पुलस्त्य उवाच:
अथ सन्ध्यां समासाद्य संवेद्यं तीर्थमुत्तमम् |
१ क
पुलस्त्य उवाच:
उपस्पृश्य नरो विद्वान्भवेन्नास्त्यत्र संशय़ः ||
१ ख
पुलस्त्य उवाच:
रामस्य च प्रसादेन तीर्थं राजन्कृतं पुरा |
२ क
पुलस्त्य उवाच:
तल्लोहित्यं समासाद्य विन्द्याद्वहु सुवर्णकम् ||
२ ख
पुलस्त्य उवाच:
करतोय़ां समासाद्य त्रिरात्रोपोषितो नरः |
३ क
पुलस्त्य उवाच:
अश्वमेधमवाप्नोति कृते पैतामहे विधौ ||
३ ख
पुलस्त्य उवाच:
गङ्गाय़ास्त्वथ राजेन्द्र सागरस्य च सङ्गमे |
४ क
पुलस्त्य उवाच:
अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ||
४ ख
पुलस्त्य उवाच:
गङ्गाय़ास्त्वपरं द्वीपं प्राप्य यः स्नाति भारत |
५ क
पुलस्त्य उवाच:
त्रिरात्रोपोषितो राजन्सर्वकामानवाप्नुय़ात् ||
५ ख
पुलस्त्य उवाच:
ततो वैतरणीं गत्वा नदीं पापप्रमोचनीम् |
६ क
पुलस्त्य उवाच:
विरजं तीर्थमासाद्य विराजति यथा शशी ||
६ ख
पुलस्त्य उवाच:
प्रभवेच्च कुले पुण्ये सर्वपापं व्यपोहति |
७ क
पुलस्त्य उवाच:
गोसहस्रफलं लव्ध्वा पुनाति च कुलं नरः ||
७ ख
पुलस्त्य उवाच:
शोणस्य ज्योतिरथ्याश्च सङ्गमे निवसञ्शुचिः |
८ क
पुलस्त्य उवाच:
तर्पय़ित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ||
८ ख
पुलस्त्य उवाच:
शोणस्य नर्मदाय़ाश्च प्रभवे कुरुनन्दन |
९ क
पुलस्त्य उवाच:
वंशगुल्म उपस्पृश्य वाजिमेधफलं लभेत् ||
९ ख
पुलस्त्य उवाच:
ऋषभं तीर्थमासाद्य कोशलाय़ां नराधिप |
१० क
पुलस्त्य उवाच:
वाजपेय़मवाप्नोति त्रिरात्रोपोषितो नरः ||
१० ख
पुलस्त्य उवाच:
कोशलाय़ां समासाद्य कालतीर्थ उपस्पृशेत् |
११ क
पुलस्त्य उवाच:
वृशभैकादशफलं लभते नात्र संशय़ः ||
११ ख
पुलस्त्य उवाच:
पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः |
१२ क
पुलस्त्य उवाच:
गोसहस्रफलं विन्द्यात्कुलं चैव समुद्धरेत् ||
१२ ख
पुलस्त्य उवाच:
ततो वदरिकातीर्थे स्नात्वा प्रय़तमानसः |
१३ क
पुलस्त्य उवाच:
दीर्घमाय़ुरवाप्नोति स्वर्गलोकं च गच्छति ||
१३ ख
पुलस्त्य उवाच:
ततो महेन्द्रमासाद्य जामदग्न्यनिषेवितम् |
१४ क
पुलस्त्य उवाच:
रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् ||
१४ ख
पुलस्त्य उवाच:
मतङ्गस्य तु केदारस्तत्रैव कुरुनन्दन |
१५ क
पुलस्त्य उवाच:
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ||
१५ ख
पुलस्त्य उवाच:
श्रीपर्वतं समासाद्य नदीतीर उपस्पृशेत् |
१६ क
पुलस्त्य उवाच:
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ||
१६ ख
पुलस्त्य उवाच:
श्रीपर्वते महादेवो देव्या सह महाद्युतिः |
१७ क
पुलस्त्य उवाच:
