chevron_left भीष्म पर्व अध्याय ८२
सञ्जय़ उवाच:
विरथं तं समासाद्य चित्रसेनं मनस्विनम् |
१ क
सञ्जय़ उवाच:
रथमारोपय़ामास विकर्णस्तनय़स्तव ||
१ ख
सञ्जय़ उवाच:
तस्मिंस्तथा वर्तमाने तुमुले सङ्कुले भृशम् |
२ क
सञ्जय़ उवाच:
भीष्मः शान्तनवस्तूर्णं युधिष्ठिरमुपाद्रवत् ||
२ ख
सञ्जय़ उवाच:
ततः सरथनागाश्वाः समकम्पन्त सृञ्जय़ाः |
३ क
सञ्जय़ उवाच:
मृत्योरास्यमनुप्राप्तं मेनिरे च युधिष्ठिरम् ||
३ ख
सञ्जय़ उवाच:
यिधिष्ठिरोऽपि कौरव्यो यमाभ्यां सहितः प्रभुः |
४ क
सञ्जय़ उवाच:
महेष्वासं नरव्याघ्रं भीष्मं शान्तनवं यय़ौ ||
४ ख
सञ्जय़ उवाच:
ततः शरसहस्राणि प्रमुञ्चन्पाण्डवो युधि |
५ क
सञ्जय़ उवाच:
भीष्मं सञ्छादय़ामास यथा मेघो दिवाकरम् ||
५ ख
सञ्जय़ उवाच:
तेन सम्यक्प्रणीतानि शरजालानि भारत |
६ क
सञ्जय़ उवाच:
पतिजग्राह गाङ्गेय़ः शतशोऽथ सहस्रशः ||
६ ख
सञ्जय़ उवाच:
तथैव शरजालानि भीष्मेणास्तानि मारिष |
७ क
सञ्जय़ उवाच:
आकाशे समदृश्यन्त खगमानां व्रजा इव ||
७ ख
सञ्जय़ उवाच:
निमेषार्धाच्च कौन्तेय़ं भीष्मः शान्तनवो युधि |
८ क
सञ्जय़ उवाच:
अदृश्यं समरे चक्रे शरजालेन भागशः ||
८ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरो राजा कौरव्यस्य महात्मनः |
९ क
सञ्जय़ उवाच:
नाराचं प्रेषय़ामास क्रुद्ध आशीविषोपमम् ||
९ ख
सञ्जय़ उवाच:
असम्प्राप्तं ततस्तं तु क्षुरप्रेण महारथः |
१० क
सञ्जय़ उवाच:
चिच्छेद समरे राजन्भीष्मस्तस्य धनुश्च्युतम् ||
१० ख
सञ्जय़ उवाच:
तं तु छित्त्वा रणे भीष्मो नाराचं कालसंमितम् |
११ क
सञ्जय़ उवाच:
निजघ्ने कौरवेन्द्रस्य हय़ान्काञ्चनभूषणान् ||
११ ख
सञ्जय़ उवाच:
हताश्वं तु रथं त्यक्त्वा धर्मपुत्रो युधिष्ठिरः |
१२ क
सञ्जय़ उवाच:
आरुरोह रथं तूर्णं नकुलस्य महात्मनः ||
१२ ख
सञ्जय़ उवाच:
यमावपि सुसङ्क्रुद्धः समासाद्य रणे तदा |
१३ क
सञ्जय़ उवाच:
शरैः सञ्छादय़ामास भीष्मः परपुरञ्जय़ः ||
१३ ख
सञ्जय़ उवाच:
तौ तु दृष्ट्वा महाराज भीष्मवाणप्रपीडितौ |
१४ क
सञ्जय़ उवाच:
जगामाथ परां चिन्तां भीष्मस्य वधकाङ्क्षय़ा ||
१४ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरो वश्यान्राज्ञस्तान्समचोदय़त् |
१५ क
सञ्जय़ उवाच:
भीष्मं शान्तनवं सर्वे निहतेति सुहृद्गणान् ||
१५ ख
सञ्जय़ उवाच:
ततस्ते पार्थिवाः सर्वे श्रुत्वा पार्थस्य भाषितम् |
१६ क
सञ्जय़ उवाच:
महता रथवंशेन परिवव्रुः पितामहम् ||
१६ ख
सञ्जय़ उवाच:
स समन्तात्परिवृतः पिता देवव्रतस्तव |
१७ क
सञ्जय़ उवाच:
