वैशम्पाय़न उवाच:
भ्रातॄणां मतमाज्ञाय़ नारदस्य च धीमतः |
१ क
वैशम्पाय़न उवाच:
पितामहसमं धौम्यं प्राह राजा युधिष्ठिरः ||
१ ख
वैशम्पाय़न उवाच:
मय़ा स पुरुषव्याघ्रो जिष्णुः सत्यपराक्रमः |
२ क
वैशम्पाय़न उवाच:
अस्त्रहेतोर्महावाहुरमितात्मा विवासितः ||
२ ख
वैशम्पाय़न उवाच:
स हि वीरोऽनुरक्तश्च समर्थश्च तपोधन |
३ क
वैशम्पाय़न उवाच:
कृती च भृशमप्यस्त्रे वासुदेव इव प्रभुः ||
३ ख
वैशम्पाय़न उवाच:
अहं ह्येतावुभौ व्रह्मन्कृष्णावरिनिघातिनौ |
४ क
वैशम्पाय़न उवाच:
अभिजानामि विक्रान्तौ तथा व्यासः प्रतापवान् |
४ ख
वैशम्पाय़न उवाच:
त्रिय़ुगौ पुण्डरीकाक्षौ वासुदेवधनञ्जय़ौ ||
४ ग
वैशम्पाय़न उवाच:
नारदोऽपि तथा वेद सोऽप्यशंसत्सदा मम |
५ क
वैशम्पाय़न उवाच:
तथाहमपि जानामि नरनाराय़णावृषी ||
५ ख
वैशम्पाय़न उवाच:
शक्तोऽय़मित्यतो मत्वा मय़ा सम्प्रेषितोऽर्जुनः |
६ क
वैशम्पाय़न उवाच:
इन्द्रादनवरः शक्तः सुरसूनुः सुराधिपम् |
६ ख
वैशम्पाय़न उवाच:
द्रष्टुमस्त्राणि चादातुमिन्द्रादिति विवासितः ||
६ ग
वैशम्पाय़न उवाच:
भीष्मद्रोणावतिरथौ कृपो द्रौणिश्च दुर्जय़ः |
७ क
वैशम्पाय़न उवाच:
धृतराष्ट्रस्य पुत्रेण वृता युधि महावलाः |
७ ख
वैशम्पाय़न उवाच:
सर्वे वेदविदः शूराः सर्वेऽस्त्रकुशलास्तथा ||
७ ग
वैशम्पाय़न उवाच:
योद्धुकामश्च पार्थेन सततं यो महावलः |
८ क
वैशम्पाय़न उवाच:
स च दिव्यास्त्रवित्कर्णः सूतपुत्रो महारथः ||
८ ख
वैशम्पाय़न उवाच:
सोऽश्ववेगानिलवलः शरार्चिस्तलनिस्वनः |
९ क
वैशम्पाय़न उवाच:
रजोधूमोऽस्त्रसन्तापो धार्तराष्ट्रानिलोद्धतः ||
९ ख
वैशम्पाय़न उवाच:
निसृष्ट इव कालेन युगान्तज्वलनो यथा |
१० क
वैशम्पाय़न उवाच:
मम सैन्यमय़ं कक्षं प्रधक्ष्यति न संशय़ः ||
१० ख
वैशम्पाय़न उवाच:
तं स कृष्णानिलोद्धूतो दिव्यास्त्रजलदो महान् |
११ क
वैशम्पाय़न उवाच:
श्वेतवाजिवलाकाभृद्गाण्डीवेन्द्राय़ुधोज्ज्वलः ||
११ ख
वैशम्पाय़न उवाच:
सततं शरधाराभिः प्रदीप्तं कर्णपावकम् |
१२ क
वैशम्पाय़न उवाच:
उदीर्णोऽर्जुनमेघोऽय़ं शमय़िष्यति संय़ुगे ||
१२ ख
वैशम्पाय़न उवाच:
स साक्षादेव सर्वाणि शक्रात्परपुरञ्जय़ः |
१३ क
वैशम्पाय़न उवाच:
दिव्यान्यस्त्राणि वीभत्सुस्तत्त्वतः प्रतिपत्स्यते ||
१३ ख
वैशम्पाय़न उवाच:
अलं स तेषां सर्वेषामिति मे धीय़ते मतिः |
१४ क
वैशम्पाय़न उवाच:
नास्ति त्वतिक्रिय़ा तस्य रणेऽरीणां प्रतिक्रिय़ा ||
१४ ख
वैशम्पाय़न उवाच:
तं वय़ं पाण्डवं सर्वे गृहीतास्त्रं धनञ्जय़म् |
१५ क
वैशम्पाय़न उवाच:
द्रष्टारो न हि वीभत्सुर्भारमुद्यम्य सीदति ||
१५ ख
वैशम्पाय़न उवाच:
वय़ं तु तमृते वीरं वनेऽस्मिन्द्विपदां वर |
१६ क
वैशम्पाय़न उवाच:
अवधानं न गच्छामः काम्यके सह कृष्णय़ा ||
१६ ख
वैशम्पाय़न उवाच:
भवानन्यद्वनं साधु वह्वन्नं फलवच्छुचि |
१७ क
वैशम्पाय़न उवाच:
आख्यातु रमणीय़ं च सेवितं पुण्यकर्मभिः ||
१७ ख
वैशम्पाय़न उवाच:
यत्र कञ्चिद्वय़ं कालं वसन्तः सत्यविक्रमम् |
१८ क
वैशम्पाय़न उवाच:
प्रतीक्षामोऽर्जुनं वीरं वर्षकामा इवाम्वुदम् ||
१८ ख
वैशम्पाय़न उवाच:
विविधानाश्रमान्कांश्चिद्द्विजातिभ्यः परिश्रुतान् |
१९ क
वैशम्पाय़न उवाच:
सरांसि सरितश्चैव रमणीय़ांश्च पर्वतान् ||
१९ ख
वैशम्पाय़न उवाच:
आचक्ष्व न हि नो व्रह्मन्रोचते तमृतेऽर्जुनम् |
२० क
वैशम्पाय़न उवाच:
वनेऽस्मिन्काम्यके वासो गच्छामोऽन्यां दिशं प्रति ||
२० ख