chevron_left शान्ति पर्व अध्याय ८३
भीष्म उवाच:
एषा प्रथमतो वृत्तिर्द्वितीय़ां शृणु भारत |
१ क
भीष्म उवाच:
यः कश्चिज्जनय़ेदर्थं राज्ञा रक्ष्यः स मानवः ||
१ ख
भीष्म उवाच:
ह्रिय़माणममात्येन भृतो वा यदि वाभृतः |
२ क
भीष्म उवाच:
यो राजकोशं नश्यन्तमाचक्षीत युधिष्ठिर ||
२ ख
भीष्म उवाच:
श्रोतव्यं तस्य च रहो रक्ष्यश्चामात्यतो भवेत् |
३ क
भीष्म उवाच:
अमात्या ह्युपहन्तारं भूय़िष्ठं घ्नन्ति भारत ||
३ ख
भीष्म उवाच:
राजकोशस्य गोप्तारं राजकोशविलोपकाः |
४ क
भीष्म उवाच:
समेत्य सर्वे वाधन्ते स विनश्यत्यरक्षितः ||
४ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
५ क
भीष्म उवाच:
मुनिः कालकवृक्षीय़ः कौसल्यं यदुवाच ह ||
५ ख
भीष्म उवाच:
कोसलानामाधिपत्यं सम्प्राप्ते क्षेमदर्शिनि |
६ क
भीष्म उवाच:
मुनिः कालकवृक्षीय़ आजगामेति नः श्रुतम् ||
६ ख
भीष्म उवाच:
स काकं पञ्जरे वद्ध्वा विषय़ं क्षेमदर्शिनः |
७ क
भीष्म उवाच:
पूर्वं पर्यचरद्युक्तः प्रवृत्त्यर्थी पुनः पुनः ||
७ ख
भीष्म उवाच:
अधीय़े वाय़सीं विद्यां शंसन्ति मम वाय़साः |
८ क
भीष्म उवाच:
अनागतमतीतं च यच्च सम्प्रति वर्तते ||
८ ख
भीष्म उवाच:
इति राष्ट्रे परिपतन्वहुशः पुरुषैः सह |
९ क
भीष्म उवाच:
सर्वेषां राजय़ुक्तानां दुष्कृतं परिपृष्टवान् ||
९ ख
भीष्म उवाच:
स वुद्ध्वा तस्य राष्ट्रस्य व्यवसाय़ं हि सर्वशः |
१० क
भीष्म उवाच:
राजय़ुक्तापचारांश्च सर्वान्वुद्ध्वा ततस्ततः ||
१० ख
भीष्म उवाच:
तमेव काकमादाय़ राजानं द्रष्टुमागमत् |
११ क
भीष्म उवाच:
सर्वज्ञोऽस्मीति वचनं व्रुवाणः संशितव्रतः ||
११ ख
भीष्म उवाच:
स स्म कौसल्यमागम्य राजामात्यमलङ्कृतम् |
१२ क
भीष्म उवाच:
प्राह काकस्य वचनादमुत्रेदं त्वय़ा कृतम् ||
१२ ख
भीष्म उवाच:
असौ चासौ च जानीते राजकोशस्त्वय़ा हृतः |
१३ क
भीष्म उवाच:
एवमाख्याति काकोऽय़ं तच्छीघ्रमनुगम्यताम् ||
१३ ख
भीष्म उवाच:
तथान्यानपि स प्राह राजकोशहरान्सदा |
१४ क
भीष्म उवाच:
न चास्य वचनं किञ्चिदकृतं श्रूय़ते क्वचित् ||
१४ ख
भीष्म उवाच:
तेन विप्रकृताः सर्वे राजय़ुक्ताः कुरूद्वह |
१५ क
भीष्म उवाच:
तमतिक्रम्य सुप्तस्य निशि काकमपोथय़न् ||
१५ ख
भीष्म उवाच:
वाय़सं तु विनिर्भिन्नं दृष्ट्वा वाणेन पञ्जरे |
१६ क
भीष्म उवाच:
पूर्वाह्णे व्राह्मणो वाक्यं क्षेमदर्शिनमव्रवीत् ||
१६ ख
भीष्म उवाच:
राजंस्त्वामभय़ं याचे प्रभुं प्राणधनेश्वरम् |
१७ क
भीष्म उवाच:
