chevron_left उद्योग पर्व अध्याय ८२
वैशम्पाय़न उवाच:
प्रय़ान्तं देवकीपुत्रं परवीररुजो दश |
१ क
वैशम्पाय़न उवाच:
महारथा महावाहुमन्वय़ुः शस्त्रपाणय़ः ||
१ ख
वैशम्पाय़न उवाच:
पदातीनां सहस्रं च सादिनां च परन्तप |
२ क
वैशम्पाय़न उवाच:
भोज्यं च विपुलं राजन्प्रेष्याश्च शतशोऽपरे ||
२ ख
जनमेजय़ उवाच:
कथं प्रय़ातो दाशार्हो महात्मा मधुसूदनः |
३ क
जनमेजय़ उवाच:
कानि वा व्रजतस्तस्य निमित्तानि महौजसः ||
३ ख
वैशम्पाय़न उवाच:
तस्य प्रय़ाणे यान्यासन्नद्भुतानि महात्मनः |
४ क
वैशम्पाय़न उवाच:
तानि मे शृणु दिव्यानि दैवान्यौत्पातिकानि च ||
४ ख
वैशम्पाय़न उवाच:
अनभ्रेऽशनिनिर्घोषः सविद्युत्समजाय़त |
५ क
वैशम्पाय़न उवाच:
अन्वगेव च पर्जन्यः प्रावर्षद्विघने भृशम् ||
५ ख
वैशम्पाय़न उवाच:
प्रत्यगूहुर्महानद्यः प्राङ्मुखाः सिन्धुसत्तमाः |
६ क
वैशम्पाय़न उवाच:
विपरीता दिशः सर्वा न प्राज्ञाय़त किञ्चन ||
६ ख
वैशम्पाय़न उवाच:
प्राज्वलन्नग्नय़ो राजन्पृथिवी समकम्पत |
७ क
वैशम्पाय़न उवाच:
उदपानाश्च कुम्भाश्च प्रासिञ्चञ्शतशो जलम् ||
७ ख
वैशम्पाय़न उवाच:
तमःसंवृतमप्यासीत्सर्वं जगदिदं तदा |
८ क
वैशम्पाय़न उवाच:
न दिशो नादिशो राजन्प्रज्ञाय़न्ते स्म रेणुना ||
८ ख
वैशम्पाय़न उवाच:
प्रादुरासीन्महाञ्शव्दः खे शरीरं न दृश्यते |
९ क
वैशम्पाय़न उवाच:
सर्वेषु राजन्देशेषु तदद्भुतमिवाभवत् ||
९ ख
वैशम्पाय़न उवाच:
प्रामथ्नाद्धास्तिनपुरं वातो दक्षिणपश्चिमः |
१० क
वैशम्पाय़न उवाच:
आरुजन्गणशो वृक्षान्परुषो भीमनिस्वनः ||
१० ख
वैशम्पाय़न उवाच:
यत्र यत्र तु वार्ष्णेय़ो वर्तते पथि भारत |
११ क
वैशम्पाय़न उवाच:
तत्र तत्र सुखो वाय़ुः सर्वं चासीत्प्रदक्षिणम् ||
११ ख
वैशम्पाय़न उवाच:
ववर्ष पुष्पवर्षं च कमलानि च भूरिशः |
१२ क
वैशम्पाय़न उवाच:
समश्च पन्था निर्दुःखो व्यपेतकुशकण्टकः ||
१२ ख
वैशम्पाय़न उवाच:
स गच्छन्व्राह्मणै राजंस्तत्र तत्र महाभुजः |
१३ क
वैशम्पाय़न उवाच:
अर्च्यते मधुपर्कैश्च सुमनोभिर्वसुप्रदः ||
१३ ख
वैशम्पाय़न उवाच:
तं किरन्ति महात्मानं वन्यैः पुष्पैः सुगन्धिभिः |
१४ क
वैशम्पाय़न उवाच:
स्त्रिय़ः पथि समागम्य सर्वभूतहिते रतम् ||
१४ ख
वैशम्पाय़न उवाच:
स शालिभवनं रम्यं सर्वसस्यसमाचितम् |
१५ क