चिक्रीद धनुषा राजन्पातय़ानो महारथान् ||
१७ ख
सञ्जय़ उवाच:
तं चरन्तं रणे पार्था ददृशुः कौरवं युधि |
१८ क
सञ्जय़ उवाच:
मृगमध्यं प्रविश्येव यथा सिंहशिशुं वने ||
१८ ख
सञ्जय़ उवाच:
तर्जय़ानं रणे शूरांस्त्रासय़ानं च साय़कैः |
१९ क
सञ्जय़ उवाच:
दृष्ट्वा त्रेसुर्महाराज सिंहं मृगगणा इव ||
१९ ख
सञ्जय़ उवाच:
रणे भरतसिंहस्य ददृशुः क्षत्रिय़ा गतिम् |
२० क
सञ्जय़ उवाच:
अग्नेर्वाय़ुसहाय़स्य यथा कक्षं दिधक्षतः ||
२० ख
सञ्जय़ उवाच:
शिरांसि रथिनां भीष्मः पातय़ामास संय़ुगे |
२१ क
सञ्जय़ उवाच:
तालेभ्य इव पक्वानि फलानि कुशलो नरः ||
२१ ख
सञ्जय़ उवाच:
पतद्भिश्च महाराज शिरोभिर्धरणीतले |
२२ क
सञ्जय़ उवाच:
वभूव तुमुलः शव्दः पततामश्मनामिव ||
२२ ख
सञ्जय़ उवाच:
तस्मिंस्तु तुमुले युद्धे वर्तमाने सुदारुणे |
२३ क
सञ्जय़ उवाच:
सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ||
२३ ख
सञ्जय़ उवाच:
भिन्नेषु तेषु व्यूहेषु क्षत्रिय़ा इतरेतरम् |
२४ क
सञ्जय़ उवाच:
एकमेकं समाहूय़ युद्धाय़ैवोपतस्थिरे ||
२४ ख
सञ्जय़ उवाच:
शिखण्डी तु समासाद्य भरतानां पितामहम् |
२५ क
सञ्जय़ उवाच:
अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाव्रवीत् ||
२५ ख
सञ्जय़ उवाच:
अनादृत्य ततो भीष्मस्तं शिखण्डिनमाहवे |
२६ क
सञ्जय़ उवाच:
प्रय़यौ सृञ्जय़ान्क्रुद्धः स्त्रीत्वं चिन्त्य शिखण्डिनः ||
२६ ख
सञ्जय़ उवाच:
सृञ्जय़ास्तु ततो हृष्टा दृष्ट्वा भीष्मं महारथम् |
२७ क
सञ्जय़ उवाच:
सिंहनादान्वहुविधांश्चक्रुः शङ्खविमिश्रितान् ||
२७ ख
सञ्जय़ उवाच:
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् |
२८ क
सञ्जय़ उवाच:
अपरां दिशमास्थाय़ स्थिते सवितरि प्रभो ||
२८ ख
सञ्जय़ उवाच:
धृष्टद्युम्नोऽथ पाञ्चाल्यः सात्यकिश्च महारथः |
२९ क
सञ्जय़ उवाच:
पीडय़न्तौ भृशं सैन्यं शक्तितोमरवृष्टिभिः |
२९ ख
सञ्जय़ उवाच:
शस्त्रैश्च वहुभी राजञ्जघ्नतुस्तावकान्रणे ||
२९ ग
सञ्जय़ उवाच:
ते हन्यमानाः समरे तावकाः पुरुषर्षभ |
३० क
सञ्जय़ उवाच:
आर्यां युद्धे मतिं कृत्वा न त्यजन्ति स्म संय़ुगम् |
३० ख
सञ्जय़ उवाच:
यथोत्साहं च समरे जघ्नुर्लोकं महारथाः ||
३० ग
सञ्जय़ उवाच:
तत्राक्रन्दो महानासीत्तावकानां महात्मनाम् |
३१ क
सञ्जय़ उवाच:
वध्यतां समरे राजन्पार्षतेन महात्मना ||
३१ ख
सञ्जय़ उवाच:
तं श्रुत्वा निनदं घोरं तावकानां महारथौ |
३२ क
सञ्जय़ उवाच:
विन्दानुविन्दावावन्त्यौ पार्षतं पत्युपस्थितौ ||
३२ ख
सञ्जय़ उवाच:
तौ तस्य तुरगान्हत्वा त्वरमाणौ महारथौ |
