युधिष्ठिर उवाच:
यदप्यल्पतरं कर्म तदप्येकेन दुष्करम् |
१ क
युधिष्ठिर उवाच:
पुरुषेणासहाय़ेन किमु राज्यं पितामह ||
१ ख
युधिष्ठिर उवाच:
किंशीलः किंसमाचारो राज्ञोऽर्थसचिवो भवेत् |
२ क
युधिष्ठिर उवाच:
कीदृशे विश्वसेद्राजा कीदृशे नापि विश्वसेत् ||
२ ख
भीष्म उवाच:
चतुर्विधानि मित्राणि राज्ञां राजन्भवन्त्युत |
३ क
भीष्म उवाच:
सहार्थो भजमानश्च सहजः कृत्रिमस्तथा ||
३ ख
भीष्म उवाच:
धर्मात्मा पञ्चमं मित्रं स तु नैकस्य न द्वय़ोः |
४ क
भीष्म उवाच:
यतो धर्मस्ततो वा स्यान्मध्यस्थो वा ततो भवेत् ||
४ ख
भीष्म उवाच:
यस्तस्यार्थो न रोचेत न तं तस्य प्रकाशय़ेत् |
५ क
भीष्म उवाच:
धर्माधर्मेण राजानश्चरन्ति विजिगीषवः ||
५ ख
भीष्म उवाच:
चतुर्णां मध्यमौ श्रेष्ठौ नित्यं शङ्क्यौ तथापरौ |
६ क
भीष्म उवाच:
सर्वे नित्यं शङ्कितव्याः प्रत्यक्षं कार्यमात्मनः ||
६ ख
भीष्म उवाच:
न हि राज्ञा प्रमादो वै कर्तव्यो मित्ररक्षणे |
७ क
भीष्म उवाच:
प्रमादिनं हि राजानं लोकाः परिभवन्त्युत ||
७ ख
भीष्म उवाच:
असाधुः साधुतामेति साधुर्भवति दारुणः |
८ क
भीष्म उवाच:
अरिश्च मित्रं भवति मित्रं चापि प्रदुष्यति ||
८ ख
भीष्म उवाच:
अनित्यचित्तः पुरुषस्तस्मिन्को जातु विश्वसेत् |
९ क
भीष्म उवाच:
तस्मात्प्रधानं यत्कार्यं प्रत्यक्षं तत्समाचरेत् ||
९ ख
भीष्म उवाच:
एकान्तेन हि विश्वासः कृत्स्नो धर्मार्थनाशकः |
१० क
भीष्म उवाच:
अविश्वासश्च सर्वत्र मृत्युना न विशिष्यते ||
१० ख
भीष्म उवाच:
अकालमृत्युर्विश्वासो विश्वसन्हि विपद्यते |
११ क
भीष्म उवाच:
यस्मिन्करोति विश्वासमिच्छतस्तस्य जीवति ||
११ ख
भीष्म उवाच:
तस्माद्विश्वसितव्यं च शङ्कितव्यं च केषुचित् |
१२ क
भीष्म उवाच:
एषा नीतिगतिस्तात लक्ष्मीश्चैव सनातनी ||
१२ ख
भीष्म उवाच:
यं मन्येत ममाभावादिममर्थागमः स्पृशेत् |
१३ क
भीष्म उवाच:
नित्यं तस्माच्छङ्कितव्यममित्रं तं विदुर्वुधाः ||
१३ ख
भीष्म उवाच:
यस्य क्षेत्रादप्युदकं क्षेत्रमन्यस्य गच्छति |
१४ क
भीष्म उवाच:
न तत्रानिच्छतस्तस्य भिद्येरन्सर्वसेतवः ||
१४ ख
भीष्म उवाच:
तथैवात्युदकाद्भीतस्तस्य भेदनमिच्छति |
१५ क
भीष्म उवाच:
यमेवंलक्षणं विद्यात्तममित्रं विनिर्दिशेत् ||
१५ ख
भीष्म उवाच:
यः समृद्ध्या न तुष्येत क्षय़े दीनतरो भवेत् |
१६ क
भीष्म उवाच:
एतदुत्तममित्रस्य निमित्तमभिचक्षते ||
१६ ख
भीष्म उवाच:
यं मन्येत ममाभावादस्याभावो भवेदिति |
१७ क
भीष्म उवाच:
तस्मिन्कुर्वीत विश्वासं यथा पितरि वै तथा ||
१७ ख
भीष्म उवाच:
तं शक्त्या वर्धमानश्च सर्वतः परिवृंहय़ेत् |
१८ क
भीष्म उवाच:
नित्यं क्षताद्वारय़ति यो धर्मेष्वपि कर्मसु ||
१८ ख
भीष्म उवाच:
क्षताद्भीतं विजानीय़ादुत्तमं मित्रलक्षणम् |
१९ क
भीष्म उवाच:
ये तस्य क्षतमिच्छन्ति ते तस्य रिपवः स्मृताः ||
१९ ख
भीष्म उवाच:
व्यसनान्नित्यभीतोऽसौ समृद्ध्यामेव तृप्यते |
२० क
भीष्म उवाच:
यत्स्यादेवंविधं मित्रं तदात्मसममुच्यते ||
२० ख
भीष्म उवाच:
रूपवर्णस्वरोपेतस्तितिक्षुरनसूय़कः |
२१ क
भीष्म उवाच:
कुलीनः शीलसम्पन्नः स ते स्यात्प्रत्यनन्तरः ||
२१ ख
भीष्म उवाच:
मेधावी स्मृतिमान्दक्षः प्रकृत्या चानृशंसवान् |
२२ क
भीष्म उवाच:
यो मानितोऽमानितो वा न सन्दूष्येत्कदाचन ||
२२ ख
भीष्म उवाच:
ऋत्विग्वा यदि वाचार्यः सखा वात्यन्तसंस्तुतः |
२३ क
भीष्म उवाच:
गृहे वसेदमात्यस्ते यः स्यात्परमपूजितः ||
२३ ख
भीष्म उवाच:
स ते विद्यात्परं मन्त्रं प्रकृतिं चार्थधर्मय़ोः |
२४ क
भीष्म उवाच:
विश्वासस्ते भवेत्तत्र यथा पितरि वै तथा ||
२४ ख
भीष्म उवाच:
नैव द्वौ न त्रय़ः कार्या न मृष्येरन्परस्परम् |
२५ क
भीष्म उवाच:
एकार्थादेव भूतानां भेदो भवति सर्वदा ||
२५ ख
भीष्म उवाच:
कीर्तिप्रधानो यश्च स्याद्यश्च स्यात्समय़े स्थितः |
२६ क
भीष्म उवाच:
समर्थान्यश्च न द्वेष्टि समर्थान्कुरुते च यः ||
२६ ख
भीष्म उवाच:
यो न कामाद्भय़ाल्लोभात्क्रोधाद्वा धर्ममुत्सृजेत् |
२७ क
भीष्म उवाच:
दक्षः पर्याप्तवचनः स ते स्यात्प्रत्यनन्तरः ||
२७ ख
भीष्म उवाच:
शूरश्चार्यश्च विद्वांश्च प्रतिपत्तिविशारदः |
२८ क
भीष्म उवाच:
कुलीनः शीलसम्पन्नस्तितिक्षुरनसूय़कः ||
२८ ख
भीष्म उवाच:
एते ह्यमात्याः कर्तव्याः सर्वकर्मस्ववस्थिताः |
२९ क
भीष्म उवाच:
पूजिताः संविभक्ताश्च सुसहाय़ाः स्वनुष्ठिताः ||
२९ ख
भीष्म उवाच:
कृत्स्नमेते विनिक्षिप्ताः प्रतिरूपेषु कर्मसु |
३० क
भीष्म उवाच:
युक्ता महत्सु कार्येषु श्रेय़ांस्युत्पादय़न्ति च ||
३० ख
भीष्म उवाच:
एते कर्माणि कुर्वन्ति स्पर्धमाना मिथः सदा |
३१ क
भीष्म उवाच:
अनुतिष्ठन्ति चैवार्थानाचक्षाणाः परस्परम् ||
३१ ख
भीष्म उवाच:
ज्ञातिभ्यश्चैव विभ्येथा मृत्योरिव यतः सदा |
३२ क
भीष्म उवाच:
उपराजेव राजर्धिं ज्ञातिर्न सहते सदा ||
३२ ख
भीष्म उवाच:
ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः |
३३ क
भीष्म उवाच:
नान्यो ज्ञातेर्महावाहो विनाशमभिनन्दति ||
३३ ख
भीष्म उवाच:
अज्ञातिता नातिसुखा नावज्ञेय़ास्त्वतः परम् |
३४ क
भीष्म उवाच:
अज्ञातिमन्तं पुरुषं परे परिभवन्त्युत ||
३४ ख
भीष्म उवाच:
निकृतस्य नरैरन्यैर्ज्ञातिरेव पराय़णम् |
३५ क
भीष्म उवाच:
नान्यैर्निकारं सहते ज्ञातेर्ज्ञातिः कदाचन ||
३५ ख
भीष्म उवाच:
आत्मानमेव जानाति निकृतं वान्धवैरपि |
३६ क
भीष्म उवाच:
तेषु सन्ति गुणाश्चैव नैर्गुण्यं तेषु लक्ष्यते ||
३६ ख
भीष्म उवाच:
नाज्ञातिरनुगृह्णाति नाज्ञातिर्दिग्धमस्यति |
३७ क
भीष्म उवाच:
उभय़ं ज्ञातिलोकेषु दृश्यते साध्वसाधु च ||
३७ ख
भीष्म उवाच:
तान्मानय़ेत्पूजय़ेच्च नित्यं वाचा च कर्मणा |
३८ क
भीष्म उवाच:
कुर्याच्च प्रिय़मेतेभ्यो नाप्रिय़ं किञ्चिदाचरेत् ||
३८ ख
भीष्म उवाच:
विश्वस्तवदविश्वस्तस्तेषु वर्तेत सर्वदा |
३९ क
भीष्म उवाच:
न हि दोषो गुणो वेति निस्पृक्तस्तेषु दृश्यते ||
३९ ख
भीष्म उवाच:
तस्यैवं वर्तमानस्य पुरुषस्याप्रमादिनः |
४० क
भीष्म उवाच:
अमित्राः सम्प्रसीदन्ति तथा मित्रीभवन्त्यपि ||
४० ख
भीष्म उवाच:
य एवं वर्तते नित्यं ज्ञातिसम्वन्धिमण्डले |
४१ क
भीष्म उवाच:
मित्रेष्वमित्रेष्वैश्वर्ये चिरं यशसि तिष्ठति ||
४१ ख