न्यवसत्परमप्रीतो व्रह्मा च त्रिदशैर्वृतः ||
१७ ख
पुलस्त्य उवाच:
तत्र देवह्रदे स्नात्वा शुचिः प्रय़तमानसः |
१८ क
पुलस्त्य उवाच:
अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति ||
१८ ख
पुलस्त्य उवाच:
ऋषभं पर्वतं गत्वा पाण्ड्येषु सुरपूजितम् |
१९ क
पुलस्त्य उवाच:
वाजपेय़मवाप्नोति नाकपृष्ठे च मोदते ||
१९ ख
पुलस्त्य उवाच:
ततो गच्छेत कावेरीं वृतामप्सरसां गणैः |
२० क
पुलस्त्य उवाच:
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ||
२० ख
पुलस्त्य उवाच:
ततस्तीरे समुद्रस्य कन्यातीर्थ उपस्पृशेत् |
२१ क
पुलस्त्य उवाच:
तत्रोपस्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते ||
२१ ख
पुलस्त्य उवाच:
अथ गोकर्णमासाद्य त्रिषु लोकेषु विश्रुतम् |
२२ क
पुलस्त्य उवाच:
समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतम् ||
२२ ख
पुलस्त्य उवाच:
यत्र व्रह्मादय़ो देवा ऋषय़श्च तपोधनाः |
२३ क
पुलस्त्य उवाच:
भूतय़क्षपिशाचाश्च किंनराः समहोरगाः ||
२३ ख
पुलस्त्य उवाच:
सिद्धचारणगन्धर्वा मानुषाः पन्नगास्तथा |
२४ क
पुलस्त्य उवाच:
सरितः सागराः शैला उपासन्त उमापतिम् ||
२४ ख
पुलस्त्य उवाच:
तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः |
२५ क
पुलस्त्य उवाच:
दशाश्वमेधमाप्नोति गाणपत्यं च विन्दति |
२५ ख
पुलस्त्य उवाच:
उष्य द्वादशरात्रं तु कृतात्मा भवते नरः ||
२५ ग
पुलस्त्य उवाच:
तत एव तु गाय़त्र्याः स्थानं त्रैलोक्यविश्रुतम् |
२६ क
पुलस्त्य उवाच:
त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत् ||
२६ ख
पुलस्त्य उवाच:
निदर्शनं च प्रत्यक्षं व्राह्मणानां नराधिप |
२७ क
पुलस्त्य उवाच:
गाय़त्रीं पठते यस्तु योनिसङ्करजस्तथा |
२७ ख
पुलस्त्य उवाच:
गाथा वा गीतिका वापि तस्य सम्पद्यते नृप ||
२७ ग
पुलस्त्य उवाच:
संवर्तस्य तु विप्रर्षेर्वापीमासाद्य दुर्लभाम् |
२८ क
पुलस्त्य उवाच:
रूपस्य भागी भवति सुभगश्चैव जाय़ते ||
२८ ख
पुलस्त्य उवाच:
ततो वेण्णां समासाद्य तर्पय़ेत्पितृदेवताः |
२९ क
पुलस्त्य उवाच:
मय़ूरहंससंय़ुक्तं विमानं लभते नरः ||
२९ ख
पुलस्त्य उवाच:
ततो गोदावरीं प्राप्य नित्यं सिद्धनिषेविताम् |
३० क
पुलस्त्य उवाच:
गवामय़मवाप्नोति वासुकेर्लोकमाप्नुय़ात् ||
३० ख
पुलस्त्य उवाच:
वेण्णाय़ाः सङ्गमे स्नात्वा वाजपेय़फलं लभेत् |
३१ क
पुलस्त्य उवाच:
वरदासङ्गमे स्नात्वा गोसहस्रफलं लभेत् ||
३१ ख
पुलस्त्य उवाच:
व्रह्मस्थानं समासाद्य त्रिरात्रमुषितो नरः |
३२ क
पुलस्त्य उवाच:
गोसहस्रफलं विन्देत्स्वर्गलोकं च गच्छति ||