३३ क
सञ्जय़ उवाच:
छादय़ामासतुरुभौ शरवर्षेण पार्षतम् ||
३३ ख
सञ्जय़ उवाच:
अवप्लुत्याथ पाञ्चाल्यो रथात्तूर्णं महावलः |
३४ क
सञ्जय़ उवाच:
आरुरोह रथं तूर्णं सात्यकेः सुमहात्मनः ||
३४ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरो राजा महत्या सेनय़ा वृतः |
३५ क
सञ्जय़ उवाच:
आवन्त्यौ समरे क्रुद्धावभ्ययात्स परन्तपौ ||
३५ ख
सञ्जय़ उवाच:
तथैव तव पुत्रोऽपि सर्वोद्योगेन मारिष |
३६ क
सञ्जय़ उवाच:
विन्दानुविन्दावावन्त्यौ परिवार्योपतस्थिवान् ||
३६ ख
सञ्जय़ उवाच:
अर्जुनश्चापि सङ्क्रुद्धः क्षत्रिय़ान्क्षत्रिय़र्षभ |
३७ क
सञ्जय़ उवाच:
अय़ोधय़त सङ्ग्रामे वज्रपाणिरिवासुरान् ||
३७ ख
सञ्जय़ उवाच:
द्रोणश्च समरे क्रुद्धः पुत्रस्य प्रिय़कृत्तव |
३८ क
सञ्जय़ उवाच:
व्यधमत्सर्वपाञ्चालांस्तूलराशिमिवानलः ||
३८ ख
सञ्जय़ उवाच:
दुर्योधनपुरोगास्तु पुत्रास्तव विशां पते |
३९ क
सञ्जय़ उवाच:
परिवार्य रणे भीष्मं युय़ुधुः पाण्डवैः सह ||
३९ ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजा लोहिताय़ति भास्करे |
४० क
सञ्जय़ उवाच:
अव्रवीत्तावकान्सर्वांस्त्वरध्वमिति भारत ||
४० ख
सञ्जय़ उवाच:
युध्यतां तु तथा तेषां कुर्वतां कर्म दुष्करम् |
४१ क
सञ्जय़ उवाच:
अस्तं गिरिमथारूढे नप्रकाशति भास्करे ||
४१ ख
सञ्जय़ उवाच:
प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी |
४२ क
सञ्जय़ उवाच:
गोमाय़ुगणसङ्कीर्णा क्षणेन रजनीमुखे ||
४२ ख
सञ्जय़ उवाच:
शिवाभिरशिवाभिश्च रुवद्भिर्भैरवं रवम् |
४३ क
सञ्जय़ उवाच:
घोरमाय़ोधनं जज्ञे भूतसङ्घसमाकुलम् ||
४३ ख
सञ्जय़ उवाच:
राक्षसाश्च पिशाचाश्च तथान्ये पिशिताशनाः |
४४ क
सञ्जय़ उवाच:
समन्ततो व्यदृश्यन्त शतशोऽथ सहस्रशः ||
४४ ख
सञ्जय़ उवाच:
अर्जुनोऽथ सुशर्मादीन्राज्ञस्तान्सपदानुगान् |
४५ क
सञ्जय़ उवाच:
विजित्य पृतनामध्ये यय़ौ स्वशिविरं प्रति ||
४५ ख
सञ्जय़ उवाच:
युधिष्ठिरोऽपि कौरव्यो भ्रातृभ्यां सहितस्तदा |
४६ क
सञ्जय़ उवाच:
यय़ौ स्वशिविरं राजा निशाय़ां सेनय़ा वृतः ||
४६ ख
सञ्जय़ उवाच:
भीमसेनोऽपि राजेन्द्र दुर्योधनमुखान्रथान् |
४७ क
सञ्जय़ उवाच:
अवजित्य ततः सङ्ख्ये यय़ौ स्वशिविरं प्रति ||
४७ ख
सञ्जय़ उवाच:
दुर्योधनोऽपि नृपतिः परिवार्य महारणे |
४८ क
सञ्जय़ उवाच:
भीष्मं शान्तनवं तूर्णं प्रय़ातः शिविरं प्रति ||
४८ ख
सञ्जय़ उवाच:
द्रोणो द्रौणिः कृपः शल्यः कृतवर्मा च सात्वतः |
४९ क
सञ्जय़ उवाच:
परिवार्य चमूं सर्वां प्रय़युः शिविरं प्रति ||
४९ ख