chevron_left द्रोण पर्व अध्याय ८१
धृतराष्ट्र उवाच:
अर्जुने सैन्धवं प्राप्ते भारद्वाजेन संवृताः |
१ क
धृतराष्ट्र उवाच:
पाञ्चालाः कुरुभिः सार्धं किमकुर्वत सञ्जय़ ||
१ ख
सञ्जय़ उवाच:
अपराह्णे महाराज सङ्ग्रामे लोमहर्षणे |
२ क
सञ्जय़ उवाच:
पाञ्चालानां कुरूणां च द्रोणे द्यूतमवर्तत ||
२ ख
सञ्जय़ उवाच:
पाञ्चाला हि जिघांसन्तो द्रोणं संहृष्टचेतसः |
३ क
सञ्जय़ उवाच:
अभ्यवर्षन्त गर्जन्तः शरवर्षाणि मारिष ||
३ ख
सञ्जय़ उवाच:
ततः सुतुमुलस्तेषां सङ्ग्रामोऽवर्तताद्भुतः |
४ क
सञ्जय़ उवाच:
पाञ्चालानां कुरूणां च घोरो देवासुरोपमः ||
४ ख
सञ्जय़ उवाच:
सर्वे द्रोणरथं प्राप्य पाञ्चालाः पण्डवैः सह |
५ क
सञ्जय़ उवाच:
तदनीकं विभित्सन्तो महास्त्राणि व्यदर्शय़न् ||
५ ख
सञ्जय़ उवाच:
द्रोणस्य रथपर्यन्तं रथिनो रथमास्थिताः |
६ क
सञ्जय़ उवाच:
कम्पय़न्तोऽभ्यवर्तन्त वेगमास्थाय़ मध्यमम् ||
६ ख
सञ्जय़ उवाच:
तमभ्यगाद्वृहत्क्षत्रः केकय़ानां महारथः |
७ क
सञ्जय़ उवाच:
प्रवपन्निशितान्वाणान्महेन्द्राशनिसंनिभान् ||
७ ख
सञ्जय़ उवाच:
तं तु प्रत्युदिय़ाच्छीघ्रं क्षेमधूर्तिर्महाय़शाः |
८ क
सञ्जय़ उवाच:
विमुञ्चन्निशितान्वाणाञ्शतशोऽथ सहस्रशः ||
८ ख
सञ्जय़ उवाच:
धृष्टकेतुश्च चेदीनामृषभोऽतिवलोदितः |
९ क
सञ्जय़ उवाच:
त्वरितोऽभ्यद्रवद्द्रोणं महेन्द्र इव शम्वरम् ||
९ ख
सञ्जय़ उवाच:
तमापतन्तं सहसा व्यादितास्यमिवान्तकम् |
१० क
सञ्जय़ उवाच:
वीरधन्वा महेष्वासस्त्वरमाणः समभ्ययात् ||
१० ख
सञ्जय़ उवाच:
युधिष्ठिरं महाराज जिगीषुं समवस्थितम् |
११ क
सञ्जय़ उवाच:
सहानीकं ततो द्रोणो न्यवारय़त वीर्यवान् ||
११ ख
सञ्जय़ उवाच:
नकुलं कुशलं युद्धे पराक्रान्तं पराक्रमी |
१२ क
सञ्जय़ उवाच:
अभ्यगच्छत्समाय़ान्तं विकर्णस्ते सुतः प्रभो ||
१२ ख
सञ्जय़ उवाच:
सहदेवं तथाय़ान्तं दुर्मुखः शत्रुकर्शनः |
१३ क
सञ्जय़ उवाच:
शरैरनेकसाहस्रैः समवाकिरदाशुगैः ||
१३ ख
सञ्जय़ उवाच:
सात्यकिं तु नरव्याघ्रं व्याघ्रदत्तस्त्ववारय़त् |
१४ क
सञ्जय़ उवाच:
शरैः सुनिशितैस्तीक्ष्णैः कम्पय़न्वै मुहुर्मुहुः ||
१४ ख
सञ्जय़ उवाच:
द्रौपदेय़ान्नरव्याघ्रान्मुञ्चतः साय़कोत्तमान् |
१५ क
सञ्जय़ उवाच:
संरव्धान्रथिनां श्रेष्ठान्सौमदत्तिरवारय़त् ||
१५ ख
सञ्जय़ उवाच:
भीमसेनं तथा क्रुद्धं भीमरूपो भय़ानकम् |
१६ क
सञ्जय़ उवाच:
प्रत्यवारय़दाय़ान्तमार्ष्यशृङ्गिर्महारथः ||
१६ ख
