सञ्जय़ उवाच:
स तुद्यमानस्तु शरैर्धनञ्जय़ः; पदा हतो नाग इव श्वसन्वली |
१ क
सञ्जय़ उवाच:
वाणेन वाणेन महारथानां; चिच्छेद चापानि रणे प्रसह्य ||
१ ख
सञ्जय़ उवाच:
सञ्छिद्य चापानि च तानि राज्ञां; तेषां रणे वीर्यवतां क्षणेन |
२ क
सञ्जय़ उवाच:
विव्याध वाणैर्युगपन्महात्मा; निःशेषतां तेष्वथ मन्यमानः ||
२ ख
सञ्जय़ उवाच:
निपेतुराजौ रुधिरप्रदिग्धा; स्ते ताडिताः शक्रसुतेन राजन् |
३ क
सञ्जय़ उवाच:
विभिन्नगात्राः पतितोत्तमाङ्गा; गतासवश्छिन्नतनुत्रकाय़ाः ||
३ ख
सञ्जय़ उवाच:
महीं गताः पार्थवलाभिभूता; विचित्ररूपा युगपद्विनेशुः |
४ क
सञ्जय़ उवाच:
दृष्ट्वा हतांस्तान्युधि राजपुत्रां; स्त्रिगर्तराजः प्रय़यौ क्षणेन ||
४ ख
सञ्जय़ उवाच:
तेषां रथानामथ पृष्ठगोपा; द्वात्रिंशदन्येऽव्यपतन्त पार्थम् |
५ क
सञ्जय़ उवाच:
तथैव ते सम्परिवार्य पार्थं; विकृष्य चापानि महारवाणि |
५ ख
सञ्जय़ उवाच:
अवीवृषन्वाणमहौघवृष्ट्या; यथा गिरिं तोय़धरा जलौघैः ||
५ ग
सञ्जय़ उवाच:
सम्पीड्यमानस्तु शरौघवृष्ट्या; धनञ्जय़स्तान्युधि जातरोषः |
६ क
सञ्जय़ उवाच:
षष्ट्या शरैः संय़ति तैलधौतै; र्जघान तानप्यथ पृष्ठगोपान् ||
६ ख
सञ्जय़ उवाच:
षष्टिं रथांस्तानवजित्य सङ्ख्ये; धनञ्जय़ः प्रीतमना यशस्वी |
७ क
सञ्जय़ उवाच:
अथात्वरद्भीष्मवधाय़ जिष्णु; र्वलानि राज्ञां समरे निहत्य ||
७ ख
सञ्जय़ उवाच:
त्रिगर्तराजो निहतान्समीक्ष्य; महारथांस्तानथ वन्धुवर्गान् |
८ क
सञ्जय़ उवाच:
रणे पुरस्कृत्य नराधिपांस्ता; ञ्जगाम पार्थं त्वरितो वधाय़ ||
८ ख
सञ्जय़ उवाच:
अभिद्रुतं चास्त्रभृतां वरिष्ठं; धनञ्जय़ं वीक्ष्य शिखण्डिमुख्याः |
९ क
सञ्जय़ उवाच:
अभ्युद्ययुस्ते शितशस्त्रहस्ता; रिरक्षिषन्तो रथमर्जुनस्य ||
९ ख
सञ्जय़ उवाच:
पार्थोऽपि तानापततः समीक्ष्य; त्रिगर्तराज्ञा सहितान्नृवीरान् |
१० क
सञ्जय़ उवाच:
विध्वंसय़ित्वा समरे धनुष्मा; न्गाण्डीवमुक्तैर्निशितैः पृषत्कैः |
१० ख
सञ्जय़ उवाच:
भीष्मं यिय़ासुर्युधि सन्ददर्श; दुर्योधनं सैन्धवादींश्च राज्ञः ||
१० ग
सञ्जय़ उवाच:
आवारय़िष्णूनभिसम्प्रय़ाय़; मुहूर्तमाय़ोध्य वलेन वीरः |
११ क
सञ्जय़ उवाच:
उत्सृज्य राजानमनन्तवीर्यो; जय़द्रथादींश्च नृपान्महौजाः |
११ ख
सञ्जय़ उवाच:
यय़ौ ततो भीमवलो मनस्वी; गाङ्गेय़माजौ शरचापपाणिः ||
११ ग
सञ्जय़ उवाच:
युधिष्ठिरश्चोग्रवलो महात्मा; समाय़यौ त्वरितो जातकोपः |
१२ क
सञ्जय़ उवाच:
मद्राधिपं समभित्यज्य सङ्ख्ये; स्वभागमाप्तं तमनन्तकीर्तिः |
