युधिष्ठिर उवाच:
एवमग्राह्यके तस्मिञ्ज्ञातिसम्वन्धिमण्डले |
१ क
युधिष्ठिर उवाच:
मित्रेष्वमित्रेष्वपि च कथं भावो विभाव्यते ||
१ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
२ क
भीष्म उवाच:
वासुदेवस्य संवादं सुरर्षेर्नारदस्य च ||
२ ख
वासुदेव उवाच:
नासुहृत्परमं मन्त्रं नारदार्हति वेदितुम् |
३ क
वासुदेव उवाच:
अपण्डितो वापि सुहृत्पण्डितो वापि नात्मवान् ||
३ ख
वासुदेव उवाच:
स ते सौहृदमास्थाय़ किञ्चिद्वक्ष्यामि नारद |
४ क
वासुदेव उवाच:
कृत्स्नां च वुद्धिं सम्प्रेक्ष्य सम्पृच्छे त्रिदिवङ्गम ||
४ ख
वासुदेव उवाच:
दास्यमैश्वर्यवादेन ज्ञातीनां वै करोम्यहम् |
५ क
वासुदेव उवाच:
अर्धभोक्तास्मि भोगानां वाग्दुरुक्तानि च क्षमे ||
५ ख
वासुदेव उवाच:
अरणीमग्निकामो वा मथ्नाति हृदय़ं मम |
६ क
वासुदेव उवाच:
वाचा दुरुक्तं देवर्षे तन्मे दहति नित्यदा ||
६ ख
वासुदेव उवाच:
वलं सङ्कर्षणे नित्यं सौकुमार्यं पुनर्गदे |
७ क
वासुदेव उवाच:
रूपेण मत्तः प्रद्युम्नः सोऽसहाय़ोऽस्मि नारद ||
७ ख
वासुदेव उवाच:
अन्ये हि सुमहाभागा वलवन्तो दुरासदाः |
८ क
वासुदेव उवाच:
नित्योत्थानेन सम्पन्ना नारदान्धकवृष्णय़ः ||
८ ख
वासुदेव उवाच:
यस्य न स्युर्न वै स स्याद्यस्य स्युः कृच्छ्रमेव तत् |
९ क
वासुदेव उवाच:
द्वाभ्यां निवारितो नित्यं वृणोम्येकतरं न च ||
९ ख
वासुदेव उवाच:
स्यातां यस्याहुकाक्रूरौ किं नु दुःखतरं ततः |
१० क
वासुदेव उवाच:
यस्य वापि न तौ स्यातां किं नु दुःखतरं ततः ||
१० ख
वासुदेव उवाच:
सोऽहं कितवमातेव द्वय़ोरपि महामुने |
११ क
वासुदेव उवाच:
एकस्य जय़माशंसे द्वितीय़स्यापराजय़म् ||
११ ख
वासुदेव उवाच:
ममैवं क्लिश्यमानस्य नारदोभय़तः सदा |
१२ क
वासुदेव उवाच:
वक्तुमर्हसि यच्छ्रेय़ो ज्ञातीनामात्मनस्तथा ||
१२ ख
नारद उवाच:
आपदो द्विविधाः कृष्ण वाह्याश्चाभ्यन्तराश्च ह |
१३ क
नारद उवाच:
प्रादुर्भवन्ति वार्ष्णेय़ स्वकृता यदि वान्यतः ||
१३ ख
नारद उवाच:
सेय़माभ्यन्तरा तुभ्यमापत्कृच्छ्रा स्वकर्मजा |
१४ क
नारद उवाच:
अक्रूरभोजप्रभवाः सर्वे ह्येते तदन्वय़ाः ||
१४ ख
नारद उवाच:
अर्थहेतोर्हि कामाद्वाद्वारा वीभत्सय़ापि वा |
१५ क
नारद उवाच:
आत्मना प्राप्तमैश्वर्यमन्यत्र प्रतिपादितम् ||
१५ ख
