सञ्जय़ उवाच:
वृहत्क्षत्रमथाय़ान्तं केकय़ं दृढविक्रमम् |
१ क
सञ्जय़ उवाच:
क्षेमधूर्तिर्महाराज विव्याधोरसि मार्गणैः ||
१ ख
सञ्जय़ उवाच:
वृहत्क्षत्रस्तु तं राजा नवत्या नतपर्वणाम् |
२ क
सञ्जय़ उवाच:
आजघ्ने त्वरितो युद्धे द्रोणानीकविभित्सय़ा ||
२ ख
सञ्जय़ उवाच:
क्षेमधूर्तिस्तु सङ्क्रुद्धः केकय़स्य महात्मनः |
३ क
सञ्जय़ उवाच:
धनुश्चिच्छेद भल्लेन पीतेन निशितेन च ||
३ ख
सञ्जय़ उवाच:
अथैनं छिन्नधन्वानं शरेण नतपर्वणा |
४ क
सञ्जय़ उवाच:
विव्याध हृदय़े तूर्णं प्रवरं सर्वधन्विनाम् ||
४ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ वृहत्क्षत्रो हसन्निव |
५ क
सञ्जय़ उवाच:
व्यश्वसूतध्वजं चक्रे क्षेमधूर्तिं महारथम् ||
५ ख
सञ्जय़ उवाच:
ततोऽपरेण भल्लेन पीतेन निशितेन च |
६ क
सञ्जय़ उवाच:
जहार नृपतेः काय़ाच्छिरो ज्वलितकुण्डलम् ||
६ ख
सञ्जय़ उवाच:
तच्छिन्नं सहसा तस्य शिरः कुञ्चितमूर्धजम् |
७ क
सञ्जय़ उवाच:
सकिरीटं महीं प्राप्य वभौ ज्योतिरिवाम्वरात् ||
७ ख
सञ्जय़ उवाच:
तं निहत्य रणे हृष्टो वृहत्क्षत्रो महारथः |
८ क
सञ्जय़ उवाच:
सहसाभ्यपतत्सैन्यं तावकं पार्थकारणात् ||
८ ख
सञ्जय़ उवाच:
धृष्टकेतुमथाय़ान्तं द्रोणहेतोः पराक्रमी |
९ क
सञ्जय़ उवाच:
वीरधन्वा महेष्वासो वारय़ामास भारत ||
९ ख
सञ्जय़ उवाच:
तौ परस्परमासाद्य शरदंष्ट्रौ तरस्विनौ |
१० क
सञ्जय़ उवाच:
शरैरनेकसाहस्रैरन्योन्यमभिजघ्नतुः ||
१० ख
सञ्जय़ उवाच:
तावुभौ नरशार्दूलौ युय़ुधाते परस्परम् |
११ क
सञ्जय़ उवाच:
महावने तीव्रमदौ वारणाविव यूथपौ ||
११ ख
सञ्जय़ उवाच:
गिरिगह्वरमासाद्य शार्दूलाविव रोषितौ |
१२ क
सञ्जय़ उवाच:
युय़ुधाते महावीर्यौ परस्परजिघांसय़ा ||
१२ ख
सञ्जय़ उवाच:
तद्युद्धमासीत्तुमुलं प्रेक्षणीय़ं विशां पते |
१३ क
सञ्जय़ उवाच:
सिद्धचारणसङ्घानां विस्मय़ाद्भुतदर्शनम् ||
१३ ख
सञ्जय़ उवाच:
वीरधन्वा ततः क्रुद्धो धृष्टकेतोः शरासनम् |
१४ क
सञ्जय़ उवाच:
द्विधा चिच्छेद भल्लेन प्रहसन्निव भारत ||
१४ ख
सञ्जय़ उवाच:
तदुत्सृज्य धनुश्छिन्नं चेदिराजो महारथः |
१५ क
सञ्जय़ उवाच:
शक्तिं जग्राह विपुलां रुक्मदण्डामय़स्मय़ीम् ||
१५ ख
सञ्जय़ उवाच:
तां तु शक्तिं महावीर्यां दोर्भ्यामाय़म्य भारत |
१६ क
सञ्जय़ उवाच:
चिक्षेप सहसा यत्तो वीरधन्वरथं प्रति ||
१६ ख
सञ्जय़ उवाच:
स तय़ा वीरघातिन्या शक्त्या त्वभिहतो भृशम् |
१७ क
सञ्जय़ उवाच:
निर्भिन्नहृदय़स्तूर्णं निपपात रथान्महीम् ||
१७ ख
सञ्जय़ उवाच:
तस्मिन्विनिहते शूरे त्रिगर्तानां महारथे |
१८ क
सञ्जय़ उवाच:
वलं तेऽभज्यत विभो पाण्डवेय़ैः समन्ततः ||
१८ ख
सञ्जय़ उवाच:
सहदेवे ततः षष्टिं साय़कान्दुर्मुखोऽक्षिपत् |
१९ क
सञ्जय़ उवाच:
ननाद च महानादं तर्जय़न्पाण्डवं रणे ||
१९ ख
सञ्जय़ उवाच:
मद्रेय़स्तु ततः क्रुद्धो दुर्मुखं दशभिः शरैः |
२० क
सञ्जय़ उवाच:
भ्राता भ्रातरमाय़ान्तं विव्याध प्रहसन्निव ||