३२ ख
पुलस्त्य उवाच:
कुशप्लवनमासाद्य व्रह्मचारी समाहितः |
३३ क
पुलस्त्य उवाच:
त्रिरात्रमुषितः स्नात्वा अश्वमेधफलं लभेत् ||
३३ ख
पुलस्त्य उवाच:
ततो देवह्रदे रम्ये कृष्णवेण्णाजलोद्भवे |
३४ क
पुलस्त्य उवाच:
जातिमात्रह्रदे चैव तथा कन्याश्रमे नृप ||
३४ ख
पुलस्त्य उवाच:
यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः |
३५ क
पुलस्त्य उवाच:
अग्निष्टोमशतं विन्देद्गमनादेव भारत ||
३५ ख
पुलस्त्य उवाच:
सर्वदेवह्रदे स्नात्वा गोसहस्रफलं लभेत् |
३६ क
पुलस्त्य उवाच:
जातिमात्रह्रदे स्नात्वा भवेज्जातिस्मरो नरः ||
३६ ख
पुलस्त्य उवाच:
ततोऽवाप्य महापुण्यां पय़ोष्णीं सरितां वराम् |
३७ क
पुलस्त्य उवाच:
पितृदेवार्चनरतो गोसहस्रफलं लभेत् ||
३७ ख
पुलस्त्य उवाच:
दण्डकारण्यमासाद्य महाराज उपस्पृशेत् |
३८ क
पुलस्त्य उवाच:
गोसहस्रफलं तत्र स्नातमात्रस्य भारत ||
३८ ख
पुलस्त्य उवाच:
शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनः |
३९ क
पुलस्त्य उवाच:
न दुर्गतिमवाप्नोति पुनाति च कुलं नरः ||
३९ ख
पुलस्त्य उवाच:
ततः शूर्पारकं गच्छेज्जामदग्न्यनिषेवितम् |
४० क
पुलस्त्य उवाच:
रामतीर्थे नरः स्नात्वा विन्द्याद्वहु सुवर्णकम् ||
४० ख
पुलस्त्य उवाच:
सप्तगोदावरे स्नात्वा निय़तो निय़ताशनः |
४१ क
पुलस्त्य उवाच:
महत्पुण्यमवाप्नोति देवलोकं च गच्छति ||
४१ ख
पुलस्त्य उवाच:
ततो देवपथं गच्छेन्निय़तो निय़ताशनः |
४२ क
पुलस्त्य उवाच:
देवसत्रस्य यत्पुण्यं तदवाप्नोति मानवः ||
४२ ख
पुलस्त्य उवाच:
तुङ्गकारण्यमासाद्य व्रह्मचारी जितेन्द्रिय़ः |
४३ क
पुलस्त्य उवाच:
वेदानध्यापय़त्तत्र ऋषिः सारस्वतः पुरा ||
४३ ख
पुलस्त्य उवाच:
तत्र वेदान्प्रनष्टांस्तु मुनेरङ्गिरसः सुतः |
४४ क
पुलस्त्य उवाच:
उपविष्टो महर्षीणामुत्तरीय़ेषु भारत ||
४४ ख
पुलस्त्य उवाच:
ओङ्कारेण यथान्याय़ं सम्यगुच्चारितेन च |
४५ क
पुलस्त्य उवाच:
येन यत्पूर्वमभ्यस्तं तत्तस्य समुपस्थितम् ||
४५ ख
पुलस्त्य उवाच:
ऋषय़स्तत्र देवाश्च वरुणोऽग्निः प्रजापतिः |
४६ क
पुलस्त्य उवाच:
हरिर्नाराय़णो देवो महादेवस्तथैव च ||
४६ ख
पुलस्त्य उवाच:
पितामहश्च भगवान्देवैः सह महाद्युतिः |
४७ क
पुलस्त्य उवाच:
भृगुं निय़ोजय़ामास याजनार्थे महाद्युतिम् ||
४७ ख
पुलस्त्य उवाच:
ततः स चक्रे भगवानृषीणां विधिवत्तदा |
४८ क
पुलस्त्य उवाच:
सर्वेषां पुनराधानं विधिदृष्टेन कर्मणा ||
४८ ख
पुलस्त्य उवाच:
आज्यभागेन वै तत्र तर्पितास्तु यथाविधि |
४९ क
पुलस्त्य उवाच:
देवास्त्रिभुवणं याता ऋषय़श्च यथासुखम् ||
४९ ख