chevron_left अनुशासन पर्व अध्याय ८१
युधिष्ठिर उवाच:
मय़ा गवां पुरीषं वै श्रिय़ा जुष्टमिति श्रुतम् |
१ क
युधिष्ठिर उवाच:
एतदिच्छाम्यहं श्रोतुं संशय़ोऽत्र हि मे महान् ||
१ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
२ क
भीष्म उवाच:
गोभिर्नृपेह संवादं श्रिय़ा भरतसत्तम ||
२ ख
भीष्म उवाच:
श्रीः कृत्वेह वपुः कान्तं गोमध्यं प्रविवेश ह |
३ क
भीष्म उवाच:
गावोऽथ विस्मितास्तस्या दृष्ट्वा रूपस्य सम्पदम् ||
३ ख
गाव ऊचुः:
कासि देवि कुतो वा त्वं रूपेणाप्रतिमा भुवि |
४ क
गाव ऊचुः:
विस्मिताः स्म महाभागे तव रूपस्य सम्पदा ||
४ ख
गाव ऊचुः:
इच्छामस्त्वां वय़ं ज्ञातुं का त्वं क्व च गमिष्यसि |
५ क
गाव ऊचुः:
तत्त्वेन च सुवर्णाभे सर्वमेतद्व्रवीहि नः ||
५ ख
श्रीरु उवाच:
लोककान्तास्मि भद्रं वः श्रीर्नाम्नेह परिश्रुता |
६ क
श्रीरु उवाच:
मय़ा दैत्याः परित्यक्ता विनष्टाः शाश्वतीः समाः ||
६ ख
श्रीरु उवाच:
इन्द्रो विवस्वान्सोमश्च विष्णुरापोऽग्निरेव च |
७ क
श्रीरु उवाच:
मय़ाभिपन्ना ऋध्यन्ते ऋषय़ो देवतास्तथा ||
७ ख
श्रीरु उवाच:
यांश्च द्विषाम्यहं गावस्ते विनश्यन्ति सर्वशः |
८ क
श्रीरु उवाच:
धर्मार्थकामहीनाश्च ते भवन्त्यसुखान्विताः ||
८ ख
श्रीरु उवाच:
एवम्प्रभावां मां गावो विजानीत सुखप्रदाम् |
९ क
श्रीरु उवाच:
इच्छामि चापि युष्मासु वस्तुं सर्वासु नित्यदा |
९ ख
श्रीरु उवाच:
आगता प्रार्थय़ानाहं श्रीजुष्टा भवतानघाः ||
९ ग
गाव ऊचुः:
अध्रुवां चञ्चलां च त्वां सामान्यां वहुभिः सह |
१० क
गाव ऊचुः:
न त्वामिच्छामि भद्रं ते गम्यतां यत्र रोचते ||
१० ख
गाव ऊचुः:
वपुष्मन्त्यो वय़ं सर्वाः किमस्माकं त्वय़ाद्य वै |
११ क
गाव ऊचुः:
यत्रेष्टं गम्यतां तत्र कृतकार्या वय़ं त्वय़ा ||
११ ख
श्रीरु उवाच:
किमेतद्वः क्षमं गावो यन्मां नेहाभ्यनन्दथ |
१२ क
श्रीरु उवाच:
न मां सम्प्रति गृह्णीथ कस्माद्वै दुर्लभां सतीम् ||
१२ ख
श्रीरु उवाच:
सत्यश्च लोकवादोऽय़ं लोके चरति सुव्रताः |
१३ क
श्रीरु उवाच:
स्वय़ं प्राप्ते परिभवो भवतीति विनिश्चय़ः ||
१३ ख
श्रीरु उवाच:
महदुग्रं तपः कृत्वा मां निषेवन्ति मानवाः |
१४ क
श्रीरु उवाच:
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः ||
१४ ख
श्रीरु उवाच:
क्षममेतद्धि वो गावः प्रतिगृह्णीत मामिह |
१५ क
श्रीरु उवाच:
नावमन्या ह्यहं सौम्यास्त्रैलोक्ये सचराचरे ||
१५ ख
गाव ऊचुः:
नावमन्यामहे देवि न त्वां परिभवामहे |
१६ क
गाव ऊचुः:
अध्रुवा चलचित्तासि ततस्त्वां वर्जय़ामहे ||
१६ ख
गाव ऊचुः:
वहुनात्र किमुक्तेन गम्यतां यत्र वाञ्छसि |
१७ क
गाव ऊचुः:
वपुष्मत्यो वय़ं सर्वाः किमस्माकं त्वय़ानघे ||
१७ ख
श्रीरु उवाच:
अवज्ञाता भविष्यामि सर्वलोकेषु मानदाः |
१८ क
श्रीरु उवाच:
प्रत्याख्यानेन युष्माभिः प्रसादः क्रिय़तामिति ||
१८ ख
श्रीरु उवाच:
महाभागा भवत्यो वै शरण्याः शरणागताम् |
१९ क
श्रीरु उवाच:
परित्राय़न्तु मां नित्यं भजमानामनिन्दिताम् |
१९ ख
श्रीरु उवाच:
माननां त्वहमिच्छामि भवत्यः सततं शुभाः ||
१९ ग
श्रीरु उवाच:
अप्येकाङ्गे तु वो वस्तुमिच्छामि च सुकुत्सिते |
२० क
श्रीरु उवाच:
न वोऽस्ति कुत्सितं किञ्चिदङ्गेष्वालक्ष्यतेऽनघाः ||
२० ख
श्रीरु उवाच:
पुण्याः पवित्राः सुभगा ममादेशं प्रय़च्छत |
२१ क
श्रीरु उवाच:
वसेय़ं यत्र चाङ्गेऽहं तन्मे व्याख्यातुमर्हथ ||
२१ ख
भीष्म उवाच:
एवमुक्तास्तु ता गावः शुभाः करुणवत्सलाः |
२२ क
भीष्म उवाच:
संमन्त्र्य सहिताः सर्वाः श्रिय़मूचुर्नराधिप ||
२२ ख
भीष्म उवाच:
अवश्यं मानना कार्या तवास्माभिर्यशस्विनि |
२३ क
भीष्म उवाच:
शकृन्मूत्रे निवस नः पुण्यमेतद्धि नः शुभे ||
२३ ख
श्रीरु उवाच:
दिष्ट्या प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः |
२४ क
श्रीरु उवाच:
एवं भवतु भद्रं वः पूजितास्मि सुखप्रदाः ||
२४ ख
भीष्म उवाच:
एवं कृत्वा तु समय़ं श्रीर्गोभिः सह भारत |
२५ क
भीष्म उवाच:
पश्यन्तीनां ततस्तासां तत्रैवान्तरधीय़त ||
२५ ख
भीष्म उवाच:
एतद्गोशकृतः पुत्र माहात्म्यं तेऽनुवर्णितम् |
२६ क
भीष्म उवाच:
माहात्म्यं च गवां भूय़ः श्रूय़तां गदतो मम ||
२६ ख