२० ख
सञ्जय़ उवाच:
तं रणे रभसं दृष्ट्वा सहदेवं महावलम् |
२१ क
सञ्जय़ उवाच:
दुर्मुखो नवभिर्वाणैस्ताडय़ामास भारत ||
२१ ख
सञ्जय़ उवाच:
दुर्मुखस्य तु भल्लेन छित्त्वा केतुं महावलः |
२२ क
सञ्जय़ उवाच:
जघान चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ||
२२ ख
सञ्जय़ उवाच:
अथापरेण भल्लेन पीतेन निशितेन च |
२३ क
सञ्जय़ उवाच:
चिच्छेद सारथेः काय़ाच्छिरो ज्वलितकुण्डलम् ||
२३ ख
सञ्जय़ उवाच:
क्षुरप्रेण च तीक्ष्णेन कौरव्यस्य महद्धनुः |
२४ क
सञ्जय़ उवाच:
सहदेवो रणे छित्त्वा तं च विव्याध पञ्चभिः ||
२४ ख
सञ्जय़ उवाच:
हताश्वं तु रथं त्यक्त्वा दुर्मुखो विमनास्तदा |
२५ क
सञ्जय़ उवाच:
आरुरोह रथं राजन्निरमित्रस्य भारत ||
२५ ख
सञ्जय़ उवाच:
सहदेवस्ततः क्रुद्धो निरमित्रं महाहवे |
२६ क
सञ्जय़ उवाच:
जघान पृतनामध्ये भल्लेन परवीरहा ||
२६ ख
सञ्जय़ उवाच:
स पपात रथोपस्थान्निरमित्रो जनेश्वरः |
२७ क
सञ्जय़ उवाच:
त्रिगर्तराजस्य सुतो व्यथय़ंस्तव वाहिनीम् ||
२७ ख
सञ्जय़ उवाच:
तं तु हत्वा महावाहुः सहदेवो व्यरोचत |
२८ क
सञ्जय़ उवाच:
यथा दाशरथी रामः खरं हत्वा महावलम् ||
२८ ख
सञ्जय़ उवाच:
हाहाकारो महानासीत्त्रिगर्तानां जनेश्वर |
२९ क
सञ्जय़ उवाच:
राजपुत्रं हतं दृष्ट्वा निरमित्रं महावलम् ||
२९ ख
सञ्जय़ उवाच:
नकुलस्ते सुतं राजन्विकर्णं पृथुलोचनम् |
३० क
सञ्जय़ उवाच:
मुहूर्ताज्जितवान्सङ्ख्ये तदद्भुतमिवाभवत् ||
३० ख
सञ्जय़ उवाच:
सात्यकिं व्याघ्रदत्तस्तु शरैः संनतपर्वभिः |
३१ क
सञ्जय़ उवाच:
चक्रेऽदृश्यं साश्वसूतं सध्वजं पृतनान्तरे ||
३१ ख
सञ्जय़ उवाच:
तान्निवार्य शराञ्शूरः शैनेय़ः कृतहस्तवत् |
३२ क
सञ्जय़ उवाच:
साश्वसूतध्वजं वाणैर्व्याघ्रदत्तमपातय़त् ||
३२ ख
सञ्जय़ उवाच:
कुमारे निहते तस्मिन्मगधस्य सुते प्रभो |
३३ क
सञ्जय़ उवाच:
मागधाः सर्वतो यत्ता युय़ुधानमुपाद्रवन् ||
३३ ख
सञ्जय़ उवाच:
विसृजन्तः शरांश्चैव तोमरांश्च सहस्रशः |
३४ क
सञ्जय़ उवाच:
भिण्डिपालांस्तथा प्रासान्मुद्गरान्मुसलानपि ||
३४ ख
सञ्जय़ उवाच:
अय़ोधय़न्रणे शूराः सात्वतं युद्धदुर्मदम् |
३५ क
सञ्जय़ उवाच:
तांस्तु सर्वान्स वलवान्सात्यक्तिर्युद्धदुर्मदः |
३५ ख
सञ्जय़ उवाच:
नातिकृच्छ्राद्धसन्नेव विजिग्ये पुरुषर्षभ ||
३५ ग
सञ्जय़ उवाच:
मागधान्द्रवतो दृष्ट्वा हतशेषान्समन्ततः |
३६ क
सञ्जय़ उवाच:
वलं तेऽभज्यत विभो युय़ुधानशरार्दितम् ||
३६ ख
सञ्जय़ उवाच:
नाशय़ित्वा रणे सैन्यं त्वदीय़ं माधवोत्तमः |
३७ क
सञ्जय़ उवाच:
विधुन्वानो धनुःश्रेष्ठं व्यभ्राजत महाय़शाः ||
३७ ख
सञ्जय़ उवाच:
भज्यमानं वलं राजन्सात्वतेन महात्मना |
३८ क
सञ्जय़ उवाच:
नाभ्यवर्तत युद्धाय़ त्रासितं दीर्घवाहुना ||
३८ ख
सञ्जय़ उवाच:
ततो द्रोणो भृशं क्रुद्धः सहसोद्वृत्य चक्षुषी |
३९ क
सञ्जय़ उवाच:
सात्यकिं सत्यकर्माणं स्वय़मेवाभिदुद्रुवे ||
३९ ख