सञ्जय़ उवाच:
तय़ोः समभवद्युद्धं नरराक्षसय़ोर्मृधे |
१७ क
सञ्जय़ उवाच:
यादृगेव पुरा वृत्तं रामरावणय़ोर्नृप ||
१७ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरो द्रोणं नवत्या नतपर्वणाम् |
१८ क
सञ्जय़ उवाच:
आजघ्ने भरतश्रेष्ठ सर्वमर्मसु भारत ||
१८ ख
सञ्जय़ उवाच:
तं द्रोणः पञ्चविंशत्या निजघान स्तनान्तरे |
१९ क
सञ्जय़ उवाच:
रोषितो भरतश्रेष्ठ कौन्तेय़ेन यशस्विना ||
१९ ख
सञ्जय़ उवाच:
भूय़ एव तु विंशत्या साय़कानां समाचिनोत् |
२० क
सञ्जय़ उवाच:
साश्वसूतध्वजं द्रोणः पश्यतां सर्वधन्विनाम् ||
२० ख
सञ्जय़ उवाच:
ताञ्शरान्द्रोणमुक्तांस्तु शरवर्षेण पाण्डवः |
२१ क
सञ्जय़ उवाच:
अवारय़त धर्मात्मा दर्शय़न्पाणिलाघवम् ||
२१ ख
सञ्जय़ उवाच:
ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य संय़ुगे |
२२ क
सञ्जय़ उवाच:
चिच्छेद सहसा धन्वी धनुस्तस्य महात्मनः ||
२२ ख
सञ्जय़ उवाच:
अथैनं छिन्नधन्वानं त्वरमाणो महारथः |
२३ क
सञ्जय़ उवाच:
शरैरनेकसाहस्रैः पुरय़ामास सर्वतः ||
२३ ख
सञ्जय़ उवाच:
अदृश्यं दृश्य राजानं भारद्वाजस्य साय़कैः |
२४ क
सञ्जय़ उवाच:
सर्वभूतान्यमन्यन्त हतमेव युधिष्ठिरम् ||
२४ ख
सञ्जय़ उवाच:
केचिच्चैनममन्यन्त तथा वै विमुखीकृतम् |
२५ क
सञ्जय़ उवाच:
हृतो राजेति राजेन्द्र व्राह्मणेन यशस्विना ||
२५ ख
सञ्जय़ उवाच:
स कृच्छ्रं परमं प्राप्तो धर्मराजो युधिष्ठिरः |
२६ क
सञ्जय़ उवाच:
त्यक्त्वा तत्कार्मुकं छिन्नं भारद्वाजेन संय़ुगे |
२६ ख
सञ्जय़ उवाच:
आददेऽन्यद्धनुर्दिव्यं भारघ्नं वेगवत्तरम् ||
२६ ग
सञ्जय़ उवाच:
ततस्तान्साय़कान्सर्वान्द्रोणमुक्तान्सहस्रशः |
२७ क
सञ्जय़ उवाच:
चिच्छेद समरे वीरस्तदद्भुतमिवाभवत् ||
२७ ख
सञ्जय़ उवाच:
छित्त्वा च ताञ्शरान्राजा क्रोधसंरक्तलोचनः |
२८ क
सञ्जय़ उवाच:
शक्तिं जग्राह समरे गिरीणामपि दारणीम् |
२८ ख
सञ्जय़ उवाच:
स्वर्णदण्डां महाघोरामष्टघण्टां भय़ावहाम् ||
२८ ग
सञ्जय़ उवाच:
समुत्क्षिप्य च तां हृष्टो ननाद वलवद्वली |
२९ क
सञ्जय़ उवाच:
नादेन सर्वभूतानि त्रासय़न्निव भारत ||
२९ ख
सञ्जय़ उवाच:
शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संय़ुगे |
३० क
सञ्जय़ उवाच:
स्वस्ति द्रोणाय़ सहसा सर्वभूतान्यथाव्रुवन् ||
३० ख
सञ्जय़ उवाच:
सा राजभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा |
३१ क
सञ्जय़ उवाच:
प्रज्वालय़न्ती गगनं दिशश्च विदिशस्तथा |