१२ ख
सञ्जय़ उवाच:
सार्धं स माद्रीसुतभीमसेनै; र्भीष्मं यय़ौ शान्तनवं रणाय़ ||
१२ ग
सञ्जय़ उवाच:
तैः सम्प्रय़ुक्तः स महारथाग्र्यै; र्गङ्गासुतः समरे चित्रय़ोधी |
१३ क
सञ्जय़ उवाच:
न विव्यथे शान्तनवो महात्मा; समागतैः पाण्डुसुतैः समस्तैः ||
१३ ख
सञ्जय़ उवाच:
अथैत्य राजा युधि सत्यसन्धो; जय़द्रथोऽत्युग्रवलो मनस्वी |
१४ क
सञ्जय़ उवाच:
चिच्छेद चापानि महारथानां; प्रसह्य तेषां धनुषा वरेण ||
१४ ख
सञ्जय़ उवाच:
युधिष्ठिरं भीमसेनं यमौ च; पार्थं तथा युधि सञ्जातकोपः |
१५ क
सञ्जय़ उवाच:
दुर्योधनः क्रोधविषो महात्मा; जघान वाणैरनलप्रकाशैः ||
१५ ख
सञ्जय़ उवाच:
कृपेण शल्येन शलेन चैव; तथा विभो चित्रसेनेन चाजौ |
१६ क
सञ्जय़ उवाच:
विद्धाः शरैस्तेऽतिविवृद्धकोपै; र्देवा यथा दैत्यगणैः समेतैः ||
१६ ख
सञ्जय़ उवाच:
छिन्नाय़ुधं शान्तनवेन राजा; शिखण्डिनं प्रेक्ष्य च जातकोपः |
१७ क
सञ्जय़ उवाच:
अजातशत्रुः समरे महात्मा; शिखण्डिनं क्रुद्ध उवाच वाक्यम् ||
१७ ख
सञ्जय़ उवाच:
उक्त्वा तथा त्वं पितुरग्रतो मा; महं हनिष्यामि महाव्रतं तम् |
१८ क
सञ्जय़ उवाच:
भीष्मं शरौघैर्विमलार्कवर्णैः; सत्यं वदामीति कृता प्रतिज्ञा ||
१८ ख
सञ्जय़ उवाच:
त्वय़ा न चैनां सफलां करोषि; देवव्रतं यन्न निहंसि युद्धे |
१९ क
सञ्जय़ उवाच:
मिथ्याप्रतिज्ञो भव मा नृवीर; रक्षस्व धर्मं च कुलं यशश्च ||
१९ ख
सञ्जय़ उवाच:
प्रेक्षस्व भीष्मं युधि भीमवेगं; सर्वांस्तपन्तं मम सैन्यसङ्घान् |
२० क
सञ्जय़ उवाच:
शरौघजालैरतितिग्मतेजैः; कालं यथा मृत्युकृतं क्षणेन ||
२० ख
सञ्जय़ उवाच:
निकृत्तचापः समरानपेक्षः; पराजितः शान्तनवेन राज्ञा |
२१ क
सञ्जय़ उवाच:
विहाय़ वन्धूनथ सोदरांश्च; क्व यास्यसे नानुरूपं तवेदम् ||
२१ ख
सञ्जय़ उवाच:
दृष्ट्वा हि भीष्मं तमनन्तवीर्यं; भग्नं च सैन्यं द्रवमाणमेवम् |
२२ क
सञ्जय़ उवाच:
भीतोऽसि नूनं द्रुपदस्य पुत्र; तथा हि ते मुखवर्णोऽप्रहृष्टः ||
२२ ख
सञ्जय़ उवाच:
आज्ञाय़मानेऽपि धनञ्जय़ेन; महाहवे सम्प्रसक्ते नृवीर |
२३ क
सञ्जय़ उवाच:
कथं हि भीष्मात्प्रथितः पृथिव्यां; भय़ं त्वमद्य प्रकरोषि वीर ||
२३ ख
सञ्जय़ उवाच:
स धर्मराजस्य वचो निशम्य; रूक्षाक्षरं विप्रलापानुवद्धम् |
२४ क
सञ्जय़ उवाच:
प्रत्यादेशं मन्यमानो महात्मा; प्रतत्वरे भीष्मवधाय़ राजन् ||
२४ ख
सञ्जय़ उवाच:
तमापतन्तं महता जवेन; शिखण्डिनं भीष्ममभिद्रवन्तम् |
२५ क
सञ्जय़ उवाच:
