chevron_left आदि पर्व अध्याय ८२
वैशम्पाय़न उवाच:
स्वर्गतः स तु राजेन्द्रो निवसन्देवसद्मनि |
१ क
वैशम्पाय़न उवाच:
पूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा ||
१ ख
वैशम्पाय़न उवाच:
देवलोकाद्व्रह्मलोकं सञ्चरन्पुण्यकृद्वशी |
२ क
वैशम्पाय़न उवाच:
अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः ||
२ ख
वैशम्पाय़न उवाच:
स कदाचिन्नृपश्रेष्ठो यय़ातिः शक्रमागमत् |
३ क
वैशम्पाय़न उवाच:
कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः ||
३ ख
शक्र उवाच:
यदा स पूरुस्तव रूपेण राज; ञ्जरां गृहीत्वा प्रचचार भूमौ |
४ क
शक्र उवाच:
तदा राज्यं सम्प्रदाय़ैव तस्मै; त्वय़ा किमुक्तः कथय़ेह सत्यम् ||
४ ख
यय़ातिरु उवाच:
गङ्गाय़मुनय़ोर्मध्ये कृत्स्नोऽय़ं विषय़स्तव |
५ क
यय़ातिरु उवाच:
मध्ये पृथिव्यास्त्वं राजा भ्रातरोऽन्त्याधिपास्तव ||
५ ख
यय़ातिरु उवाच:
अक्रोधनः क्रोधनेभ्यो विशिष्ट; स्तथा तितिक्षुरतितिक्षोर्विशिष्टः |
६ क
यय़ातिरु उवाच:
अमानुषेभ्यो मानुषाश्च प्रधाना; विद्वांस्तथैवाविदुषः प्रधानः ||
६ ख
यय़ातिरु उवाच:
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः |
७ क
यय़ातिरु उवाच:
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ||
७ ख
यय़ातिरु उवाच:
नारुन्तुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत |
८ क
यय़ातिरु उवाच:
यय़ास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् ||
८ ख
यय़ातिरु उवाच:
अरुन्तुदं पुरुषं रूक्षवाचं; वाक्कण्टकैर्वितुदन्तं मनुष्यान् |
९ क
यय़ातिरु उवाच:
विद्यादलक्ष्मीकतमं जनानां; मुखे निवद्धां निरृतिं वहन्तम् ||
९ ख
यय़ातिरु उवाच:
सद्भिः पुरस्तादभिपूजितः स्या; त्सद्भिस्तथा पृष्ठतो रक्षितः स्यात् |
१० क
यय़ातिरु उवाच:
सदासतामतिवादांस्तितिक्षे; त्सतां वृत्तं चाददीतार्यवृत्तः ||
१० ख
यय़ातिरु उवाच:
वाक्साय़का वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि |
११ क
यय़ातिरु उवाच:
परस्य वा मर्मसु ये पतन्ति; तान्पण्डितो नावसृजेत्परेषु ||
११ ख
यय़ातिरु उवाच:
न हीदृशं संवननं त्रिषु लोकेषु विद्यते |
१२ क
यय़ातिरु उवाच:
यथा मैत्री च भूतेषु दानं च मधुरा च वाक् ||
१२ ख
यय़ातिरु उवाच:
तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित् |
१३ क
यय़ातिरु उवाच:
पूज्यान्सम्पूजय़ेद्दद्यान्न च याचेत्कदाचन ||
१३ ख