनिक्षिप्य पुत्रान्यदुपुरोगमान् |
११ क
वैशम्पाय़न उवाच:
फलमूलाशनो राजा वने संन्यवसच्चिरम् ||
११ ख
वैशम्पाय़न उवाच:
संशितात्मा जितक्रोधस्तर्पय़न्पितृदेवताः |
१२ क
वैशम्पाय़न उवाच:
अग्नींश्च विधिवज्जुह्वन्वानप्रस्थविधानतः ||
१२ ख
वैशम्पाय़न उवाच:
अतिथीन्पूजय़ामास वन्येन हविषा विभुः |
१३ क
वैशम्पाय़न उवाच:
शिलोञ्छवृत्तिमास्थाय़ शेषान्नकृतभोजनः ||
१३ ख
वैशम्पाय़न उवाच:
पूर्णं वर्षसहस्रं स एवंवृत्तिरभून्नृपः |
१४ क
वैशम्पाय़न उवाच:
अव्भक्षः शरदस्त्रिंशदासीन्निय़तवाङ्मनाः ||
१४ ख
वैशम्पाय़न उवाच:
ततश्च वाय़ुभक्षोऽभूत्संवत्सरमतन्द्रितः |
१५ क
वैशम्पाय़न उवाच:
पञ्चाग्निमध्ये च तपस्तेपे संवत्सरं नृपः ||
१५ ख
वैशम्पाय़न उवाच:
एकपादस्थितश्चासीत्षण्मासाननिलाशनः |
१६ क
वैशम्पाय़न उवाच:
पुण्यकीर्तिस्ततः स्वर्गं जगामावृत्य रोदसी ||
१६ ख