सञ्जय़ उवाच:
परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः |
१ क
सञ्जय़ उवाच:
कुरवः पाण्डवाश्चैव पुनर्युद्धाय़ निर्ययुः ||
१ ख
सञ्जय़ उवाच:
ततः शव्दो महानासीत्सेनय़ोरुभय़ोरपि |
२ क
सञ्जय़ उवाच:
निर्गच्छमानय़ोः सङ्ख्ये सागरप्रतिमो महान् ||
२ ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजा चित्रसेनो विविंशतिः |
३ क
सञ्जय़ उवाच:
भीष्मश्च रथिनां श्रेष्ठो भारद्वाजश्च वै द्विजः ||
३ ख
सञ्जय़ उवाच:
एकीभूताः सुसंय़त्ताः कौरवाणां महाचमूः |
४ क
सञ्जय़ उवाच:
व्यूहाय़ विदधू राजन्पाण्डवान्प्रति दंशिताः ||
४ ख
सञ्जय़ उवाच:
भीष्मः कृत्वा महाव्यूहं पिता तव विशां पते |
५ क
सञ्जय़ उवाच:
सागरप्रतिमं घोरं वाहनोर्मितरङ्गिणम् ||
५ ख
सञ्जय़ उवाच:
अग्रतः सर्वसैन्यानां भीष्मः शान्तनवो यय़ौ |
६ क
सञ्जय़ उवाच:
मालवैर्दाक्षिणात्यैश्च आवन्त्यैश्च समन्वितः ||
६ ख
सञ्जय़ उवाच:
ततोऽनन्तरमेवासीद्भारद्वाजः प्रतापवान् |
७ क
सञ्जय़ उवाच:
पुलिन्दैः पारदैश्चैव तथा क्षुद्रकमालवैः ||
७ ख
सञ्जय़ उवाच:
द्रोणादनन्तरं यत्तो भगदत्तः प्रतापवान् |
८ क
सञ्जय़ उवाच:
मागधैश्च कलिङ्गैश्च पिशाचैश्च विशां पते ||
८ ख
सञ्जय़ उवाच:
प्राग्ज्योतिषादनु नृपः कौसल्योऽथ वृहद्वलः |
९ क
सञ्जय़ उवाच:
मेकलैस्त्रैपुरैश्चैव चिच्छिलैश्च समन्वितः ||
९ ख
सञ्जय़ उवाच:
वृहद्वलात्ततः शूरस्त्रिगर्तः प्रस्थलाधिपः |
१० क
सञ्जय़ उवाच:
काम्वोजैर्वहुभिः सार्धं यवनैश्च सहस्रशः ||
१० ख
सञ्जय़ उवाच:
द्रौणिस्तु रभसः शूरस्त्रिगर्तादनु भारत |
११ क
सञ्जय़ उवाच:
प्रय़यौ सिंहनादेन नादय़ानो धरातलम् ||
११ ख
सञ्जय़ उवाच:
तथा सर्वेण सैन्येन राजा दुर्योधनस्तदा |
१२ क
सञ्जय़ उवाच:
द्रौणेरनन्तरं प्राय़ात्सोदर्यैः परिवारितः ||
१२ ख
सञ्जय़ उवाच:
दुर्योधनादनु कृपस्ततः शारद्वतो यय़ौ |
१३ क
सञ्जय़ उवाच:
एवमेष महाव्यूहः प्रय़यौ सागरोपमः ||
१३ ख
सञ्जय़ उवाच:
रेजुस्तत्र पताकाश्च श्वेतच्छत्राणि चाभिभो |
१४ क
सञ्जय़ उवाच:
अङ्गदान्यथ चित्राणि महार्हाणि धनूंषि च ||
१४ ख
सञ्जय़ उवाच:
तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः |
१५ क
सञ्जय़ उवाच:
युधिष्ठिरोऽव्रवीत्तूर्णं पार्षतं पृतनापतिम् ||
१५ ख
सञ्जय़ उवाच:
पश्य व्यूहं महेष्वास निर्मितं सागरोपमम् |
१६ क
सञ्जय़ उवाच:
प्रतिव्यूहं त्वमपि हि कुरु पार्षत माचिरम् ||
१६ ख
सञ्जय़ उवाच:
ततः स पार्षतः शूरो व्यूहं चक्रे सुदारुणम् |
१७ क
सञ्जय़ उवाच:
शृङ्गाटकं महाराज परव्यूहविनाशनम् ||
१७ ख
सञ्जय़ उवाच:
शृङ्गेभ्यो भीमसेनश्च सात्यकिश्च महारथः |
१८ क
सञ्जय़ उवाच:
रथैरनेकसाहस्रैस्तथा हय़पदातिभिः ||
१८ ख
सञ्जय़ उवाच:
नाभ्यामभून्नरश्रेष्ठः श्वेताश्वो वानरध्वजः |
१९ क
सञ्जय़ उवाच:
मध्ये युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ ||
१९ ख
सञ्जय़ उवाच:
अथेतरे महेष्वासाः सहसैन्या नराधिपाः |
२० क
सञ्जय़ उवाच:
व्यूहं तं पूरय़ामासुर्व्यूहशास्त्रविशारदाः ||
