chevron_left भीष्म पर्व अध्याय ८४
सञ्जय़ उवाच:
भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः |
१ क
सञ्जय़ उवाच:
न शेकुः पाण्डवा द्रष्टुं तपन्तमिव भास्करम् ||
१ ख
सञ्जय़ उवाच:
ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् |
२ क
सञ्जय़ उवाच:
अभ्यद्रवन्त गाङ्गेय़ं मर्दय़न्तं शितैः शरैः ||
२ ख
सञ्जय़ उवाच:
स तु भीष्मो रणश्लाघी सोमकान्सहसृञ्जय़ान् |
३ क
सञ्जय़ उवाच:
पाञ्चालांश्च महेष्वासान्पातय़ामास साय़कैः ||
३ ख
सञ्जय़ उवाच:
ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह |
४ क
सञ्जय़ उवाच:
भीष्ममेवाभ्ययुस्तूर्णं त्यक्त्वा मृत्युकृतं भय़म् ||
४ ख
सञ्जय़ उवाच:
स तेषां रथिनां वीरो भीष्मः शान्तनवो युधि |
५ क
सञ्जय़ उवाच:
चिच्छेद सहसा राजन्वाहूनथ शिरांसि च ||
५ ख
सञ्जय़ उवाच:
विरथान्रथिनश्चक्रे पिता देवव्रतस्तव |
६ क
सञ्जय़ उवाच:
पतितान्युत्तमाङ्गानि हय़ेभ्यो हय़सादिनाम् ||
६ ख
सञ्जय़ उवाच:
निर्मनुष्यांश्च मातङ्गाञ्शय़ानान्पर्वतोपमान् |
७ क
सञ्जय़ उवाच:
अपश्याम महाराज भीष्मास्त्रेण प्रमोहितान् ||
७ ख
सञ्जय़ उवाच:
न तत्रासीत्पुमान्कश्चित्पाण्डवानां विशां पते |
८ क
सञ्जय़ उवाच:
अन्यत्र रथिनां श्रेष्ठाद्भीमसेनान्महावलात् ||
८ ख
सञ्जय़ उवाच:
स हि भीष्मं समासाद्य ताडय़ामास संय़ुगे |
९ क
सञ्जय़ उवाच:
ततो निष्टानको घोरो भीष्मभीमसमागमे ||
९ ख
सञ्जय़ उवाच:
वभूव सर्वसैन्यानां घोररूपो भय़ानकः |
१० क
सञ्जय़ उवाच:
तथैव पाण्डवा हृष्टाः सिंहनादमथानदन् ||
१० ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजा सोदर्यैः परिवारितः |
११ क
सञ्जय़ उवाच:
भीष्मं जुगोप समरे वर्तमाने जनक्षय़े ||
११ ख
सञ्जय़ उवाच:
भीमस्तु सारथिं हत्वा भीष्मस्य रथिनां वरः |
१२ क
सञ्जय़ उवाच:
विद्रुताश्वे रथे तस्मिन्द्रवमाणे समन्ततः |
१२ ख
सञ्जय़ उवाच:
सुनाभस्य शरेणाशु शिरश्चिच्छेद चारिहा ||
१२ ग
सञ्जय़ उवाच:
क्षुरप्रेण सुतीक्ष्णेन स हतो न्यपतद्भुवि |
१३ क
सञ्जय़ उवाच:
हते तस्मिन्महाराज तव पुत्रे महारथे |
१३ ख
सञ्जय़ उवाच:
नामृष्यन्त रणे शूराः सोदर्याः सप्त संय़ुगे ||
१३ ग
सञ्जय़ उवाच:
आदित्यकेतुर्वह्वाशी कुण्डधारो महोदरः |
१४ क
सञ्जय़ उवाच:
अपराजितः पण्डितको विशालाक्षः सुदुर्जय़ः ||
१४ ख
सञ्जय़ उवाच:
पाण्डवं चित्रसंनाहा विचित्रकवचध्वजाः |
१५ क
सञ्जय़ उवाच:
अभ्यद्रवन्त सङ्ग्रामे योद्धुकामारिमर्दनाः ||
१५ ख
सञ्जय़ उवाच:
महोदरस्तु समरे भीमं विव्याध पत्रिभिः |
१६ क
सञ्जय़ उवाच:
नवभिर्वज्रसङ्काशैर्नमुचिं वृत्रहा यथा ||
१६ ख
सञ्जय़ उवाच:
आदित्यकेतुः सप्तत्या वह्वाशी चापि पञ्चभिः |
१७ क
सञ्जय़ उवाच:
नवत्या कुण्डधारस्तु विशालाक्षश्च सप्तभिः ||
१७ ख
सञ्जय़ उवाच:
अपराजितो महाराज पराजिष्णुर्महारथः |
१८ क
सञ्जय़ उवाच:
शरैर्वहुभिरानर्छद्भीमसेनं महावलम् ||
१८ ख
सञ्जय़ उवाच:
रणे पण्डितकश्चैनं त्रिभिर्वाणैः समर्दय़त् |
१९ क
सञ्जय़ उवाच:
स तन्न ममृषे भीमः शत्रुभिर्वधमाहवे ||
१९ ख
सञ्जय़ उवाच:
धनुः प्रपीड्य वामेन करेणामित्रकर्शनः |
२० क
सञ्जय़ उवाच:
शिरश्चिच्छेद समरे शरेण नतपर्वणा ||
२० ख
सञ्जय़ उवाच:
अपराजितस्य सुनसं तव पुत्रस्य संय़ुगे |
२१ क
सञ्जय़ उवाच:
पराजितस्य भीमेन निपपात शिरो महीम् ||
२१ ख
