सञ्जय़ उवाच:
द्रौपदेय़ान्महेष्वासान्सौमदत्तिर्महाय़शाः |
१ क
सञ्जय़ उवाच:
एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ||
१ ख
सञ्जय़ उवाच:
ते पीडिता भृशं तेन रौद्रेण सहसा विभो |
२ क
सञ्जय़ उवाच:
प्रमूढा नैव विविदुर्मृधे कृत्यं स्म किञ्चन ||
२ ख
सञ्जय़ उवाच:
नाकुलिस्तु शतानीकः सौमदत्तिं नरर्षभम् |
३ क
सञ्जय़ उवाच:
द्वाभ्यां विद्ध्वानदद्धृष्टः शराभ्यां शत्रुतापनः ||
३ ख
सञ्जय़ उवाच:
तथेतरे रणे यत्तास्त्रिभिस्त्रिभिरजिह्मगैः |
४ क
सञ्जय़ उवाच:
विव्यधुः समरे तूर्णं सौमदत्तिममर्षणम् ||
४ ख
सञ्जय़ उवाच:
स तान्प्रति महाराज चिक्षिपे पञ्च साय़कान् |
५ क
सञ्जय़ उवाच:
एकैकं हृदि चाजघ्ने एकैकेन महाय़शाः ||
५ ख
सञ्जय़ उवाच:
ततस्ते भ्रातरः पञ्च शरैर्विद्धा महात्मना |
६ क
सञ्जय़ उवाच:
परिवार्य रथैर्वीरं विव्यधुः साय़कैर्भृशम् ||
६ ख
सञ्जय़ उवाच:
आर्जुनिस्तु हय़ांस्तस्य चतुर्भिर्निशितैः शरैः |
७ क
सञ्जय़ उवाच:
प्रेषय़ामास सङ्क्रुद्धो यमस्य सदनं प्रति ||
७ ख
सञ्जय़ उवाच:
भैमसेनिर्धनुश्छित्त्वा सौमदत्तेर्महात्मनः |
८ क
सञ्जय़ उवाच:
ननाद वलवन्नादं विव्याध च शितैः शरैः ||
८ ख
सञ्जय़ उवाच:
यौधिष्ठिरो ध्वजं तस्य छित्त्वा भूमावपातय़त् |
९ क
सञ्जय़ उवाच:
नाकुलिश्चाश्वय़न्तारं रथनीडादपाहरत् ||
९ ख
सञ्जय़ उवाच:
साहदेविस्तु तं ज्ञात्वा भ्रातृभिर्विमुखीकृतम् |
१० क
सञ्जय़ उवाच:
क्षुरप्रेण शिरो राजन्निचकर्त महामनाः ||
१० ख
सञ्जय़ उवाच:
तच्छिरो न्यपतद्भूमौ तपनीय़विभूषितम् |
११ क
सञ्जय़ उवाच:
भ्राजय़न्तं रणोद्देशं वालसूर्यसमप्रभम् ||
११ ख
सञ्जय़ उवाच:
सौमदत्तेः शिरो दृष्ट्वा निपतत्तन्महात्मनः |
१२ क
सञ्जय़ उवाच:
वित्रस्तास्तावका राजन्प्रदुद्रुवुरनेकधा ||
१२ ख
सञ्जय़ उवाच:
अलम्वुसस्तु समरे भीमसेनं महावलम् |
१३ क
सञ्जय़ उवाच:
योधय़ामास सङ्क्रुद्धो लक्ष्मणं रावणिर्यथा ||
१३ ख
सञ्जय़ उवाच:
सम्प्रय़ुद्धौ रणे दृष्ट्वा तावुभौ नरराक्षसौ |
१४ क
सञ्जय़ उवाच:
विस्मय़ः सर्वभूतानां प्रहर्षश्चाभवत्तदा ||
१४ ख
सञ्जय़ उवाच:
आर्ष्यशृङ्गिं ततो भीमो नवभिर्निशितैः शरैः |
१५ क
सञ्जय़ उवाच:
विव्याध प्रहसन्राजन्राक्षसेन्द्रममर्षणम् ||
१५ ख
सञ्जय़ उवाच:
तद्रक्षः समरे विद्धं कृत्वा नादं भय़ावहम् |
१६ क
सञ्जय़ उवाच:
अभ्यद्रवत्ततो भीमं ये च तस्य पदानुगाः ||
१६ ख
सञ्जय़ उवाच:
स भीमं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः |
१७ क
सञ्जय़ उवाच:
भीमानुगाञ्जघानाशु रथांस्त्रिंशदरिन्दमः |
१७ ख
सञ्जय़ उवाच:
पुनश्चतुःशतान्हत्वा भीमं विव्याध पत्रिणा ||
१७ ग
सञ्जय़ उवाच:
सोऽतिविद्धस्तदा भीमो राक्षसेन महावलः |
१८ क
सञ्जय़ उवाच:
निषसाद रथोपस्थे मूर्छय़ाभिपरिप्लुतः ||
१८ ख
सञ्जय़ उवाच:
प्रतिलभ्य ततः सञ्ज्ञां मारुतिः क्रोधमूर्छितः |
१९ क
सञ्जय़ उवाच:
विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम् |
१९ ख
सञ्जय़ उवाच:
अलम्वुसं शरैस्तीक्ष्णैरर्दय़ामास सर्वतः ||
१९ ग
