अर्जुन उवाच:
कुरूणामद्य सर्वेषां भवान्सुहृदनुत्तमः |
१ क
अर्जुन उवाच:
सम्वन्धी दय़ितो नित्यमुभय़ोः पक्षय़ोरपि ||
१ ख
अर्जुन उवाच:
पाण्डवैर्धार्तराष्ट्राणां प्रतिपाद्यमनामय़म् |
२ क
अर्जुन उवाच:
समर्थः प्रशमं चैषां कर्तुं त्वमसि केशव ||
२ ख
अर्जुन उवाच:
त्वमितः पुण्डरीकाक्ष सुय़ोधनममर्षणम् |
३ क
अर्जुन उवाच:
शान्त्यर्थं भारतं व्रूय़ा यत्तद्वाच्यममित्रहन् ||
३ ख
अर्जुन उवाच:
त्वय़ा धर्मार्थय़ुक्तं चेदुक्तं शिवमनामय़म् |
४ क
अर्जुन उवाच:
हितं नादास्यते वालो दिष्टस्य वशमेष्यति ||
४ ख
भगवानु उवाच:
धर्म्यमस्मद्धितं चैव कुरूणां यदनामय़म् |
५ क
भगवानु उवाच:
एष यास्यामि राजानं धृतराष्ट्रमभीप्सय़ा ||
५ ख
वैशम्पाय़न उवाच:
ततो व्यपेते तमसि सूर्ये विमल उद्गते |
६ क
वैशम्पाय़न उवाच:
मैत्रे मुहूर्ते सम्प्राप्ते मृद्वर्चिषि दिवाकरे ||
६ ख
वैशम्पाय़न उवाच:
कौमुदे मासि रेवत्यां शरदन्ते हिमागमे |
७ क
वैशम्पाय़न उवाच:
स्फीतसस्यसुखे काले कल्यः सत्त्ववतां वरः ||
७ ख
वैशम्पाय़न उवाच:
मङ्गल्याः पुण्यनिर्घोषा वाचः शृण्वंश्च सूनृताः |
८ क
वैशम्पाय़न उवाच:
व्राह्मणानां प्रतीतानामृषीणामिव वासवः ||
८ ख
वैशम्पाय़न उवाच:
कृत्वा पौर्वाह्णिकं कृत्यं स्नातः शुचिरलङ्कृतः |
९ क
वैशम्पाय़न उवाच:
उपतस्थे विवस्वन्तं पावकं च जनार्दनः ||
९ ख
वैशम्पाय़न उवाच:
ऋषभं पृष्ठ आलभ्य व्राह्मणानभिवाद्य च |
१० क
वैशम्पाय़न उवाच:
अग्निं प्रदक्षिणं कृत्वा पश्यन्कल्याणमग्रतः ||
१० ख
वैशम्पाय़न उवाच:
तत्प्रतिज्ञाय़ वचनं पाण्डवस्य जनार्दनः |
११ क
वैशम्पाय़न उवाच:
शिनेर्नप्तारमासीनमभ्यभाषत सात्यकिम् ||
११ ख
वैशम्पाय़न उवाच:
रथ आरोप्यतां शङ्खश्चक्रं च गदय़ा सह |
१२ क
वैशम्पाय़न उवाच:
उपासङ्गाश्च शक्त्यश्च सर्वप्रहरणानि च ||
१२ ख
वैशम्पाय़न उवाच:
दुर्योधनो हि दुष्टात्मा कर्णश्च सहसौवलः |
१३ क
वैशम्पाय़न उवाच:
न च शत्रुरवज्ञेय़ः प्राकृतोऽपि वलीय़सा ||
१३ ख
वैशम्पाय़न उवाच:
ततस्तन्मतमाज्ञाय़ केशवस्य पुरःसराः |
१४ क
वैशम्पाय़न उवाच:
प्रसस्रुर्योजय़िष्यन्तो रथं चक्रगदाभृतः ||
१४ ख
वैशम्पाय़न उवाच:
तं दीप्तमिव कालाग्निमाकाशगमिवाध्वगम् |
१५ क
वैशम्पाय़न उवाच:
चन्द्रसूर्यप्रकाशाभ्यां चक्राभ्यां समलङ्कृतम् ||
१५ ख
वैशम्पाय़न उवाच:
अर्धचन्द्रैश्च चन्द्रैश्च मत्स्यैः समृगपक्षिभिः |
१६ क
वैशम्पाय़न उवाच:
पुष्पैश्च विविधैश्चित्रं मणिरत्नैश्च सर्वशः ||
१६ ख
वैशम्पाय़न उवाच:
तरुणादित्यसङ्काशं वृहन्तं चारुदर्शनम् |
१७ क
वैशम्पाय़न उवाच:
मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम् ||
