मुनिरु उवाच:
भवतैव कृता राजन्भवता परिपालिताः |
४९ क
मुनिरु उवाच:
भवन्तं पर्यवज्ञाय़ जिघांसन्ति भवत्प्रिय़म् ||
४९ ख
मुनिरु उवाच:
उषितं शङ्कमानेन प्रमादं परिरक्षता |
५० क
मुनिरु उवाच:
अन्तःसर्प इवागारे वीरपत्न्या इवालय़े |
५० ख
मुनिरु उवाच:
शीलं जिज्ञासमानेन राज्ञश्च सहजीविना ||
५० ग
मुनिरु उवाच:
कच्चिज्जितेन्द्रिय़ो राजा कच्चिदभ्यन्तरा जिताः |
५१ क
मुनिरु उवाच:
कच्चिदेषां प्रिय़ो राजा कच्चिद्राज्ञः प्रिय़ाः प्रजाः ||
५१ ख
मुनिरु उवाच:
जिज्ञासुरिह सम्प्राप्तस्तवाहं राजसत्तम |
५२ क
मुनिरु उवाच:
तस्य मे रोचसे राजन्क्षुधितस्येव भोजनम् ||
५२ ख
मुनिरु उवाच:
अमात्या मे न रोचन्ते वितृष्णस्य यथोदकम् |
५३ क
मुनिरु उवाच:
भवतोऽर्थकृदित्येव मय़ि दोषो हि तैः कृतः |
५३ ख
मुनिरु उवाच:
विद्यते कारणं नान्यदिति मे नात्र संशय़ः ||
५३ ग
मुनिरु उवाच:
न हि तेषामहं द्रुग्धस्तत्तेषां दोषवद्गतम् |
५४ क
मुनिरु उवाच:
अरेर्हि दुर्हताद्भेय़ं भग्नपृष्ठादिवोरगात् ||
५४ ख
राजो उवाच:
भूय़सा परिवर्हेण सत्कारेण च भूय़सा |
५५ क
राजो उवाच:
पूजितो व्राह्मणश्रेष्ठ भूय़ो वस गृहे मम ||
५५ ख
राजो उवाच:
ये त्वां व्राह्मण नेच्छन्ति न ते वत्स्यन्ति मे गृहे |
५६ क
राजो उवाच:
भवतैव हि तज्ज्ञेय़ं यदिदानीमनन्तरम् ||
५६ ख
राजो उवाच:
यथा स्याद्दुष्कृतो दण्डो यथा च सुकृतं कृतम् |
५७ क
राजो उवाच:
तथा समीक्ष्य भगवञ्श्रेय़से विनिय़ुङ्क्ष्व माम् ||
५७ ख
मुनिरु उवाच:
अदर्शय़न्निमं दोषमेकैकं दुर्वलं कुरु |
५८ क
मुनिरु उवाच:
ततः कारणमाज्ञाय़ पुरुषं पुरुषं जहि ||
५८ ख
मुनिरु उवाच:
एकदोषा हि वहवो मृद्नीय़ुरपि कण्टकान् |
५९ क
मुनिरु उवाच:
मन्त्रभेदभय़ाद्राजंस्तस्मादेतद्व्रवीमि ते ||
५९ ख
मुनिरु उवाच:
वय़ं तु व्राह्मणा नाम मृदुदण्डाः कृपालवः |
६० क
मुनिरु उवाच:
स्वस्ति चेच्छामि भवतः परेषां च यथात्मनः ||
६० ख
मुनिरु उवाच:
राजन्नात्मानमाचक्षे सम्वन्धी भवतो ह्यहम् |
६१ क
मुनिरु उवाच:
मुनिः कालकवृक्षीय़ इत्येवमभिसञ्ज्ञितः ||
६१ ख
मुनिरु उवाच:
पितुः सखा च भवतः संमतः सत्यसङ्गरः |
६२ क
मुनिरु उवाच:
व्यापन्ने भवतो राज्ये राजन्पितरि संस्थिते ||
६२ ख
मुनिरु उवाच:
सर्वकामान्परित्यज्य तपस्तप्तं तदा मय़ा |
६३ क
मुनिरु उवाच:
स्नेहात्त्वां प्रव्रवीम्येतन्मा भूय़ो विभ्रमेदिति ||
६३ ख
मुनिरु उवाच:
उभे दृष्ट्वा दुःखसुखे राज्यं प्राप्य यदृच्छय़ा |
६४ क
मुनिरु उवाच:
राज्येनामात्यसंस्थेन कथं राजन्प्रमाद्यसि ||
६४ ख
भीष्म उवाच:
ततो राजकुले नान्दी सञ्जज्ञे भूय़सी पुनः |
६५ क
भीष्म उवाच:
पुरोहितकुले चैव सम्प्राप्ते व्राह्मणर्षभे ||
६५ ख
भीष्म उवाच:
एकच्छत्रां महीं कृत्वा कौसल्याय़ यशस्विने |
६६ क
भीष्म उवाच:
मुनिः कालकवृक्षीय़ ईजे क्रतुभिरुत्तमैः ||
६६ ख
भीष्म उवाच:
हितं तद्वचनं श्रुत्वा कौसल्योऽन्वशिषन्महीम् |
६७ क
भीष्म उवाच:
तथा च कृतवान्राजा यथोक्तं तेन भारत ||
६७ ख