आवारय़ामास हि शल्य एनं; शस्त्रेण घोरेण सुदुर्जय़ेन ||
२५ ख
सञ्जय़ उवाच:
स चापि दृष्ट्वा समुदीर्यमाण; मस्त्रं युगान्ताग्निसमप्रभावम् |
२६ क
सञ्जय़ उवाच:
नासौ व्यमुह्यद्द्रुपदस्य पुत्रो; राजन्महेन्द्रप्रतिमप्रभावः ||
२६ ख
सञ्जय़ उवाच:
तस्थौ च तत्रैव महाधनुष्मा; ञ्शरैस्तदस्त्रं प्रतिवाधमानः |
२७ क
सञ्जय़ उवाच:
अथाददे वारुणमन्यदस्त्रं; शिखण्ड्यथोग्रं प्रतिघाताय़ तस्य |
२७ ख
सञ्जय़ उवाच:
तदस्त्रमस्त्रेण विदार्यमाणं; खस्थाः सुरा ददृशुः पार्थिवाश्च ||
२७ ग
सञ्जय़ उवाच:
भीष्मस्तु राजन्समरे महात्मा; धनुः सुचित्रं ध्वजमेव चापि |
२८ क
सञ्जय़ उवाच:
छित्त्वानदत्पाण्डुसुतस्य वीरो; युधिष्ठिरस्याजमीढस्य राज्ञः ||
२८ ख
सञ्जय़ उवाच:
ततः समुत्सृज्य धनुः सवाणं; युधिष्ठिरं वीक्ष्य भय़ाभिभूतम् |
२९ क
सञ्जय़ उवाच:
गदां प्रगृह्याभिपपात सङ्ख्ये; जय़द्रथं भीमसेनः पदातिः ||
२९ ख
सञ्जय़ उवाच:
तमापतन्तं महता जवेन; जय़द्रथः सगदं भीमसेनम् |
३० क
सञ्जय़ उवाच:
विव्याध घोरैर्यमदण्डकल्पैः; शितैः शरैः पञ्चशतैः समन्तात् ||
३० ख
सञ्जय़ उवाच:
अचिन्तय़ित्वा स शरांस्तरस्वी; वृकोदरः क्रोधपरीतचेताः |
३१ क
सञ्जय़ उवाच:
जघान वाहान्समरे समस्ता; नारट्टजान्सिन्धुराजस्य सङ्ख्ये ||
३१ ख
सञ्जय़ उवाच:
ततोऽभिवीक्ष्याप्रतिमप्रभाव; स्तवात्मजस्त्वरमाणो रथेन |
३२ क
सञ्जय़ उवाच:
अभ्याय़यौ भीमसेनं निहन्तुं; समुद्यतास्त्रः सुरराजकल्पः ||
३२ ख
सञ्जय़ उवाच:
भीमोऽप्यथैनं सहसा विनद्य; प्रत्युद्ययौ गदय़ा तर्जमानः |
३३ क
सञ्जय़ उवाच:
समुद्यतां तां यमदण्डकल्पां; दृष्ट्वा गदां ते कुरवः समन्तात् ||
३३ ख
सञ्जय़ उवाच:
विहाय़ सर्वे तव पुत्रमुग्रं; पातं गदाय़ाः परिहर्तुकामाः |
३४ क
सञ्जय़ उवाच:
अपक्रान्तास्तुमुले संविमर्दे; सुदारुणे भारत मोहनीय़े ||
३४ ख
सञ्जय़ उवाच:
अमूढचेतास्त्वथ चित्रसेनो; महागदामापतन्तीं निरीक्ष्य |
३५ क
सञ्जय़ उवाच:
रथं समुत्सृज्य पदातिराजौ; प्रगृह्य खड्गं विमलं च चर्म |
३५ ख
सञ्जय़ उवाच:
अवप्लुतः सिंह इवाचलाग्रा; ज्जगाम चान्यं भुवि भूमिदेशम् ||
३५ ग
सञ्जय़ उवाच:
गदापि सा प्राप्य रथं सुचित्रं; साश्वं ससूतं विनिहत्य सङ्ख्ये |
३६ क
सञ्जय़ उवाच:
जगाम भूमिं ज्वलिता महोल्का; भ्रष्टाम्वराद्गामिव सम्पतन्ती ||
३६ ख
सञ्जय़ उवाच:
आश्चर्यभूतं सुमहत्त्वदीय़ा; दृष्ट्वैव तद्भारत सम्प्रहृष्टाः |
३७ क
सञ्जय़ उवाच:
सर्वे विनेदुः सहिताः समन्ता; त्पुपूजिरे तव पुत्रं ससैन्याः ||
३७ ख