वैशम्पाय़न उवाच:
सुखं परमधर्मिष्ठमत्यगाद्भरतर्षभ ||
१५ ख
वैशम्पाय़न उवाच:
पश्यन्वहुपशून्ग्रामान्रम्यान्हृदय़तोषणान् |
१६ क
वैशम्पाय़न उवाच:
पुराणि च व्यतिक्रामन्राष्ट्राणि विविधानि च ||
१६ ख
वैशम्पाय़न उवाच:
नित्यहृष्टाः सुमनसो भारतैरभिरक्षिताः |
१७ क
वैशम्पाय़न उवाच:
नोद्विग्नाः परचक्राणामनय़ानामकोविदाः ||
१७ ख
वैशम्पाय़न उवाच:
उपप्लव्यादथाय़ान्तं जनाः पुरनिवासिनः |
१८ क
वैशम्पाय़न उवाच:
पथ्यतिष्ठन्त सहिता विष्वक्सेनदिदृक्षय़ा ||
१८ ख
वैशम्पाय़न उवाच:
ते तु सर्वे सुनामानमग्निमिद्धमिव प्रभुम् |
१९ क
वैशम्पाय़न उवाच:
अर्चय़ामासुरर्च्यं तं देशातिथिमुपस्थितम् ||
१९ ख
वैशम्पाय़न उवाच:
वृकस्थलं समासाद्य केशवः परवीरहा |
२० क
वैशम्पाय़न उवाच:
प्रकीर्णरश्मावादित्ये विमले लोहिताय़ति ||
२० ख
वैशम्पाय़न उवाच:
अवतीर्य रथात्तूर्णं कृत्वा शौचं यथाविधि |
२१ क
वैशम्पाय़न उवाच:
रथमोचनमादिश्य सन्ध्यामुपविवेश ह ||
२१ ख
वैशम्पाय़न उवाच:
दारुकोऽपि हय़ान्मुक्त्वा परिचर्य च शास्त्रतः |
२२ क
वैशम्पाय़न उवाच:
मुमोच सर्वं वर्माणि मुक्त्वा चैनानवासृजत् ||
२२ ख
वैशम्पाय़न उवाच:
अभ्यतीत्य तु तत्सर्वमुवाच मधुसूदनः |
२३ क
वैशम्पाय़न उवाच:
युधिष्ठिरस्य कार्यार्थमिह वत्स्यामहे क्षपाम् ||
२३ ख
वैशम्पाय़न उवाच:
तस्य तन्मतमाज्ञाय़ चक्रुरावसथं नराः |
२४ क
वैशम्पाय़न उवाच:
क्षणेन चान्नपानानि गुणवन्ति समार्जय़न् ||
२४ ख
वैशम्पाय़न उवाच:
तस्मिन्ग्रामे प्रधानास्तु य आसन्व्राह्मणा नृप |
२५ क
वैशम्पाय़न उवाच:
आर्याः कुलीना ह्रीमन्तो व्राह्मीं वृत्तिमनुष्ठिताः ||
२५ ख
वैशम्पाय़न उवाच:
तेऽभिगम्य महात्मानं हृषीकेशमरिन्दमम् |
२६ क
वैशम्पाय़न उवाच:
पूजां चक्रुर्यथान्याय़माशीर्मङ्गलसंय़ुताम् ||
२६ ख
वैशम्पाय़न उवाच:
ते पूजय़ित्वा दाशार्हं सर्वलोकेषु पूजितम् |
२७ क
वैशम्पाय़न उवाच:
न्यवेदय़न्त वेश्मानि रत्नवन्ति महात्मने ||
२७ ख
वैशम्पाय़न उवाच:
तान्प्रभुः कृतमित्युक्त्वा सत्कृत्य च यथार्हतः |
२८ क
वैशम्पाय़न उवाच:
अभ्येत्य तेषां वेश्मानि पुनराय़ात्सहैव तैः ||
२८ ख
वैशम्पाय़न उवाच:
सुमृष्टं भोजय़ित्वा च व्राह्मणांस्तत्र केशवः |
२९ क
वैशम्पाय़न उवाच:
भुक्त्वा च सह तैः सर्वैरवसत्तां क्षपां सुखम् ||
२९ ख