chevron_left द्रोण पर्व अध्याय ८५
सञ्जय़ उवाच:
दत्त्वेमां पृथिवीं कृत्स्नां व्राह्मणेभ्यो यथाविधि ||
४९ ख
सञ्जय़ उवाच:
एवं त्वामपि धर्मात्मन्प्रय़ाचेऽहं कृताञ्जलिः |
५० क
सञ्जय़ उवाच:
पृथिवीदानतुल्यं स्यादधिकं वा फलं विभो ||
५० ख
सञ्जय़ उवाच:
एक एव सदा कृष्णो मित्राणामभय़ङ्करः |
५१ क
सञ्जय़ उवाच:
रणे सन्त्यजति प्राणान्द्वितीय़स्त्वं च सात्यके ||
५१ ख
सञ्जय़ उवाच:
विक्रान्तस्य च वीरस्य युद्धे प्रार्थय़तो यशः |
५२ क
सञ्जय़ उवाच:
शूर एव सहाय़ः स्यान्नेतरः प्राकृतो जनः ||
५२ ख
सञ्जय़ उवाच:
ईदृशे तु परामर्दे वर्तमानस्य माधव |
५३ क
सञ्जय़ उवाच:
त्वदन्यो हि रणे गोप्ता विजय़स्य न विद्यते ||
५३ ख
सञ्जय़ उवाच:
श्लाघन्नेव हि कर्माणि शतशस्तव पाण्डवः |
५४ क
सञ्जय़ उवाच:
मम सञ्जनय़न्हर्षं पुनः पुनरकीर्तय़त् ||
५४ ख
सञ्जय़ उवाच:
लघ्वस्त्रश्चित्रय़ोधी च तथा लघुपराक्रमः |
५५ क
सञ्जय़ उवाच:
प्राज्ञः सर्वास्त्रविच्छूरो मुह्यते न च संय़ुगे ||
५५ ख
सञ्जय़ उवाच:
महास्कन्धो महोरस्को महावाहुर्महाधनुः |
५६ क
सञ्जय़ उवाच:
महावलो महावीर्यः स महात्मा महारथः ||
५६ ख
सञ्जय़ उवाच:
शिष्यो मम सखा चैव प्रिय़ोऽस्याहं प्रिय़श्च मे |
५७ क
सञ्जय़ उवाच:
युय़ुधानः सहाय़ो मे प्रमथिष्यति कौरवान् ||
५७ ख
सञ्जय़ उवाच:
अस्मदर्थं च राजेन्द्र संनह्येद्यदि केशवः |
५८ क
सञ्जय़ उवाच:
रामो वाप्यनिरुद्धो वा प्रद्युम्नो वा महारथः ||
५८ ख
सञ्जय़ उवाच:
गदो वा सारणो वापि साम्वो वा सह वृष्णिभिः |
५९ क
सञ्जय़ उवाच:
सहाय़ार्थं महाराज सङ्ग्रामोत्तममूर्धनि ||
५९ ख
सञ्जय़ उवाच:
तथाप्यहं नरव्याघ्रं शैनेय़ं सत्यविक्रमम् |
६० क
सञ्जय़ उवाच:
साहाय़्ये विनिय़ोक्ष्यामि नास्ति मेऽन्यो हि तत्समः ||
६० ख
सञ्जय़ उवाच:
इति द्वैतवने तात मामुवाच धनञ्जय़ः |
६१ क
सञ्जय़ उवाच:
परोक्षं त्वद्गुणांस्तथ्यान्कथय़न्नार्यसंसदि ||
६१ ख
सञ्जय़ उवाच:
तस्य त्वमेवं सङ्कल्पं न वृथा कर्तुमर्हसि |
६२ क
सञ्जय़ उवाच:
धनञ्जय़स्य वार्ष्णेय़ मम भीमस्य चोभय़ोः ||
६२ ख
सञ्जय़ उवाच:
यच्चापि तीर्थानि चरन्नगच्छं द्वारकां प्रति |
६३ क
सञ्जय़ उवाच:
तत्राहमपि ते भक्तिमर्जुनं प्रति दृष्टवान् ||
६३ ख
सञ्जय़ उवाच:
न तत्सौहृदमन्येषु मय़ा शैनेय़ लक्षितम् |
६४ क
सञ्जय़ उवाच:
यथा त्वमस्मान्भजसे वर्तमानानुपप्लवे ||
६४ ख
सञ्जय़ उवाच:
सोऽभिजात्या च भक्त्या च सख्यस्याचार्यकस्य च |
६५ क
सञ्जय़ उवाच:
