सञ्जय़ उवाच:
तथैव सात्यकी राजन्धृष्टद्युम्नश्च पार्षतः |
५० क
सञ्जय़ उवाच:
परिवार्य रणे योधान्ययतुः शिविरं प्रति ||
५० ख
सञ्जय़ उवाच:
एवमेते महाराज तावकाः पाण्डवैः सह |
५१ क
सञ्जय़ उवाच:
पर्यवर्तन्त सहिता निशाकाले परन्तपाः ||
५१ ख
सञ्जय़ उवाच:
ततः स्वशिविरं गत्वा पाण्डवाः कुरवस्तथा |
५२ क
सञ्जय़ उवाच:
न्यविशन्त महाराज पूजय़न्तः परस्परम् ||
५२ ख
सञ्जय़ उवाच:
रक्षां कृत्वात्मनः शूरा न्यस्य गुल्मान्यथाविधि |
५३ क
सञ्जय़ उवाच:
अपनीय़ च शल्यांस्ते स्नात्वा च विविधैर्जलैः ||
५३ ख
सञ्जय़ उवाच:
कृतस्वस्त्ययनाः सर्वे संस्तूय़न्तश्च वन्दिभिः |
५४ क
सञ्जय़ उवाच:
गीतवादित्रशव्देन व्यक्रीडन्त यशस्विनः ||
५४ ख
सञ्जय़ उवाच:
मुहूर्तमिव तत्सर्वमभवत्स्वर्गसंनिभम् |
५५ क
सञ्जय़ उवाच:
न हि युद्धकथां काञ्चित्तत्र चक्रुर्महारथाः ||
५५ ख
सञ्जय़ उवाच:
ते प्रसुप्ते वले तत्र परिश्रान्तजने नृप |
५६ क
सञ्जय़ उवाच:
हस्त्यश्ववहुले राजन्प्रेक्षणीय़े वभूवतुः ||
५६ ख