chevron_left शान्ति पर्व अध्याय ८५
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
१ क
भीष्म उवाच:
वृहस्पतेश्च संवादं शक्रस्य च युधिष्ठिर ||
१ ख
शक्र उवाच:
किं स्विदेकपदं व्रह्मन्पुरुषः सम्यगाचरन् |
२ क
शक्र उवाच:
प्रमाणं सर्वभूतानां यशश्चैवाप्नुय़ान्महत् ||
२ ख
वृहस्पतिरु उवाच:
सान्त्वमेकपदं शक्र पुरुषः सम्यगाचरन् |
३ क
वृहस्पतिरु उवाच:
प्रमाणं सर्वभूतानां यशश्चैवाप्नुय़ान्महत् ||
३ ख
वृहस्पतिरु उवाच:
एतदेकपदं शक्र सर्वलोकसुखावहम् |
४ क
वृहस्पतिरु उवाच:
आचरन्सर्वभूतेषु प्रिय़ो भवति सर्वदा ||
४ ख
वृहस्पतिरु उवाच:
यो हि नाभाषते किञ्चित्सततं भ्रुकुटीमुखः |
५ क
वृहस्पतिरु उवाच:
द्वेष्यो भवति भूतानां स सान्त्वमिह नाचरन् ||
५ ख
वृहस्पतिरु उवाच:
यस्तु पूर्वमभिप्रेक्ष्य पूर्वमेवाभिभाषते |
६ क
वृहस्पतिरु उवाच:
स्मितपूर्वाभिभाषी च तस्य लोकः प्रसीदति ||
६ ख
वृहस्पतिरु उवाच:
दानमेव हि सर्वत्र सान्त्वेनानभिजल्पितम् |
७ क
वृहस्पतिरु उवाच:
न प्रीणय़ति भूतानि निर्व्यञ्जनमिवाशनम् ||
७ ख
वृहस्पतिरु उवाच:
अदाता ह्यपि भूतानां मधुरामीरय़न्गिरम् |
८ क
वृहस्पतिरु उवाच:
सर्वलोकमिमं शक्र सान्त्वेन कुरुते वशे ||
८ ख
वृहस्पतिरु उवाच:
तस्मात्सान्त्वं प्रकर्तव्यं दण्डमाधित्सतामिह |
९ क
वृहस्पतिरु उवाच:
फलं च जनय़त्येवं न चास्योद्विजते जनः ||
९ ख
वृहस्पतिरु उवाच:
सुकृतस्य हि सान्त्वस्य श्लक्ष्णस्य मधुरस्य च |
१० क
वृहस्पतिरु उवाच:
सम्यगासेव्यमानस्य तुल्यं जातु न विद्यते ||
१० ख
भीष्म उवाच:
इत्युक्तः कृतवान्सर्वं तथा शक्रः पुरोधसा |
११ क
भीष्म उवाच:
तथा त्वमपि कौन्तेय़ सम्यगेतत्समाचर ||
११ ख