१७ ख
वैशम्पाय़न उवाच:
सूपस्करमनाधृष्यं वैय़ाघ्रपरिवारणम् |
१८ क
वैशम्पाय़न उवाच:
यशोघ्नं प्रत्यमित्राणां यदूनां नन्दिवर्धनम् ||
१८ ख
वैशम्पाय़न उवाच:
वाजिभिः सैन्यसुग्रीवमेघपुष्पवलाहकैः |
१९ क
वैशम्पाय़न उवाच:
स्नातैः सम्पादय़ां चक्रुः सम्पन्नैः सर्वसम्पदा ||
१९ ख
वैशम्पाय़न उवाच:
महिमानं तु कृष्णस्य भूय़ एवाभिवर्धय़न् |
२० क
वैशम्पाय़न उवाच:
सुघोषः पतगेन्द्रेण ध्वजेन युय़ुजे रथः ||
२० ख
वैशम्पाय़न उवाच:
तं मेरुशिखरप्रख्यं मेघदुन्दुभिनिस्वनम् |
२१ क
वैशम्पाय़न उवाच:
आरुरोह रथं शौरिर्विमानमिव पुण्यकृत् ||
२१ ख
वैशम्पाय़न उवाच:
ततः सात्यकिमारोप्य प्रय़यौ पुरुषोत्तमः |
२२ क
वैशम्पाय़न उवाच:
पृथिवीं चान्तरिक्षं च रथघोषेण नादय़न् ||
२२ ख
वैशम्पाय़न उवाच:
व्यपोढाभ्रघनः कालः क्षणेन समपद्यत |
२३ क
वैशम्पाय़न उवाच:
शिवश्चानुववौ वाय़ुः प्रशान्तमभवद्रजः ||
२३ ख
वैशम्पाय़न उवाच:
प्रदक्षिणानुलोमाश्च मङ्गल्या मृगपक्षिणः |
२४ क
वैशम्पाय़न उवाच:
प्रय़ाणे वासुदेवस्य वभूवुरनुय़ाय़िनः ||
२४ ख
वैशम्पाय़न उवाच:
मङ्गल्यार्थपदैः शव्दैरन्ववर्तन्त सर्वशः |
२५ क
वैशम्पाय़न उवाच:
सारसाः शतपत्राश्च हंसाश्च मधुसूदनम् ||
२५ ख
वैशम्पाय़न उवाच:
मन्त्राहुतिमहाहोमैर्हूय़मानश्च पावकः |
२६ क
वैशम्पाय़न उवाच:
प्रदक्षिणशिखो भूत्वा विधूमः समपद्यत ||
२६ ख
वैशम्पाय़न उवाच:
वसिष्ठो वामदेवश्च भूरिद्युम्नो गय़ः क्रथः |
२७ क
वैशम्पाय़न उवाच:
शुक्रनारदवाल्मीका मरुतः कुशिको भृगुः ||
२७ ख
वैशम्पाय़न उवाच:
व्रह्मदेवर्षय़श्चैव कृष्णं यदुसुखावहम् |
२८ क
वैशम्पाय़न उवाच:
प्रदक्षिणमवर्तन्त सहिता वासवानुजम् ||
२८ ख
वैशम्पाय़न उवाच:
एवमेतैर्महाभागैर्महर्षिगणसाधुभिः |
२९ क
वैशम्पाय़न उवाच:
पूजितः प्रय़यौ कृष्णः कुरूणां सदनं प्रति ||
२९ ख
वैशम्पाय़न उवाच:
तं प्रय़ान्तमनुप्राय़ात्कुन्तीपुत्रो युधिष्ठिरः |
३० क
वैशम्पाय़न उवाच:
भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ ||
३० ख
वैशम्पाय़न उवाच:
चेकितानश्च विक्रान्तो धृष्टकेतुश्च चेदिपः |
३१ क
वैशम्पाय़न उवाच:
द्रुपदः काशिराजश्च शिखण्डी च महारथः ||
३१ ख
वैशम्पाय़न उवाच:
धृष्टद्युम्नः सपुत्रश्च विराटः केकय़ैः सह |
३२ क
वैशम्पाय़न उवाच:
संसाधनार्थं प्रय़युः क्षत्रिय़ाः क्षत्रिय़र्षभम् ||
३२ ख
वैशम्पाय़न उवाच:
ततोऽनुव्रज्य गोविन्दं धर्मराजो युधिष्ठिरः |
३३ क
वैशम्पाय़न उवाच:
राज्ञां सकाशे द्युतिमानुवाचेदं वचस्तदा ||
३३ ख
वैशम्पाय़न उवाच:
यो नैव कामान्न भय़ान्न लोभान्नार्थकारणात् |
३४ क