सञ्जय़ उवाच:
अथापरेण भल्लेन कुण्डधारं महारथम् |
२२ क
सञ्जय़ उवाच:
प्राहिणोन्मृत्युलोकाय़ सर्वलोकस्य पश्यतः ||
२२ ख
सञ्जय़ उवाच:
ततः पुनरमेय़ात्मा प्रसन्धाय़ शिलीमुखम् |
२३ क
सञ्जय़ उवाच:
प्रेषय़ामास समरे पण्डितं प्रति भारत ||
२३ ख
सञ्जय़ उवाच:
स शरः पण्डितं हत्वा विवेश धरणीतलम् |
२४ क
सञ्जय़ उवाच:
यथा नरं निहत्याशु भुजगः कालचोदितः ||
२४ ख
सञ्जय़ उवाच:
विशालाक्षशिरश्छित्त्वा पातय़ामास भूतले |
२५ क
सञ्जय़ उवाच:
त्रिभिः शरैरदीनात्मा स्मरन्क्लेशं पुरातनम् ||
२५ ख
सञ्जय़ उवाच:
महोदरं महेष्वासं नाराचेन स्तनान्तरे |
२६ क
सञ्जय़ उवाच:
विव्याध समरे राजन्स हतो न्यपतद्भुवि ||
२६ ख
सञ्जय़ उवाच:
आदित्यकेतोः केतुं च छित्त्वा वाणेन संय़ुगे |
२७ क
सञ्जय़ उवाच:
भल्लेन भृशतीक्ष्णेन शिरश्चिच्छेद चारिहा ||
२७ ख
सञ्जय़ उवाच:
वह्वाशिनं ततो भीमः शरेण नतपर्वणा |
२८ क
सञ्जय़ उवाच:
प्रेषय़ामास सङ्क्रुद्धो यमस्य सदनं प्रति ||
२८ ख
सञ्जय़ उवाच:
प्रदुद्रुवुस्ततस्तेऽन्ये पुत्रास्तव विशां पते |
२९ क
सञ्जय़ उवाच:
मन्यमाना हि तत्सत्यं सभाय़ां तस्य भाषितम् ||
२९ ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजा भ्रातृव्यसनकर्शितः |
३० क
सञ्जय़ उवाच:
अव्रवीत्तावकान्योधान्भीमोऽय़ं युधि वध्यताम् ||
३० ख
सञ्जय़ उवाच:
एवमेते महेष्वासाः पुत्रास्तव विशां पते |
३१ क
सञ्जय़ उवाच:
भ्रातॄन्सन्दृश्य निहतान्प्रास्मरंस्ते हि तद्वचः ||
३१ ख
सञ्जय़ उवाच:
यदुक्तवान्महाप्राज्ञः क्षत्ता हितमनामय़म् |
३२ क
सञ्जय़ उवाच:
तदिदं समनुप्राप्तं वचनं दिव्यदर्शिनः ||
३२ ख
सञ्जय़ उवाच:
लोभमोहसमाविष्टः पुत्रप्रीत्या जनाधिप |
३३ क
सञ्जय़ उवाच:
न वुध्यसे पुरा यत्तत्तथ्यमुक्तं वचो महत् ||
३३ ख
सञ्जय़ उवाच:
तथैव हि वधार्थाय़ पुत्राणां पाण्डवो वली |
३४ क
सञ्जय़ उवाच:
नूनं जातो महावाहुर्यथा हन्ति स्म कौरवान् ||
३४ ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजा भीष्ममासाद्य मारिष |
३५ क
सञ्जय़ उवाच:
दुःखेन महताविष्टो विललापातिकर्शितः ||
३५ ख
सञ्जय़ उवाच:
निहता भ्रातरः शूरा भीमसेनेन मे युधि |
३६ क
सञ्जय़ उवाच:
यतमानास्तथान्येऽपि हन्यन्ते सर्वसैनिकाः ||
३६ ख
सञ्जय़ उवाच:
भवांश्च मध्यस्थतय़ा नित्यमस्मानुपेक्षते |
३७ क
सञ्जय़ उवाच:
सोऽहं कापथमारूढः पश्य दैवमिदं मम ||
३७ ख
सञ्जय़ उवाच:
एतच्छ्रुत्वा वचः क्रूरं पिता देवव्रतस्तव |
३८ क
सञ्जय़ उवाच:
दुर्योधनमिदं वाक्यमव्रवीत्साश्रुलोचनम् ||
३८ ख
सञ्जय़ उवाच:
उक्तमेतन्मय़ा पूर्वं द्रोणेन विदुरेण च |
३९ क
सञ्जय़ उवाच:
गान्धार्या च यशस्विन्या तत्त्वं तात न वुद्धवान् ||
३९ ख
सञ्जय़ उवाच:
समय़श्च मय़ा पूर्वं कृतो वः शत्रुकर्शन |
४० क
सञ्जय़ उवाच:
नाहं युधि विमोक्तव्यो नाप्याचार्यः कथञ्चन ||
४० ख
सञ्जय़ उवाच:
यं यं हि धार्तराष्ट्राणां भीमो द्रक्ष्यति संय़ुगे |
४१ क
सञ्जय़ उवाच:
हनिष्यति रणे तं तं सत्यमेतद्व्रवीमि ते ||
४१ ख
सञ्जय़ उवाच:
स त्वं राजन्स्थिरो भूत्वा दृढां कृत्वा रणे मतिम् |
४२ क
सञ्जय़ उवाच:
योधय़स्व रणे पार्थान्स्वर्गं कृत्वा पराय़णम् ||
४२ ख
सञ्जय़ उवाच:
न शक्याः पाण्डवा जेतुं सेन्द्रैरपि सुरासुरैः |
४३ क
सञ्जय़ उवाच:
तस्माद्युद्धे मतिं कृत्वा स्थिरां युध्यस्व भारत ||
४३ ख