नारद उवाच:
कृतमूलमिदानीं तज्जातशव्दं सहाय़वत् |
१६ क
नारद उवाच:
न शक्यं पुनरादातुं वान्तमन्नमिव त्वय़ा ||
१६ ख
नारद उवाच:
वभ्रूग्रसेनय़ो राज्यं नाप्तुं शक्यं कथञ्चन |
१७ क
नारद उवाच:
ज्ञातिभेदभय़ात्कृष्ण त्वय़ा चापि विशेषतः ||
१७ ख
नारद उवाच:
तच्चेत्सिध्येत्प्रय़त्नेन कृत्वा कर्म सुदुष्करम् |
१८ क
नारद उवाच:
महाक्षय़व्ययं वा स्याद्विनाशो वा पुनर्भवेत् ||
१८ ख
नारद उवाच:
अनाय़सेन शस्त्रेण मृदुना हृदय़च्छिदा |
१९ क
नारद उवाच:
जिह्वामुद्धर सर्वेषां परिमृज्यानुमृज्य च ||
१९ ख
वासुदेव उवाच:
अनाय़सं मुने शस्त्रं मृदु विद्यामहं कथम् |
२० क
वासुदेव उवाच:
येनैषामुद्धरे जिह्वां परिमृज्यानुमृज्य च ||
२० ख
नारद उवाच:
शक्त्यान्नदानं सततं तितिक्षा दम आर्जवम् |
२१ क
नारद उवाच:
यथार्हप्रतिपूजा च शस्त्रमेतदनाय़सम् ||
२१ ख
नारद उवाच:
ज्ञातीनां वक्तुकामानां कटूनि च लघूनि च |
२२ क
नारद उवाच:
गिरा त्वं हृदय़ं वाचं शमय़स्व मनांसि च ||
२२ ख
नारद उवाच:
नामहापुरुषः कश्चिन्नानात्मा नासहाय़वान् |
२३ क
नारद उवाच:
महतीं धुरमादत्ते तामुद्यम्योरसा वह ||
२३ ख
नारद उवाच:
सर्व एव गुरुं भारमनड्वान्वहते समे |
२४ क
नारद उवाच:
दुर्गे प्रतीकः सुगवो भारं वहति दुर्वहम् ||
२४ ख
नारद उवाच:
भेदाद्विनाशः सङ्घानां सङ्घमुख्योऽसि केशव |
२५ क
नारद उवाच:
यथा त्वां प्राप्य नोत्सीदेदय़ं सङ्घस्तथा कुरु ||
२५ ख
नारद उवाच:
नान्यत्र वुद्धिक्षान्तिभ्यां नान्यत्रेन्द्रिय़निग्रहात् |
२६ क
नारद उवाच:
नान्यत्र धनसन्त्यागाद्गणः प्राज्ञेऽवतिष्ठते ||
२६ ख
नारद उवाच:
धन्यं यशस्यमाय़ुष्यं स्वपक्षोद्भावनं शुभम् |
२७ क
नारद उवाच:
ज्ञातीनामविनाशः स्याद्यथा कृष्ण तथा कुरु ||
२७ ख
नारद उवाच:
आय़त्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो |
२८ क
नारद उवाच:
षाड्गुण्यस्य विधानेन यात्राय़ानविधौ तथा ||
२८ ख
नारद उवाच:
माधवाः कुकुरा भोजाः सर्वे चान्धकवृष्णय़ः |
२९ क
नारद उवाच:
त्वय़्यासक्ता महावाहो लोका लोकेश्वराश्च ये ||
२९ ख
नारद उवाच:
उपासते हि त्वद्वुद्धिमृषय़श्चापि माधव |
३० क
नारद उवाच:
त्वं गुरुः सर्वभूतानां जानीषे त्वं गतागतम् |
३० ख
नारद उवाच:
त्वामासाद्य यदुश्रेष्ठमेधन्ते ज्ञातिनः सुखम् ||
३० ग