अष्टक उवाच:
यदावसो नन्दने कामरूपी; संवत्सराणामय़ुतं शतानाम् |
१ क
अष्टक उवाच:
किं कारणं कार्तय़ुगप्रधान; हित्वा तत्त्वं वसुधामन्वपद्यः ||
१ ख
यय़ातिरु उवाच:
ज्ञातिः सुहृत्स्वजनो यो यथेह; क्षीणे वित्ते त्यज्यते मानवैर्हि |
२ क
यय़ातिरु उवाच:
तथा तत्र क्षीणपुण्यं मनुष्यं; त्यजन्ति सद्यः सेश्वरा देवसङ्घाः ||
२ ख
अष्टक उवाच:
कथं तस्मिन्क्षीणपुण्या भवन्ति; संमुह्यते मेऽत्र मनोऽतिमात्रम् |
३ क
अष्टक उवाच:
किंविशिष्टाः कस्य धामोपय़ान्ति; तद्वै व्रूहि क्षेत्रवित्त्वं मतो मे ||
३ ख
यय़ातिरु उवाच:
इमं भौमं नरकं ते पतन्ति; लालप्यमाना नरदेव सर्वे |
४ क
यय़ातिरु उवाच:
ते कङ्कगोमाय़ुवलाशनार्थं; क्षीणा विवृद्धिं वहुधा व्रजन्ति ||
४ ख
यय़ातिरु उवाच:
तस्मादेतद्वर्जनीय़ं नरेण; दुष्टं लोके गर्हणीय़ं च कर्म |
५ क
यय़ातिरु उवाच:
आख्यातं ते पार्थिव सर्वमेत; द्भूय़श्चेदानीं वद किं ते वदामि ||
५ ख
अष्टक उवाच:
यदा तु तान्वितुदन्ते वय़ांसि; तथा गृध्राः शितिकण्ठाः पतङ्गाः |
६ क
अष्टक उवाच:
कथं भवन्ति कथमाभवन्ति; न भौममन्यं नरकं शृणोमि ||
६ ख
यय़ातिरु उवाच:
ऊर्ध्वं देहात्कर्मणो जृम्भमाणा; द्व्यक्तं पृथिव्यामनुसञ्चरन्ति |
७ क
यय़ातिरु उवाच:
इमं भौमं नरकं ते पतन्ति; नावेक्षन्ते वर्षपूगाननेकान् ||
७ ख
यय़ातिरु उवाच:
षष्टिं सहस्राणि पतन्ति व्योम्नि; तथा अशीतिं परिवत्सराणि |
८ क
यय़ातिरु उवाच:
तान्वै तुदन्ति प्रपततः प्रपातं; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः ||
८ ख
अष्टक उवाच:
यदेनसस्ते पततस्तुदन्ति; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः |
९ क
अष्टक उवाच:
कथं भवन्ति कथमाभवन्ति; कथम्भूता गर्भभूता भवन्ति ||
९ ख
यय़ातिरु उवाच:
अस्रं रेतः पुष्पफलानुपृक्त; मन्वेति तद्वै पुरुषेण सृष्टम् |
१० क
यय़ातिरु उवाच:
स वै तस्या रज आपद्यते वै; स गर्भभूतः समुपैति तत्र ||
१० ख
यय़ातिरु उवाच:
वनस्पतींश्चौषधीश्चाविशन्ति; अपो वाय़ुं पृथिवीं चान्तरिक्षम् |
११ क
यय़ातिरु उवाच:
चतुष्पदं द्विपदं चापि सर्व; मेवम्भूता गर्भभूता भवन्ति ||
११ ख
अष्टक उवाच:
अन्यद्वपुर्विदधातीह गर्भ; उताहो स्वित्स्वेन कामेन याति |
१२ क
अष्टक उवाच:
आपद्यमानो नरय़ोनिमेता; माचक्ष्व मे संशय़ात्प्रव्रवीमि ||
१२ ख
अष्टक उवाच:
शरीरदेहादिसमुच्छ्रय़ं च; चक्षुःश्रोत्रे लभते केन सञ्ज्ञाम् |
१३ क
अष्टक उवाच:
एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः; क्षेत्रज्ञं त्वां तात मन्याम सर्वे ||
१३ ख
यय़ातिरु उवाच:
वाय़ुः समुत्कर्षति गर्भय़ोनि; मृतौ रेतः पुष्परसानुपृक्तम् |