सौहृदस्य च वीर्यस्य कुलीनत्वस्य माधव ||
६५ ख
सञ्जय़ उवाच:
सत्यस्य च महावाहो अनुकम्पार्थमेव च |
६६ क
सञ्जय़ उवाच:
अनुरूपं महेष्वास कर्म त्वं कर्तुमर्हसि ||
६६ ख
सञ्जय़ उवाच:
सोय़ोधनो हि सहसा गतो द्रोणेन दंशितः |
६७ क
सञ्जय़ उवाच:
पूर्वमेव तु यातास्ते कौरवाणां महारथाः ||
६७ ख
सञ्जय़ उवाच:
सुमहान्निनदश्चैव श्रूय़ते विजय़ं प्रति |
६८ क
सञ्जय़ उवाच:
स शैनेय़ जवेनात्र गन्तुमर्हसि माधव ||
६८ ख
सञ्जय़ उवाच:
भीमसेनो वय़ं चैव संय़त्ताः सहसैनिकाः |
६९ क
सञ्जय़ उवाच:
द्रोणमावारय़िष्यामो यदि त्वां प्रति यास्यति ||
६९ ख
सञ्जय़ उवाच:
पश्य शैनेय़ सैन्यानि द्रवमाणानि संय़ुगे |
७० क
सञ्जय़ उवाच:
महान्तं च रणे शव्दं दीर्यमाणां च भारतीम् ||
७० ख
सञ्जय़ उवाच:
महामारुतवेगेन समुद्रमिव पर्वसु |
७१ क
सञ्जय़ उवाच:
धार्तराष्ट्रवलं तात विक्षिप्तं सव्यसाचिना ||
७१ ख
सञ्जय़ उवाच:
रथैर्विपरिधावद्भिर्मनुष्यैश्च हय़ैश्च ह |
७२ क
सञ्जय़ उवाच:
सैन्यं रजःसमुद्धूतमेतत्सम्परिवर्तते ||
७२ ख
सञ्जय़ उवाच:
संवृतः सिन्धुसौवीरैर्नखरप्रासय़ोधिभिः |
७३ क
सञ्जय़ उवाच:
अत्यन्तापचितैः शूरैः फल्गुनः परवीरहा ||
७३ ख
सञ्जय़ उवाच:
नैतद्वलमसंवार्य शक्यो हन्तुं जय़द्रथः |
७४ क
सञ्जय़ उवाच:
एते हि सैन्धवस्यार्थे सर्वे सन्त्यक्तजीविताः ||
७४ ख
सञ्जय़ उवाच:
शरशक्तिध्वजवनं हय़नागसमाकुलम् |
७५ क
सञ्जय़ उवाच:
पश्यैतद्धार्तराष्ट्राणामनीकं सुदुरासदम् ||
७५ ख
सञ्जय़ उवाच:
शृणु दुन्दुभिनिर्घोषं शङ्खशव्दांश्च पुष्कलान् |
७६ क
सञ्जय़ उवाच:
सिंहनादरवांश्चैव रथनेमिस्वनांस्तथा ||
७६ ख
सञ्जय़ उवाच:
नागानां शृणु शव्दं च पत्तीनां च सहस्रशः |
७७ क
सञ्जय़ उवाच:
सादिनां द्रवतां चैव शृणु कम्पय़तां महीम् ||
७७ ख
सञ्जय़ उवाच:
पुरस्तात्सैन्धवानीकं द्रोणानीकस्य पृष्ठतः |
७८ क
सञ्जय़ उवाच:
वहुत्वाद्धि नरव्याघ्र देवेन्द्रमपि पीडय़ेत् ||
७८ ख
सञ्जय़ उवाच:
अपर्यन्ते वले मग्नो जह्यादपि च जीवितम् |
७९ क
सञ्जय़ उवाच:
तस्मिंश्च निहते युद्धे कथं जीवेत मादृशः |
७९ ख
सञ्जय़ उवाच:
सर्वथाहमनुप्राप्तः सुकृच्छ्रं वत जीवितम् ||
७९ ग
सञ्जय़ उवाच:
श्यामो युवा गुडाकेशो दर्शनीय़श्च पाण्डवः |
८० क
सञ्जय़ उवाच:
लघ्वस्त्रश्चित्रय़ोधी च प्रविष्टस्तात भारतीम् ||
८० ख
सञ्जय़ उवाच:
सूर्योदय़े महावाहुर्दिवसश्चातिवर्तते |
८१ क
सञ्जय़ उवाच:
तन्न जानामि वार्ष्णेय़ यदि जीवति वा न वा |
८१ ख
सञ्जय़ उवाच:
कुरूणां चापि तत्सैन्यं सागरप्रतिमं महत् ||