अनुज्ञातस्त्वय़ा व्रूय़ां वचनं त्वत्पुरो हितम् ||
१७ ख
भीष्म उवाच:
मित्रार्थमभिसन्तप्तो भक्त्या सर्वात्मना गतः |
१८ क
भीष्म उवाच:
अय़ं तवार्थं हरते यो व्रूय़ादक्षमान्वितः ||
१८ ख
भीष्म उवाच:
सम्वुवोधय़िषुर्मित्रं सदश्वमिव सारथिः |
१९ क
भीष्म उवाच:
अतिमन्युप्रसक्तो हि प्रसज्य हितकारणम् ||
१९ ख
भीष्म उवाच:
तथाविधस्य सुहृदः क्षन्तव्यं संविजानता |
२० क
भीष्म उवाच:
ऐश्वर्यमिच्छता नित्यं पुरुषेण वुभूषता ||
२० ख
भीष्म उवाच:
तं राजा प्रत्युवाचेदं यन्मा किञ्चिद्भवान्वदेत् |
२१ क
भीष्म उवाच:
कस्मादहं न क्षमेय़माकाङ्क्षन्नात्मनो हितम् ||
२१ ख
भीष्म उवाच:
व्राह्मण प्रतिजानीहि प्रव्रूहि यदि चेच्छसि |
२२ क
भीष्म उवाच:
करिष्यामि हि ते वाक्यं यद्यन्मां विप्र वक्ष्यसि ||
२२ ख
मुनिरु उवाच:
ज्ञात्वा नय़ानपाय़ांश्च भृत्यतस्ते भय़ानि च |
२३ क
मुनिरु उवाच:
भक्त्या वृत्तिं समाख्यातुं भवतोऽन्तिकमागमम् ||
२३ ख
मुनिरु उवाच:
प्रागेवोक्तश्च दोषोऽय़माचार्यैर्नृपसेविनाम् |
२४ क
मुनिरु उवाच:
अगतीकगतिर्ह्येषा या राज्ञा सह जीविका ||
२४ ख
मुनिरु उवाच:
आशीविषैश्च तस्याहुः सङ्गतं यस्य राजभिः |
२५ क
मुनिरु उवाच:
वहुमित्राश्च राजानो वह्वमित्रास्तथैव च ||
२५ ख
मुनिरु उवाच:
तेभ्यः सर्वेभ्य एवाहुर्भय़ं राजोपसेविनाम् |
२६ क
मुनिरु उवाच:
अथैषामेकतो राजन्मुहूर्तादेव भीर्भवेत् ||
२६ ख
मुनिरु उवाच:
नैकान्तेनाप्रमादो हि कर्तुं शक्यो महीपतौ |
२७ क
मुनिरु उवाच:
न तु प्रमादः कर्तव्यः कथञ्चिद्भूतिमिच्छता ||
२७ ख
मुनिरु उवाच:
प्रमादाद्धि स्खलेद्राजा स्खलिते नास्ति जीवितम् |
२८ क
मुनिरु उवाच:
अग्निं दीप्तमिवासीदेद्राजानमुपशिक्षितः ||
२८ ख
मुनिरु उवाच:
आशीविषमिव क्रुद्धं प्रभुं प्राणधनेश्वरम् |
२९ क
मुनिरु उवाच:
यत्नेनोपचरेन्नित्यं नाहमस्मीति मानवः ||
२९ ख
मुनिरु उवाच:
दुर्व्याहृताच्छङ्कमानो दुष्कृताद्दुरधिष्ठितात् |
३० क
मुनिरु उवाच:
दुरासिताद्दुर्व्रजितादिङ्गितादङ्गचेष्टितात् ||
३० ख
मुनिरु उवाच:
देवतेव हि सर्वार्थान्कुर्याद्राजा प्रसादितः |
३१ क
मुनिरु उवाच:
वैश्वानर इव क्रुद्धः समूलमपि निर्दहेत् |
३१ ख
मुनिरु उवाच:
इति राजन्मय़ः प्राह वर्तते च तथैव तत् ||
३१ ग
मुनिरु उवाच:
अथ भूय़ांसमेवार्थं करिष्यामि पुनः पुनः |
३२ क
मुनिरु उवाच:
ददात्यस्मद्विधोऽमात्यो वुद्धिसाहाय़्यमापदि ||
३२ ख
मुनिरु उवाच:
वाय़सश्चैव मे राजन्नन्तकाय़ाभिसंहितः |