वैशम्पाय़न उवाच:
अन्याय़मनुवर्तेत स्थिरवुद्धिरलोलुपः ||
३४ ख
वैशम्पाय़न उवाच:
धर्मज्ञो धृतिमान्प्राज्ञः सर्वभूतेषु केशवः |
३५ क
वैशम्पाय़न उवाच:
ईश्वरः सर्वभूतानां देवदेवः प्रतापवान् ||
३५ ख
वैशम्पाय़न उवाच:
तं सर्वगुणसम्पन्नं श्रीवत्सकृतलक्षणम् |
३६ क
वैशम्पाय़न उवाच:
सम्परिष्वज्य कौन्तेय़ः सन्देष्टुमुपचक्रमे ||
३६ ख
वैशम्पाय़न उवाच:
या सा वाल्यात्प्रभृत्यस्मान्पर्यवर्धय़तावला |
३७ क
वैशम्पाय़न उवाच:
उपवासतपःशीला सदा स्वस्त्ययने रता ||
३७ ख
वैशम्पाय़न उवाच:
देवतातिथिपूजासु गुरुशुश्रूषणे रता |
३८ क
वैशम्पाय़न उवाच:
वत्सला प्रिय़पुत्रा च प्रिय़ास्माकं जनार्दन ||
३८ ख
वैशम्पाय़न उवाच:
सुय़ोधनभय़ाद्या नोऽत्राय़तामित्रकर्शन |
३९ क
वैशम्पाय़न उवाच:
महतो मृत्युसम्वाधादुत्तरन्नौरिवार्णवात् ||
३९ ख
वैशम्पाय़न उवाच:
अस्मत्कृते च सततं यय़ा दुःखानि माधव |
४० क
वैशम्पाय़न उवाच:
अनुभूतान्यदुःखार्हा तां स्म पृच्छेरनामय़म् ||
४० ख
वैशम्पाय़न उवाच:
भृशमाश्वासय़ेश्चैनां पुत्रशोकपरिप्लुताम् |
४१ क
वैशम्पाय़न उवाच:
अभिवाद्य स्वजेथाश्च पाण्डवान्परिकीर्तय़न् ||
४१ ख
वैशम्पाय़न उवाच:
ऊढात्प्रभृति दुःखानि श्वशुराणामरिन्दम |
४२ क
वैशम्पाय़न उवाच:
निकारानतदर्हा च पश्यन्ती दुःखमश्नुते ||
४२ ख
वैशम्पाय़न उवाच:
अपि जातु स कालः स्यात्कृष्ण दुःखविपर्ययः |
४३ क
वैशम्पाय़न उवाच:
यदहं मातरं क्लिष्टां सुखे दध्यामरिन्दम ||
४३ ख
वैशम्पाय़न उवाच:
प्रव्रजन्तोऽन्वधावत्सा कृपणा पुत्रगृद्धिनी |
४४ क
वैशम्पाय़न उवाच:
रुदतीमपहाय़ैनामुपगच्छाम यद्वनम् ||
४४ ख
वैशम्पाय़न उवाच:
न नूनं म्रिय़ते दुःखैः सा चेज्जीवति केशव |
४५ क
वैशम्पाय़न उवाच:
तथा पुत्राधिभिर्गाढमार्ता ह्यानर्तसत्कृता ||
४५ ख
वैशम्पाय़न उवाच:
अभिवाद्या तु सा कृष्ण त्वय़ा मद्वचनाद्विभो |
४६ क
वैशम्पाय़न उवाच:
धृतराष्ट्रश्च कौरव्यो राजानश्च वय़ोऽधिकाः ||
४६ ख
वैशम्पाय़न उवाच:
भीष्मं द्रोणं कृपं चैव महाराजं च वाह्लिकम् |
४७ क
वैशम्पाय़न उवाच:
द्रौणिं च सोमदत्तं च सर्वांश्च भरतान्पृथक् ||
४७ ख
वैशम्पाय़न उवाच:
विदुरं च महाप्राज्ञं कुरूणां मन्त्रधारिणम् |
४८ क
वैशम्पाय़न उवाच:
अगाधवुद्धिं धर्मज्ञं स्वजेथा मधुसूदन ||
४८ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा केशवं तत्र राजमध्ये युधिष्ठिरः |
४९ क
वैशम्पाय़न उवाच:
अनुज्ञातो निववृते कृष्णं कृत्वा प्रदक्षिणम् ||
४९ ख
वैशम्पाय़न उवाच:
व्रजन्नेव तु वीभत्सुः सखाय़ं पुरुषर्षभम् |
५० क
वैशम्पाय़न उवाच:
अव्रवीत्परवीरघ्नं दाशार्हमपराजितम् ||
५० ख