नारद उवाच:
नेता च त्वमृषीन्यस्मात्तेन तेऽष्टगुणं फलम् ||
९९ ख
नारद उवाच:
रक्षोगणावकीर्णानि तीर्थान्येतानि भारत |
१०० क
नारद उवाच:
न गतिर्विद्यतेऽन्यस्य त्वामृते कुरुनन्दन ||
१०० ख
नारद उवाच:
इदं देवर्षिचरितं सर्वतीर्थार्थसंश्रितम् |
१०१ क
नारद उवाच:
यः पठेत्कल्यमुत्थाय़ सर्वपापैः प्रमुच्यते ||
१०१ ख
नारद उवाच:
ऋषिमुख्याः सदा यत्र वाल्मीकिस्त्वथ काश्यपः |
१०२ क
नारद उवाच:
आत्रेय़स्त्वथ कौण्डिन्यो विश्वामित्रोऽथ गौतमः ||
१०२ ख
नारद उवाच:
असितो देवलश्चैव मार्कण्डेय़ोऽथ गालवः |
१०३ क
नारद उवाच:
भरद्वाजो वसिष्ठश्च मुनिरुद्दालकस्तथा ||
१०३ ख
नारद उवाच:
शौनकः सह पुत्रेण व्यासश्च जपतां वरः |
१०४ क
नारद उवाच:
दुर्वासाश्च मुनिश्रेष्ठो गालवश्च महातपाः ||
१०४ ख
नारद उवाच:
एते ऋषिवराः सर्वे त्वत्प्रतीक्षास्तपोधनाः |
१०५ क
नारद उवाच:
एभिः सह महाराज तीर्थान्येतान्यनुव्रज ||
१०५ ख
नारद उवाच:
एष वै लोमशो नाम देवर्षिरमितद्युतिः |
१०६ क
नारद उवाच:
समेष्यति त्वय़ा चैव तेन सार्धमनुव्रज ||
१०६ ख
नारद उवाच:
मय़ा च सह धर्मज्ञ तीर्थान्येतान्यनुव्रज |
१०७ क
नारद उवाच:
प्राप्स्यसे महतीं कीर्तिं यथा राजा महाभिषः ||
१०७ ख
नारद उवाच:
यथा यय़ातिर्धर्मात्मा यथा राजा पुरूरवाः |
१०८ क
नारद उवाच:
तथा त्वं कुरुशार्दूल स्वेन धर्मेण शोभसे ||
१०८ ख
नारद उवाच:
यथा भगीरथो राजा यथा रामश्च विश्रुतः |
१०९ क
नारद उवाच:
तथा त्वं सर्वराजभ्यो भ्राजसे रश्मिवानिव ||
१०९ ख
नारद उवाच:
यथा मनुर्यथेक्ष्वाकुर्यथा पूरुर्महाय़शाः |
११० क
नारद उवाच:
यथा वैन्यो महातेजास्तथा त्वमपि विश्रुतः ||
११० ख
नारद उवाच:
यथा च वृत्रहा सर्वान्सपत्नान्निर्दहत्पुरा |
१११ क
नारद उवाच:
तथा शत्रुक्षय़ं कृत्वा प्रजास्त्वं पालय़िष्यसि ||
१११ ख
नारद उवाच:
स्वधर्मविजितामुर्वीं प्राप्य राजीवलोचन |
११२ क
नारद उवाच:
ख्यातिं यास्यसि धर्मेण कार्तवीर्यार्जुनो यथा ||
११२ ख
वैशम्पाय़न उवाच:
एवमाश्वास्य राजानं नारदो भगवानृषिः |
११३ क
वैशम्पाय़न उवाच:
अनुज्ञाप्य महात्मानं तत्रैवान्तरधीय़त ||
११३ ख
वैशम्पाय़न उवाच:
युधिष्ठिरोऽपि धर्मात्मा तमेवार्थं विचिन्तय़न् |
११४ क
वैशम्पाय़न उवाच:
तीर्थय़ात्राश्रय़ं पुण्यमृषीणां प्रत्यवेदय़त् ||
११४ ख