३३ क
मुनिरु उवाच:
न च मेऽत्र भवान्गर्ह्यो न च येषां भवान्प्रिय़ः |
३३ ख
मुनिरु उवाच:
हिताहितांस्तु वुध्येथा मा परोक्षमतिर्भव ||
३३ ग
मुनिरु उवाच:
ये त्वादानपरा एव वसन्ति भवतो गृहे |
३४ क
मुनिरु उवाच:
अभूतिकामा भूतानां तादृशैर्मेऽभिसंहितम् ||
३४ ख
मुनिरु उवाच:
ये वा भवद्विनाशेन राज्यमिच्छन्त्यनन्तरम् |
३५ क
मुनिरु उवाच:
अन्तरैरभिसन्धाय़ राजन्सिध्यन्ति नान्यथा ||
३५ ख
मुनिरु उवाच:
तेषामहं भय़ाद्राजन्गमिष्याम्यन्यमाश्रमम् |
३६ क
मुनिरु उवाच:
तैर्हि मे सन्धितो वाणः काके निपतितः प्रभो ||
३६ ख
मुनिरु उवाच:
छद्मना मम काकश्च गमितो यमसादनम् |
३७ क
मुनिरु उवाच:
दृष्टं ह्येतन्मय़ा राजंस्तपोदीर्घेण चक्षुषा ||
३७ ख
मुनिरु उवाच:
वहुनक्रझषग्राहां तिमिङ्गिलगणाय़ुताम् |
३८ क
मुनिरु उवाच:
काकेन वडिशेनेमामतार्षं त्वामहं नदीम् ||
३८ ख
मुनिरु उवाच:
स्थाण्वश्मकण्टकवतीं व्याघ्रसिंहगजाकुलाम् |
३९ क
मुनिरु उवाच:
दुरासदां दुष्प्रवेशां गुहां हैमवतीमिव ||
३९ ख
मुनिरु उवाच:
अग्निना तामसं दुर्गं नौभिराप्यं च गम्यते |
४० क
मुनिरु उवाच:
राजदुर्गावतरणे नोपाय़ं पण्डिता विदुः ||
४० ख
मुनिरु उवाच:
गहनं भवतो राज्यमन्धकारतमोवृतम् |
४१ क
मुनिरु उवाच:
नेह विश्वसितुं शक्यं भवतापि कुतो मय़ा ||
४१ ख
मुनिरु उवाच:
अतो नाय़ं शुभो वासस्तुल्ये सदसती इह |
४२ क
मुनिरु उवाच:
वधो ह्येवात्र सुकृते दुष्कृते न च संशय़ः ||
४२ ख
मुनिरु उवाच:
न्याय़तो दुष्कृते घातः सुकृते स्यात्कथं वधः |
४३ क
मुनिरु उवाच:
नेह युक्तं चिरं स्थातुं जवेनातो व्रजेद्वुधः ||
४३ ख
मुनिरु उवाच:
सीता नाम नदी राजन्प्लवो यस्यां निमज्जति |
४४ क
मुनिरु उवाच:
तथोपमामिमां मन्ये वागुरां सर्वघातिनीम् ||
४४ ख
मुनिरु उवाच:
मधुप्रपातो हि भवान्भोजनं विषसंय़ुतम् |
४५ क
मुनिरु उवाच:
असतामिव ते भावो वर्तते न सतामिव |
४५ ख
मुनिरु उवाच:
आशीविषैः परिवृतः कूपस्त्वमिव पार्थिव ||
४५ ग
मुनिरु उवाच:
दुर्गतीर्था वृहत्कूला करीरीवेत्रसंय़ुता |
४६ क
मुनिरु उवाच:
नदी मधुरपानीय़ा यथा राजंस्तथा भवान् |
४६ ख
मुनिरु उवाच:
श्वगृध्रगोमाय़ुय़ुतो राजहंससमो ह्यसि ||
४६ ग
मुनिरु उवाच:
यथाश्रित्य महावृक्षं कक्षः संवर्धते महान् |
४७ क
मुनिरु उवाच:
ततस्तं संवृणोत्येव तमतीत्य च वर्धते ||
४७ ख
मुनिरु उवाच:
तेनैवोपेन्धनो नूनं दावो दहति दारुणः |
४८ क
मुनिरु उवाच:
तथोपमा ह्यमात्यास्ते राजंस्तान्परिशोधय़ ||
४८ ख