अग्निरु उवाच:
भवेय़ुर्वेदविदुषः सर्वे वाक्पतय़स्तथा ||
४८ ख
अग्निरु उवाच:
देवपक्षधराः सौम्याः प्राजापत्या महर्षय़ः |
४९ क
अग्निरु उवाच:
आप्नुवन्ति तपश्चैव व्रह्मचर्यं परं तथा ||
४९ ख
अग्निरु उवाच:
सर्वे हि वय़मेते च तवैव प्रसवः प्रभो |
५० क
अग्निरु उवाच:
देवानां व्राह्मणानां च त्वं हि कर्ता पितामह ||
५० ख
अग्निरु उवाच:
मरीचिमादितः कृत्वा सर्वे चैवाथ भार्गवाः |
५१ क
अग्निरु उवाच:
अपत्यानीति सम्प्रेक्ष्य क्षमय़ाम पितामह ||
५१ ख
अग्निरु उवाच:
ते त्वनेनैव रूपेण प्रजनिष्यन्ति वै प्रजाः |
५२ क
अग्निरु उवाच:
स्थापय़िष्यन्ति चात्मानं युगादिनिधने तथा ||
५२ ख
अग्निरु उवाच:
एवमेतत्पुरा वृत्तं तस्य यज्ञे महात्मनः |
५३ क
अग्निरु उवाच:
देवश्रेष्ठस्य लोकादौ वारुणीं विभ्रतस्तनुम् ||
५३ ख
अग्निरु उवाच:
अग्निर्व्रह्मा पशुपतिः शर्वो रुद्रः प्रजापतिः |
५४ क
अग्निरु उवाच:
अग्नेरपत्यमेतद्वै सुवर्णमिति धारणा ||
५४ ख
अग्निरु उवाच:
अग्न्यभावे च कुर्वन्ति वह्निस्थानेषु काञ्चनम् |
५५ क
अग्निरु उवाच:
जामदग्न्य प्रमाणज्ञा वेदश्रुतिनिदर्शनात् ||
५५ ख
अग्निरु उवाच:
कुशस्तम्वे जुहोत्यग्निं सुवर्णं तत्र संस्थितम् |
५६ क
अग्निरु उवाच:
हुते प्रीतिकरीमृद्धिं भगवांस्तत्र मन्यते ||
५६ ख
अग्निरु उवाच:
तस्मादग्निपराः सर्वा देवता इति शुश्रुम |
५७ क
अग्निरु उवाच:
व्रह्मणो हि प्रसूतोऽग्निरग्नेरपि च काञ्चनम् ||
५७ ख
अग्निरु उवाच:
तस्माद्ये वै प्रय़च्छन्ति सुवर्णं धर्मदर्शिनः |
५८ क
अग्निरु उवाच:
देवतास्ते प्रय़च्छन्ति समस्ता इति नः श्रुतम् ||
५८ ख
अग्निरु उवाच:
तस्य चातमसो लोका गच्छतः परमां गतिम् |
५९ क
अग्निरु उवाच:
स्वर्लोके राजराज्येन सोऽभिषिच्येत भार्गव ||
५९ ख
अग्निरु उवाच:
आदित्योदय़ने प्राप्ते विधिमन्त्रपुरस्कृतम् |
६० क
अग्निरु उवाच:
ददाति काञ्चनं यो वै दुःस्वप्नं प्रतिहन्ति सः ||
६० ख
अग्निरु उवाच:
ददात्युदितमात्रे यस्तस्य पाप्मा विधूय़ते |
६१ क
अग्निरु उवाच:
मध्याह्ने ददतो रुक्मं हन्ति पापमनागतम् ||
६१ ख
अग्निरु उवाच:
ददाति पश्चिमां सन्ध्यां यः सुवर्णं धृतव्रतः |
६२ क
अग्निरु उवाच:
व्रह्मवाय़्वग्निसोमानां सालोक्यमुपय़ाति सः ||
६२ ख
अग्निरु उवाच:
सेन्द्रेषु चैव लोकेषु प्रतिष्ठां प्राप्नुते शुभाम् |
६३ क
अग्निरु उवाच:
इह लोके यशः प्राप्य शान्तपाप्मा प्रमोदते ||
६३ ख
अग्निरु उवाच:
ततः सम्पद्यतेऽन्येषु लोकेष्वप्रतिमः सदा |
६४ क
अग्निरु उवाच:
अनावृतगतिश्चैव कामचारी भवत्युत ||
६४ ख
अग्निरु उवाच:
न च क्षरति तेभ्यः स शश्वच्चैवाप्नुते महत् |
६५ क
अग्निरु उवाच:
सुवर्णमक्षय़ं दत्त्वा लोकानाप्नोति पुष्कलान् ||
६५ ख
अग्निरु उवाच:
यस्तु सञ्जनय़ित्वाग्निमादित्योदय़नं प्रति |
६६ क
अग्निरु उवाच:
दद्याद्वै व्रतमुद्दिश्य सर्वान्कामान्समश्नुते ||
६६ ख
अग्निरु उवाच:
अग्निरित्येव तत्प्राहुः प्रदानं वै सुखावहम् |
६७ क
अग्निरु उवाच:
यथेष्टगुणसम्पन्नं प्रवर्तकमिति स्मृतम् ||
६७ ख
भीष्म उवाच:
इत्युक्तः स वसिष्ठेन जामदग्न्यः प्रतापवान् |
६८ क
भीष्म उवाच:
ददौ सुवर्णं विप्रेभ्यो व्यमुच्यत च किल्विषात् ||
६८ ख
भीष्म उवाच:
एतत्ते सर्वमाख्यातं सुवर्णस्य महीपते |
६९ क
भीष्म उवाच:
प्रदानस्य फलं चैव जन्म चाग्न्यमनुत्तमम् ||
६९ ख
भीष्म उवाच:
तस्मात्त्वमपि विप्रेभ्यः प्रय़च्छ कनकं वहु |
७० क
भीष्म उवाच:
ददत्सुवर्णं नृपते किल्विषाद्विप्रमोक्ष्यसि ||
७० ख