२० ख
सञ्जय़ उवाच:
अभिमन्युस्ततः पश्चाद्विराटश्च महारथः |
२१ क
सञ्जय़ उवाच:
द्रौपदेय़ाश्च संहृष्टा राक्षसश्च घटोत्कचः ||
२१ ख
सञ्जय़ उवाच:
एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः |
२२ क
सञ्जय़ उवाच:
अतिष्ठन्समरे शूरा योद्धुकामा जय़ैषिणः ||
२२ ख
सञ्जय़ उवाच:
भेरीशव्दाश्च तुमुला विमिश्राः शङ्खनिस्वनैः |
२३ क
सञ्जय़ उवाच:
क्ष्वेडितास्फोटितोत्क्रुष्टैः सुभीमाः सर्वतोदिशम् ||
२३ ख
सञ्जय़ उवाच:
ततः शूराः समासाद्य समरे ते परस्परम् |
२४ क
सञ्जय़ उवाच:
नेत्रैरनिमिषै राजन्नवैक्षन्त प्रकोपिताः ||
२४ ख
सञ्जय़ उवाच:
मनोभिस्ते मनुष्येन्द्र पूर्वं योधाः परस्परम् |
२५ क
सञ्जय़ उवाच:
युद्धाय़ समवर्तन्त समाहूय़ेतरेतरम् ||
२५ ख
सञ्जय़ उवाच:
ततः प्रववृते युद्धं घोररूपं भय़ावहम् |
२६ क
सञ्जय़ उवाच:
तावकानां परेषां च निघ्नतामितरेतरम् ||
२६ ख
सञ्जय़ उवाच:
नाराचा निशिताः सङ्ख्ये सम्पतन्ति स्म भारत |
२७ क
सञ्जय़ उवाच:
व्यात्तानना भय़करा उरगा इव सङ्घशः ||
२७ ख
सञ्जय़ उवाच:
निष्पेतुर्विमलाः शक्त्यस्तैलधौताः सुतेजनाः |
२८ क
सञ्जय़ उवाच:
अम्वुदेभ्यो यथा राजन्भ्राजमानाः शतह्रदाः ||
२८ ख
सञ्जय़ उवाच:
गदाश्च विमलैः पट्टैः पिनद्धाः स्वर्णभूषिताः |
२९ क
सञ्जय़ उवाच:
पतन्त्यस्तत्र दृश्यन्ते गिरिशृङ्गोपमाः शुभाः |
२९ ख
सञ्जय़ उवाच:
निस्त्रिंशाश्च व्यराजन्त विमलाम्वरसंनिभाः ||
२९ ग
सञ्जय़ उवाच:
आर्षभाणि च चर्माणि शतचन्द्राणि भारत |
३० क
सञ्जय़ उवाच:
अशोभन्त रणे राजन्पतमानानि सर्वशः ||
३० ख
सञ्जय़ उवाच:
तेऽन्योन्यं समरे सेने युध्यमाने नराधिप |
३१ क
सञ्जय़ उवाच:
अशोभेतां यथा दैत्यदेवसेने समुद्यते |
३१ ख
सञ्जय़ उवाच:
अभ्यद्रवन्त समरे तेऽन्योन्यं वै समन्ततः ||
३१ ग
सञ्जय़ उवाच:
रथास्तु रथिभिस्तूर्णं प्रेषिताः परमाहवे |
३२ क
सञ्जय़ उवाच:
युगैर्युगानि संश्लिष्य युय़ुधुः पार्थिवर्षभाः ||
३२ ख
सञ्जय़ उवाच:
दन्तिनां युध्यमानानां सङ्घर्षात्पावकोऽभवत् |
३३ क
सञ्जय़ उवाच:
दन्तेषु भरतश्रेष्ठ सधूमः सर्वतोदिशम् ||
३३ ख
सञ्जय़ उवाच:
प्रासैरभिहताः केचिद्गजय़ोधाः समन्ततः |
३४ क
सञ्जय़ उवाच:
पतमानाः स्म दृश्यन्ते गिरिशृङ्गान्नगा इव ||
३४ ख
सञ्जय़ उवाच:
पादाताश्चाप्यदृश्यन्त निघ्नन्तो हि परस्परम् |
३५ क
सञ्जय़ उवाच:
चित्ररूपधराः शूरा नखरप्रासय़ोधिनः ||
३५ ख
सञ्जय़ उवाच:
अन्योन्यं ते समासाद्य कुरुपाण्डवसैनिकाः |
३६ क
सञ्जय़ उवाच:
शस्त्रैर्नानाविधैर्घोरै रणे निन्युर्यमक्षय़म् ||
३६ ख
सञ्जय़ उवाच:
ततः शान्तनवो भीष्मो रथघोषेण नादय़न् |
३७ क
सञ्जय़ उवाच:
अभ्यागमद्रणे पाण्डून्धनुःशव्देन मोहय़न् ||
३७ ख
सञ्जय़ उवाच:
पाण्डवानां रथाश्चापि नदन्तो भैरवस्वनम् |
३८ क
सञ्जय़ उवाच:
अभ्यद्रवन्त संय़त्ता धृष्टद्युम्नपुरोगमाः ||
३८ ख
सञ्जय़ उवाच:
ततः प्रववृते युद्धं तव तेषां च भारत |
३९ क
सञ्जय़ उवाच:
नराश्वरथनागानां व्यतिषक्तं परस्परम् ||
३९ ख