chevron_left आदि पर्व अध्याय ८३
इन्द्र उवाच:
सर्वाणि कर्माणि समाप्य राज; न्गृहान्परित्यज्य वनं गतोऽसि |
१ क
इन्द्र उवाच:
तत्त्वां पृच्छामि नहुषस्य पुत्र; केनासि तुल्यस्तपसा यय़ाते ||
१ ख
यय़ातिरु उवाच:
नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु |
२ क
यय़ातिरु उवाच:
आत्मनस्तपसा तुल्यं कञ्चित्पश्यामि वासव ||
२ ख
इन्द्र उवाच:
यदावमंस्थाः सदृशः श्रेय़सश्च; पापीय़सश्चाविदितप्रभावः |
३ क
इन्द्र उवाच:
तस्माल्लोका अन्तवन्तस्तवेमे; क्षीणे पुण्ये पतितास्यद्य राजन् ||
३ ख
यय़ातिरु उवाच:
सुरर्षिगन्धर्वनरावमाना; त्क्षय़ं गता मे यदि शक्र लोकाः |
४ क
यय़ातिरु उवाच:
इच्छेय़ं वै सुरलोकाद्विहीनः; सतां मध्ये पतितुं देवराज ||
४ ख
इन्द्र उवाच:
सतां सकाशे पतितासि राजं; श्च्युतः प्रतिष्ठां यत्र लव्धासि भूय़ः |
५ क
इन्द्र उवाच:
एवं विदित्वा तु पुनर्ययाते; न तेऽवमान्याः सदृशः श्रेय़सश्च ||
५ ख
वैशम्पाय़न उवाच:
ततः प्रहाय़ामरराजजुष्टा; न्पुण्याँल्लोकान्पतमानं यय़ातिम् |
६ क
वैशम्पाय़न उवाच:
सम्प्रेक्ष्य राजर्षिवरोऽष्टकस्त; मुवाच सद्धर्मविधानगोप्ता ||
६ ख
वैशम्पाय़न उवाच:
कस्त्वं युवा वासवतुल्यरूपः; स्वतेजसा दीप्यमानो यथाग्निः |
७ क
वैशम्पाय़न उवाच:
पतस्युदीर्णाम्वुधरान्धकारा; त्खात्खेचराणां प्रवरो यथार्कः ||
७ ख
वैशम्पाय़न उवाच:
दृष्ट्वा च त्वां सूर्यपथात्पतन्तं; वैश्वानरार्कद्युतिमप्रमेय़म् |
८ क
वैशम्पाय़न उवाच:
किं नु स्विदेतत्पततीति सर्वे; वितर्कय़न्तः परिमोहिताः स्मः ||
८ ख
वैशम्पाय़न उवाच:
दृष्ट्वा च त्वां विष्ठितं देवमार्गे; शक्रार्कविष्णुप्रतिमप्रभावम् |
९ क
वैशम्पाय़न उवाच:
अभ्युद्गतास्त्वां वय़मद्य सर्वे; तत्त्वं पाते तव जिज्ञासमानाः ||
९ ख
वैशम्पाय़न उवाच:
न चापि त्वां धृष्णुमः प्रष्टुमग्रे; न च त्वमस्मान्पृच्छसि ये वय़ं स्मः |
१० क
वैशम्पाय़न उवाच:
तत्त्वां पृच्छामः स्पृहणीय़रूपं; कस्य त्वं वा किंनिमित्तं त्वमागाः ||
१० ख
वैशम्पाय़न उवाच:
भय़ं तु ते व्येतु विषादमोहौ; त्यजाशु देवेन्द्रसमानरूप |
११ क
वैशम्पाय़न उवाच:
त्वां वर्तमानं हि सतां सकाशे; नालं प्रसोढुं वलहापि शक्रः ||
११ ख
वैशम्पाय़न उवाच:
सन्तः प्रतिष्ठा हि सुखच्युतानां; सतां सदैवामरराजकल्प |
१२ क
वैशम्पाय़न उवाच:
ते सङ्गताः स्थावरजङ्गमेशाः; प्रतिष्ठितस्त्वं सदृशेषु सत्सु ||
१२ ख
वैशम्पाय़न उवाच:
प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः |
१३ क
वैशम्पाय़न उवाच:
प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः ||
१३ ख