भीष्म उवाच:
धर्मार्थकामज्ञमुपेत्य पृच्छे; द्युक्तो गुरुं व्राह्मणमुत्तमार्थम् |
५१ क
भीष्म उवाच:
निष्ठा कृता तेन यदा सह स्या; त्तं तत्र मार्गं प्रणय़ेदसक्तम् ||
५१ ख
भीष्म उवाच:
एवं सदा मन्त्रय़ितव्यमाहु; र्ये मन्त्रतत्त्वार्थविनिश्चय़ज्ञाः |
५२ क
भीष्म उवाच:
तस्मात्त्वमेवं प्रणय़ेः सदैव; मन्त्रं प्रजासङ्ग्रहणे समर्थम् ||
५२ ख
भीष्म उवाच:
न वामनाः कुव्जकृशा न खञ्जा; नान्धा जडाः स्त्री न नपुंसकं च |
५३ क
भीष्म उवाच:
न चात्र तिर्यङ्न पुरो न पश्चा; न्नोर्ध्वं न चाधः प्रचरेत कश्चित् ||
५३ ख
भीष्म उवाच:
आरुह्य वाताय़नमेव शून्यं; स्थलं प्रकाशं कुशकाशहीनम् |
५४ क
भीष्म उवाच:
वागङ्गदोषान्परिहृत्य मन्त्रं; संमन्त्रय़ेत्कार्यमहीनकालम् ||
५४ ख