३१ ख
सञ्जय़ उवाच:
द्रोणान्तिकमनुप्राप्ता दीप्तास्या पन्नगी यथा ||
३१ ग
सञ्जय़ उवाच:
तामापतन्तीं सहसा प्रेक्ष्य द्रोणो विशां पते |
३२ क
सञ्जय़ उवाच:
प्रादुश्चक्रे ततो व्राह्ममस्त्रमस्त्रविदां वरः ||
३२ ख
सञ्जय़ उवाच:
तदस्त्रं भस्मसात्कृत्वा तां शक्तिं घोरदर्शनाम् |
३३ क
सञ्जय़ उवाच:
जगाम स्यन्दनं तूर्णं पाण्डवस्य यशस्विनः ||
३३ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरो राजा द्रोणास्त्रं तत्समुद्यतम् |
३४ क
सञ्जय़ उवाच:
अशामय़न्महाप्राज्ञो व्रह्मास्त्रेणैव भारत ||
३४ ख
सञ्जय़ उवाच:
विव्याध च रणे द्रोणं पञ्चभिर्नतपर्वभिः |
३५ क
सञ्जय़ उवाच:
क्षुरप्रेण च तीक्ष्णेन चिच्छेदास्य महद्धनुः ||
३५ ख
सञ्जय़ उवाच:
तदपास्य धनुश्छिन्नं द्रोणः क्षत्रिय़मर्दनः |
३६ क
सञ्जय़ उवाच:
गदां चिक्षेप सहसा धर्मपुत्राय़ मारिष ||
३६ ख
सञ्जय़ उवाच:
तामापतन्तीं सहसा गदां दृष्ट्वा युधिष्ठिरः |
३७ क
सञ्जय़ उवाच:
गदामेवाग्रहीत्क्रुद्धश्चिक्षेप च परन्तपः ||
३७ ख
सञ्जय़ उवाच:
ते गदे सहसा मुक्ते समासाद्य परस्परम् |
३८ क
सञ्जय़ उवाच:
सङ्घर्षात्पावकं मुक्त्वा समेय़ातां महीतले ||
३८ ख
सञ्जय़ उवाच:
ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य मारिष |
३९ क
सञ्जय़ उवाच:
चतुर्भिर्निशितैस्तीक्ष्णैर्हय़ाञ्जघ्ने शरोत्तमैः ||
३९ ख
सञ्जय़ उवाच:
धनुश्चैकेन वाणेन चिच्छेदेन्द्रध्वजोपमम् |
४० क
सञ्जय़ उवाच:
केतुमेकेन चिच्छेद पाण्डवं चार्दय़त्त्रिभिः ||
४० ख
सञ्जय़ उवाच:
हताश्वात्तु रथात्तूर्णमवप्लुत्य युधिष्ठिरः |
४१ क
सञ्जय़ उवाच:
तस्थावूर्ध्वभुजो राजा व्याय़ुधो भरतर्षभ ||
४१ ख
सञ्जय़ उवाच:
विरथं तं समालोक्य व्याय़ुधं च विशेषतः |
४२ क
सञ्जय़ उवाच:
द्रोणो व्यमोहय़च्छत्रून्सर्वसैन्यानि चाभिभो ||
४२ ख
सञ्जय़ उवाच:
मुञ्चन्निषुगणांस्तीक्ष्णाँल्लघुहस्तो दृढव्रतः |
४३ क
सञ्जय़ उवाच:
अभिदुद्राव राजानं सिंहो मृगमिवोल्वणः ||
४३ ख
सञ्जय़ उवाच:
तमभिद्रुतमालोक्य द्रोणेनामित्रघातिना |
४४ क
सञ्जय़ उवाच:
हा हेति सहसा शव्दः पाण्डूनां समजाय़त ||
४४ ख
सञ्जय़ उवाच:
हृतो राजा हृतो राजा भारद्वाजेन मारिष |
४५ क
सञ्जय़ उवाच:
इत्यासीत्सुमहाञ्शव्दः पाण्डुसैन्यस्य सर्वतः ||
४५ ख
सञ्जय़ उवाच:
ततस्त्वरितमारुह्य सहदेवरथं नृपः |
४६ क
सञ्जय़ उवाच:
अपाय़ाज्जवनैरश्वैः कुन्तीपुत्रो युधिष्ठिरः ||
४६ ख