८१ ग
सञ्जय़ उवाच:
एक एव च वीभत्सुः प्रविष्टस्तात भारतीम् |
८२ क
सञ्जय़ उवाच:
अविषह्यां महावाहुः सुरैरपि महामृधे ||
८२ ख
सञ्जय़ उवाच:
न च मे वर्तते वुद्धिरद्य युद्धे कथञ्चन |
८३ क
सञ्जय़ उवाच:
द्रोणोऽपि रभसो युद्धे मम पीडय़ते वलम् |
८३ ख
सञ्जय़ उवाच:
प्रत्यक्षं ते महावाहो यथासौ चरति द्विजः ||
८३ ग
सञ्जय़ उवाच:
युगपच्च समेतानां कार्याणां त्वं विचक्षणः |
८४ क
सञ्जय़ उवाच:
महार्थं लघुसंय़ुक्तं कर्तुमर्हसि माधव ||
८४ ख
सञ्जय़ उवाच:
तस्य मे सर्वकार्येषु कार्यमेतन्मतं सदा |
८५ क
सञ्जय़ उवाच:
अर्जुनस्य परित्राणं कर्तव्यमिति संय़ुगे ||
८५ ख
सञ्जय़ उवाच:
नाहं शोचामि दाशार्हं गोप्तारं जगतः प्रभुम् |
८६ क
सञ्जय़ उवाच:
स हि शक्तो रणे तात त्रीँल्लोकानपि सङ्गतान् ||
८६ ख
सञ्जय़ उवाच:
विजेतुं पुरुषव्याघ्र सत्यमेतद्व्रवीमि ते |
८७ क
सञ्जय़ उवाच:
किं पुनर्धार्तराष्ट्रस्य वलमेतत्सुदुर्वलम् ||
८७ ख
सञ्जय़ उवाच:
अर्जुनस्त्वेव वार्ष्णेय़ पीडितो वहुभिर्युधि |
८८ क
सञ्जय़ उवाच:
प्रजह्यात्समरे प्राणांस्तस्माद्विन्दामि कश्मलम् ||
८८ ख
सञ्जय़ उवाच:
तस्य त्वं पदवीं गच्छ गच्छेय़ुस्त्वादृशा यथा |
८९ क
सञ्जय़ उवाच:
तादृशस्येदृशे काले मादृशेनाभिचोदितः ||
८९ ख
सञ्जय़ उवाच:
रणे वृष्णिप्रवीराणां द्वावेवातिरथौ स्मृतौ |
९० क
सञ्जय़ उवाच:
प्रद्युम्नश्च महावाहुस्त्वं च सात्वत विश्रुतः ||
९० ख
सञ्जय़ उवाच:
अस्त्रे नाराय़णसमः सङ्कर्षणसमो वले |
९१ क
सञ्जय़ उवाच:
वीरताय़ां नरव्याघ्र धनञ्जय़समो ह्यसि ||
९१ ख
सञ्जय़ उवाच:
भीष्मद्रोणावतिक्रम्य सर्वय़ुद्धविशारदम् |
९२ क
सञ्जय़ उवाच:
त्वामद्य पुरुषव्याघ्रं लोके सन्तः प्रचक्षते ||
९२ ख
सञ्जय़ उवाच:
नासाध्यं विद्यते लोके सात्यकेरिति माधव |
९३ क
सञ्जय़ उवाच:
तत्त्वां यदभिवक्ष्यामि तत्कुरुष्व महावल ||
९३ ख
सञ्जय़ उवाच:
सम्भावना हि लोकस्य तव पार्थस्य चोभय़ोः |
९४ क
सञ्जय़ उवाच:
नान्यथा तां महावाहो सम्प्रकर्तुमिहार्हसि ||
९४ ख
सञ्जय़ उवाच:
परित्यज्य प्रिय़ान्प्राणान्रणे विचर वीरवत् |
९५ क
सञ्जय़ उवाच:
न हि शैनेय़ दाशार्हा रणे रक्षन्ति जीवितम् ||
९५ ख
सञ्जय़ उवाच:
अय़ुद्धमनवस्थानं सङ्ग्रामे च पलाय़नम् |
९६ क
सञ्जय़ उवाच:
भीरूणामसतां मार्गो नैष दाशार्हसेवितः ||
९६ ख
सञ्जय़ उवाच:
तवार्जुनो गुरुस्तात धर्मात्मा शिनिपुङ्गव |
९७ क
सञ्जय़ उवाच:
वासुदेवो गुरुश्चापि तव पार्थस्य धीमतः ||
९७ ख