chevron_left आश्वमेधिक पर्व अध्याय ८१
वैशम्पाय़न उवाच:
प्राय़ोपविष्टे नृपतौ मणिपूरेश्वरे तदा |
१ क
वैशम्पाय़न उवाच:
पितृशोकसमाविष्टे सह मात्रा परन्तप ||
१ ख
वैशम्पाय़न उवाच:
उलूपी चिन्तय़ामास तदा सञ्जीवनं मणिम् |
२ क
वैशम्पाय़न उवाच:
स चोपातिष्ठत तदा पन्नगानां पराय़णम् ||
२ ख
वैशम्पाय़न उवाच:
तं गृहीत्वा तु कौरव्य नागराजपतेः सुता |
३ क
वैशम्पाय़न उवाच:
मनःप्रह्लादनीं वाचं सैनिकानामथाव्रवीत् ||
३ ख
वैशम्पाय़न उवाच:
उत्तिष्ठ मा शुचः पुत्र नैष जिष्णुस्त्वय़ा हतः |
४ क
वैशम्पाय़न उवाच:
अजेय़ः पुरुषैरेष देवैर्वापि सवासवैः ||
४ ख
वैशम्पाय़न उवाच:
मय़ा तु मोहिनी नाम माय़ैषा सम्प्रय़ोजिता |
५ क
वैशम्पाय़न उवाच:
प्रिय़ार्थं पुरुषेन्द्रस्य पितुस्तेऽद्य यशस्विनः ||
५ ख
वैशम्पाय़न उवाच:
जिज्ञासुर्ह्येष वै पुत्र वलस्य तव कौरवः |
६ क
वैशम्पाय़न उवाच:
सङ्ग्रामे युध्यतो राजन्नागतः परवीरहा ||
६ ख
वैशम्पाय़न उवाच:
तस्मादसि मय़ा पुत्र युद्धार्थं परिचोदितः |
७ क
वैशम्पाय़न उवाच:
मा पापमात्मनः पुत्र शङ्केथास्त्वण्वपि प्रभो ||
७ ख
वैशम्पाय़न उवाच:
ऋषिरेष महातेजाः पुरुषः शाश्वतोऽव्ययः |
८ क
वैशम्पाय़न उवाच:
नैनं शक्तो हि सङ्ग्रामे जेतुं शक्रोऽपि पुत्रक ||
८ ख
वैशम्पाय़न उवाच:
अय़ं तु मे मणिर्दिव्यः समानीतो विशां पते |
९ क
वैशम्पाय़न उवाच:
मृतान्मृतान्पन्नगेन्द्रान्यो जीवय़ति नित्यदा ||
९ ख
वैशम्पाय़न उवाच:
एतमस्योरसि त्वं तु स्थापय़स्व पितुः प्रभो |
१० क
वैशम्पाय़न उवाच:
सञ्जीवितं पुनः पुत्र ततो द्रष्टासि पाण्डवम् ||
१० ख
वैशम्पाय़न उवाच:
इत्युक्तः स्थापय़ामास तस्योरसि मणिं तदा |
११ क
वैशम्पाय़न उवाच:
पार्थस्यामिततेजाः स पितुः स्नेहादपापकृत् ||
११ ख
वैशम्पाय़न उवाच:
तस्मिन्न्यस्ते मणौ वीर जिष्णुरुज्जीवितः प्रभुः |
१२ क
वैशम्पाय़न उवाच:
सुप्तोत्थित इवोत्तस्थौ मृष्टलोहितलोचनः ||
१२ ख
वैशम्पाय़न उवाच:
तमुत्थितं महात्मानं लव्धसञ्ज्ञं मनस्विनम् |
१३ क
वैशम्पाय़न उवाच:
समीक्ष्य पितरं स्वस्थं ववन्दे वभ्रुवाहनः ||
१३ ख
वैशम्पाय़न उवाच:
उत्थिते पुरुषव्याघ्रे पुनर्लक्ष्मीवति प्रभो |
१४ क
वैशम्पाय़न उवाच:
दिव्याः सुमनसः पुण्या ववृषे पाकशासनः ||
१४ ख
वैशम्पाय़न उवाच:
अनाहता दुन्दुभय़ः प्रणेदुर्मेघनिस्वनाः |
१५ क
वैशम्पाय़न उवाच:
साधु साध्विति चाकाशे वभूव सुमहान्स्वनः ||
१५ ख
वैशम्पाय़न उवाच:
उत्थाय़ तु महावाहुः पर्याश्वस्तो धनञ्जय़ः |
१६ क
वैशम्पाय़न उवाच:
वभ्रुवाहनमालिङ्ग्य समाजिघ्रत मूर्धनि ||
१६ ख
वैशम्पाय़न उवाच:
ददर्श चाविदूरेऽस्य मातरं शोककर्शिताम् |
१७ क
वैशम्पाय़न उवाच:
उलूप्या सह तिष्ठन्तीं ततोऽपृच्छद्धनञ्जय़ः ||
१७ ख
वैशम्पाय़न उवाच:
किमिदं लक्ष्यते सर्वं शोकविस्मय़हर्षवत् |
१८ क
वैशम्पाय़न उवाच:
रणाजिरममित्रघ्न यदि जानासि शंस मे ||
१८ ख
वैशम्पाय़न उवाच:
जननी च किमर्थं ते रणभूमिमुपागता |
१९ क
वैशम्पाय़न उवाच:
नागेन्द्रदुहिता चेय़मुलूपी किमिहागता ||
१९ ख
वैशम्पाय़न उवाच:
जानाम्यहमिदं युद्धं त्वय़ा मद्वचनात्कृतम् |
२० क
वैशम्पाय़न उवाच:
स्त्रीणामागमने हेतुमहमिच्छामि वेदितुम् ||
२० ख
वैशम्पाय़न उवाच:
तमुवाच ततः पृष्टो मणिपूरपतिस्तदा |
२१ क
वैशम्पाय़न उवाच:
प्रसाद्य शिरसा विद्वानुलूपी पृच्छ्यतामिति ||
२१ ख