सञ्जय़ उवाच:
स विद्धो वहुभिर्वाणैर्नीलाञ्जनचय़ोपमः |
२० क
सञ्जय़ उवाच:
शुशुभे सर्वतो राजन्प्रदीप्त इव किंशुकः ||
२० ख
सञ्जय़ उवाच:
स वध्यमानः समरे भीमचापच्युतैः शरैः |
२१ क
सञ्जय़ उवाच:
स्मरन्भ्रातृवधं चैव पाण्डवेन महात्मना ||
२१ ख
सञ्जय़ उवाच:
घोरं रूपमथो कृत्वा भीमसेनमभाषत |
२२ क
सञ्जय़ उवाच:
तिष्ठेदानीं रणे पार्थ पश्य मेऽद्य पराक्रमम् ||
२२ ख
सञ्जय़ उवाच:
वको नाम सुदुर्वुद्धे राक्षसप्रवरो वली |
२३ क
सञ्जय़ उवाच:
परोक्षं मम तद्वृत्तं यद्भ्राता मे हतस्त्वय़ा ||
२३ ख
सञ्जय़ उवाच:
एवमुक्त्वा ततो भीममन्तर्धानगतस्तदा |
२४ क
सञ्जय़ उवाच:
महाता शरवर्षेण भृशं तं समवाकिरत् ||
२४ ख
सञ्जय़ उवाच:
भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा |
२५ क
सञ्जय़ उवाच:
आकाशं पूरय़ामास शरैः संनतपर्वभिः ||
२५ ख
सञ्जय़ उवाच:
स वध्यमानो भीमेन निमेषाद्रथमास्थितः |
२६ क
सञ्जय़ उवाच:
जगाम धरणीं क्षुद्रः खं चैव सहसागमत् ||
२६ ख
सञ्जय़ उवाच:
उच्चावचानि रूपाणि चकार सुवहूनि च |
२७ क
सञ्जय़ उवाच:
उच्चावचास्तथा वाचो व्याजहार समन्ततः ||
२७ ख
सञ्जय़ उवाच:
तेन पाण्डवसैन्यानां मृदिता युधि वारणाः |
२८ क
सञ्जय़ उवाच:
हय़ाश्च वहवो राजन्पत्तय़श्च तथा पुनः |
२८ ख
सञ्जय़ उवाच:
रथेभ्यो रथिनः पेतुस्तस्य नुन्नाः स्म साय़कैः ||
२८ ग
सञ्जय़ उवाच:
शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् |
२९ क
सञ्जय़ उवाच:
छत्रहंसां कर्दमिनीं वाहुपन्नगसङ्कुलाम् ||
२९ ख
सञ्जय़ उवाच:
नदीं प्रवर्तय़ामास रक्षोगणसमाकुलाम् |
३० क
सञ्जय़ उवाच:
वहन्तीं वहुधा राजंश्चेदिपाञ्चालसृञ्जय़ान् ||
३० ख
सञ्जय़ उवाच:
तं तथा समरे राजन्विचरन्तमभीतवत् |
३१ क
सञ्जय़ उवाच:
पाण्डवा भृशसंविग्नाः प्रापश्यंस्तत्स्य विक्रमम् ||
३१ ख
सञ्जय़ उवाच:
तावकानां तु सैन्यानां प्रहर्षः समजाय़त |
३२ क
सञ्जय़ उवाच:
वादित्रनिनदश्चोग्रः सुमहाँल्लोमहर्षणः ||
३२ ख
सञ्जय़ उवाच:
तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः |
३३ क
सञ्जय़ उवाच:
नामृष्यत यथा नागस्तलशव्दं समीरितम् ||
३३ ख
सञ्जय़ उवाच:
ततः क्रोधाभिताम्राक्षो निर्दहन्निव पावकः |
३४ क
सञ्जय़ उवाच:
सन्दधे त्वाष्ट्रमस्त्रं स स्वय़ं त्वष्टेव मारिष ||
३४ ख
सञ्जय़ उवाच:
ततः शरसहस्राणि प्रादुरासन्समन्ततः |
३५ क
सञ्जय़ उवाच:
तैः शरैस्तव सैन्यस्य विद्रावः सुमहानभूत् ||
३५ ख
सञ्जय़ उवाच:
तदस्त्रं प्रेषितं तेन भीमसेनेन संय़ुगे |
३६ क
सञ्जय़ उवाच:
राक्षसस्य महामाय़ां हत्वा राक्षसमार्दय़त् ||
३६ ख
सञ्जय़ उवाच:
स वध्यमानो वहुधा भीमसेनेन राक्षसः |
३७ क
सञ्जय़ उवाच:
सन्त्यज्य संय़ुगे भीमं द्रोणानीकमुपाद्रवत् ||
३७ ख
सञ्जय़ उवाच:
तस्मिंस्तु निर्जिते राजन्राक्षसेन्द्रे महात्मना |
३८ क
सञ्जय़ उवाच:
अनादय़न्सिंहनादैः पाण्डवाः सर्वतोदिशम् ||
३८ ख
सञ्जय़ उवाच:
अपूजय़न्मारुतिं च संहृष्टास्ते महावलम् |
३९ क
सञ्जय़ उवाच:
प्रह्रादं समरे जित्वा यथा शक्रं मरुद्गणाः ||
३९ ख