यय़ातिरु उवाच:
अहं यय़ातिर्नहुषस्य पुत्रः; पूरोः पिता सर्वभूतावमानात् |
१ क
यय़ातिरु उवाच:
प्रभ्रंशितः सुरसिद्धर्षिलोका; त्परिच्युतः प्रपताम्यल्पपुण्यः ||
१ ख
यय़ातिरु उवाच:
अहं हि पूर्वो वय़सा भवद्भ्य; स्तेनाभिवादं भवतां न प्रय़ुञ्जे |
२ क
यय़ातिरु उवाच:
यो विद्यया तपसा जन्मना वा; वृद्धः स पूज्यो भवति द्विजानाम् ||
२ ख
अष्टक उवाच:
अवादीश्चेद्वय़सा यः स वृद्ध; इति राजन्नाभ्यवदः कथञ्चित् |
३ क
अष्टक उवाच:
यो वै विद्वान्वय़सा सन्स्म वृद्धः; स एव पूज्यो भवति द्विजानाम् ||
३ ख
यय़ातिरु उवाच:
प्रतिकूलं कर्मणां पापमाहु; स्तद्वर्ततेऽप्रवणे पापलोक्यम् |
४ क
यय़ातिरु उवाच:
सन्तोऽसतां नानुवर्तन्ति चैत; द्यथा आत्मैषामनुकूलवादी ||
४ ख
यय़ातिरु उवाच:
अभूद्धनं मे विपुलं महद्वै; विचेष्टमानो नाधिगन्ता तदस्मि |
५ क
यय़ातिरु उवाच:
एवं प्रधार्यात्महिते निविष्टो; यो वर्तते स विजानाति जीवन् ||
५ ख
यय़ातिरु उवाच:
नानाभावा वहवो जीवलोके; दैवाधीना नष्टचेष्टाधिकाराः |
६ क
यय़ातिरु उवाच:
तत्तत्प्राप्य न विहन्येत धीरो; दिष्टं वलीय़ इति मत्वात्मवुद्ध्या ||
६ ख
यय़ातिरु उवाच:
सुखं हि जन्तुर्यदि वापि दुःखं; दैवाधीनं विन्दति नात्मशक्त्या |
७ क
यय़ातिरु उवाच:
तस्माद्दिष्टं वलवन्मन्यमानो; न सञ्ज्वरेन्नापि हृष्येत्कदाचित् ||
७ ख
यय़ातिरु उवाच:
दुःखे न तप्येन्न सुखेन हृष्ये; त्समेन वर्तेत सदैव धीरः |
८ क
यय़ातिरु उवाच:
दिष्टं वलीय़ इति मन्यमानो; न सञ्ज्वरेन्नापि हृष्येत्कदाचित् ||
८ ख
यय़ातिरु उवाच:
भय़े न मुह्याम्यष्टकाहं कदा चि; त्सन्तापो मे मानसो नास्ति कश्चित् |
९ क
यय़ातिरु उवाच:
धाता यथा मां विदधाति लोके; ध्रुवं तथाहं भवितेति मत्वा ||
९ ख
यय़ातिरु उवाच:
संस्वेदजा अण्डजा उद्भिदाश्च; सरीसृपाः कृमय़ोऽथाप्सु मत्स्याः |
१० क
यय़ातिरु उवाच:
तथाश्मानस्तृणकाष्ठं च सर्वं; दिष्टक्षय़े स्वां प्रकृतिं भजन्ते ||
१० ख
यय़ातिरु उवाच:
अनित्यतां सुखदुःखस्य वुद्ध्वा; कस्मात्सन्तापमष्टकाहं भजेय़म् |
११ क
यय़ातिरु उवाच:
किं कुर्यां वै किं च कृत्वा न तप्ये; तस्मात्सन्तापं वर्जय़ाम्यप्रमत्तः ||
११ ख
अष्टक उवाच:
ये ये लोकाः पार्थिवेन्द्र प्रधाना; स्त्वय़ा भुक्ता यं च कालं यथा च |
१२ क
अष्टक उवाच:
तन्मे राजन्व्रूहि सर्वं यथाव; त्क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान् ||
१२ ख
यय़ातिरु उवाच:
राजाहमासमिह सार्वभौम; स्ततो लोकान्महतो अजय़ं वै |
१३ क
यय़ातिरु उवाच:
तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ||
१३ ख
यय़ातिरु उवाच:
ततः पुरीं पुरुहूतस्य रम्यां; सहस्रद्वारां शतय़ोजनाय़ताम् |
१४ क
यय़ातिरु उवाच:
अध्यावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ||
१४ ख
यय़ातिरु उवाच:
ततो दिव्यमजरं प्राप्य लोकं; प्रजापतेर्लोकपतेर्दुरापम् |
१५ क
यय़ातिरु उवाच:
तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ||
१५ ख
यय़ातिरु उवाच:
देवस्य देवस्य निवेशने च; विजित्य लोकानवसं यथेष्टम् |
१६ क
यय़ातिरु उवाच:
सम्पूज्यमानस्त्रिदशैः समस्तै; स्तुल्यप्रभावद्युतिरीश्वराणाम् ||
१६ ख
यय़ातिरु उवाच:
तथावसं नन्दने कामरूपी; संवत्सराणामय़ुतं शतानाम् |
१७ क
यय़ातिरु उवाच:
सहाप्सरोभिर्विहरन्पुण्यगन्धा; न्पश्यन्नगान्पुष्पितांश्चारुरूपान् ||
१७ ख
यय़ातिरु उवाच:
तत्रस्थं मां देवसुखेषु सक्तं; कालेऽतीते महति ततोऽतिमात्रम् |
१८ क
यय़ातिरु उवाच:
दूतो देवानामव्रवीदुग्ररूपो; ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण ||
१८ ख
यय़ातिरु उवाच:
एतावन्मे विदितं राजसिंह; ततो भ्रष्टोऽहं नन्दनात्क्षीणपुण्यः |
१९ क
यय़ातिरु उवाच:
वाचोऽश्रौषं चान्तरिक्षे सुराणा; मनुक्रोशाच्छोचतां मानवेन्द्र ||
१९ ख
यय़ातिरु उवाच:
अहो कष्टं क्षीणपुण्यो यय़ातिः; पतत्यसौ पुण्यकृत्पुण्यकीर्तिः |
२० क
यय़ातिरु उवाच:
तानव्रुवं पतमानस्ततोऽहं; सतां मध्ये निपतेय़ं कथं नु ||
२० ख
यय़ातिरु उवाच:
तैराख्याता भवतां यज्ञभूमिः; समीक्ष्य चैनां त्वरितमुपागतोऽस्मि |
२१ क
यय़ातिरु उवाच:
हविर्गन्धं देशिकं यज्ञभूमे; र्धूमापाङ्गं प्रतिगृह्य प्रतीतः ||
२१ ख