१४ क
यय़ातिरु उवाच:
स तत्र तन्मात्रकृताधिकारः; क्रमेण संवर्धय़तीह गर्भम् ||
१४ ख
यय़ातिरु उवाच:
स जाय़मानो विगृहीतगात्रः; षड्ज्ञाननिष्ठाय़तनो मनुष्यः |
१५ क
यय़ातिरु उवाच:
स श्रोत्राभ्यां वेदय़तीह शव्दं; सर्वं रूपं पश्यति चक्षुषा च ||
१५ ख
यय़ातिरु उवाच:
घ्राणेन गन्धं जिह्वय़ाथो रसं च; त्वचा स्पर्शं मनसा वेद भावम् |
१६ क
यय़ातिरु उवाच:
इत्यष्टकेहोपचितिं च विद्धि; महात्मनः प्राणभृतः शरीरे ||
१६ ख
अष्टक उवाच:
यः संस्थितः पुरुषो दह्यते वा; निखन्यते वापि निघृष्यते वा |
१७ क
अष्टक उवाच:
अभावभूतः स विनाशमेत्य; केनात्मानं चेतय़ते पुरस्तात् ||
१७ ख
यय़ातिरु उवाच:
हित्वा सोऽसून्सुप्तवन्निष्टनित्वा; पुरोधाय़ सुकृतं दुष्कृतं च |
१८ क
यय़ातिरु उवाच:
अन्यां योनिं पवनाग्रानुसारी; हित्वा देहं भजते राजसिंह ||
१८ ख
यय़ातिरु उवाच:
पुण्यां योनिं पुण्यकृतो व्रजन्ति; पापां योनिं पापकृतो व्रजन्ति |
१९ क
यय़ातिरु उवाच:
कीटाः पतङ्गाश्च भवन्ति पापा; न मे विवक्षास्ति महानुभाव ||
१९ ख
यय़ातिरु उवाच:
चतुष्पदा द्विपदाः षट्पदाश्च; तथाभूता गर्भभूता भवन्ति |
२० क
यय़ातिरु उवाच:
आख्यातमेतन्निखिलेन सर्वं; भूय़स्तु किं पृच्छसि राजसिंह ||
२० ख
अष्टक उवाच:
किं स्वित्कृत्वा लभते तात लोका; न्मर्त्यः श्रेष्ठांस्तपसा विद्यया वा |
२१ क
अष्टक उवाच:
तन्मे पृष्टः शंस सर्वं यथाव; च्छुभाँल्लोकान्येन गच्छेत्क्रमेण ||
२१ ख
यय़ातिरु उवाच:
तपश्च दानं च शमो दमश्च; ह्रीरार्जवं सर्वभूतानुकम्पा |
२२ क
यय़ातिरु उवाच:
नश्यन्ति मानेन तमोऽभिभूताः; पुंसः सदैवेति वदन्ति सन्तः ||
२२ ख
यय़ातिरु उवाच:
अधीय़ानः पण्डितं मन्यमानो; यो विद्यया हन्ति यशः परेषाम् |
२३ क
यय़ातिरु उवाच:
तस्यान्तवन्तश्च भवन्ति लोका; न चास्य तद्व्रह्म फलं ददाति ||
२३ ख
यय़ातिरु उवाच:
चत्वारि कर्माण्यभय़ङ्कराणि; भय़ं प्रय़च्छन्त्ययथाकृतानि |
२४ क
यय़ातिरु उवाच:
मानाग्निहोत्रमुत मानमौनं; मानेनाधीतमुत मानय़ज्ञः ||
२४ ख
यय़ातिरु उवाच:
न मान्यमानो मुदमाददीत; न सन्तापं प्राप्नुय़ाच्चावमानात् |
२५ क
यय़ातिरु उवाच:
सन्तः सतः पूजय़न्तीह लोके; नासाधवः साधुवुद्धिं लभन्ते ||
२५ ख
यय़ातिरु उवाच:
इति दद्यादिति यजेदित्यधीय़ीत मे व्रतम् |
२६ क
यय़ातिरु उवाच:
इत्यस्मिन्नभय़ान्याहुस्तानि वर्ज्यानि नित्यशः ||
२६ ख
यय़ातिरु उवाच:
येनाश्रय़ं वेदय़न्ते पुराणं; मनीषिणो मानसमानभक्तम् |
२७ क
यय़ातिरु उवाच:
तन्निःश्रेय़स्तैजसं रूपमेत्य; परां शान्तिं प्राप्नुय़ुः प्रेत्य चेह ||
२७ ख