chevron_left अनुशासन पर्व अध्याय ८५
वसिष्ठ उवाच:
अपि चेदं पुरा राम श्रुतं मे व्रह्मदर्शनम् |
१ क
वसिष्ठ उवाच:
पितामहस्य यद्वृत्तं व्रह्मणः परमात्मनः ||
१ ख
वसिष्ठ उवाच:
देवस्य महतस्तात वारुणीं विभ्रतस्तनुम् |
२ क
वसिष्ठ उवाच:
ऐश्वर्ये वारुणे राम रुद्रस्येशस्य वै प्रभो ||
२ ख
वसिष्ठ उवाच:
आजग्मुर्मुनय़ः सर्वे देवाश्चाग्निपुरोगमाः |
३ क
वसिष्ठ उवाच:
यज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्तिमान् ||
३ ख
वसिष्ठ उवाच:
मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः |
४ क
वसिष्ठ उवाच:
ऋग्वेदश्चागमत्तत्र पदक्रमविभूषितः ||
४ ख
वसिष्ठ उवाच:
लक्षणानि स्वराः स्तोभा निरुक्तं स्वरभक्तय़ः |
५ क
वसिष्ठ उवाच:
ओङ्कारश्चावसन्नेत्रे निग्रहप्रग्रहौ तथा ||
५ ख
वसिष्ठ उवाच:
वेदाश्च सोपनिषदो विद्या सावित्र्यथापि च |
६ क
वसिष्ठ उवाच:
भूतं भव्यं भविष्यच्च दधार भगवाञ्शिवः |
६ ख
वसिष्ठ उवाच:
जुह्वच्चात्मन्यथात्मानं स्वय़मेव तदा प्रभो ||
६ ग
वसिष्ठ उवाच:
देवपत्न्यश्च कन्याश्च देवानां चैव मातरः |
७ क
वसिष्ठ उवाच:
आजग्मुः सहितास्तत्र तदा भृगुकुलोद्वह ||
७ ख
वसिष्ठ उवाच:
यज्ञं पशुपतेः प्रीता वरुणस्य महात्मनः |
८ क
वसिष्ठ उवाच:
स्वय़म्भुवस्तु ता दृष्ट्वा रेतः समपतद्भुवि ||
८ ख
वसिष्ठ उवाच:
तस्य शुक्रस्य निष्पन्दात्पांसून्सङ्गृह्य भूमितः |
९ क
वसिष्ठ उवाच:
प्रास्यत्पूषा कराभ्यां वै तस्मिन्नेव हुताशने ||
९ ख
वसिष्ठ उवाच:
ततस्तस्मिन्सम्प्रवृत्ते सत्रे ज्वलितपावके |
१० क
वसिष्ठ उवाच:
व्रह्मणो जुह्वतस्तत्र प्रादुर्भावो वभूव ह ||
१० ख
वसिष्ठ उवाच:
स्कन्नमात्रं च तच्छुक्रं स्रुवेण प्रतिगृह्य सः |
११ क
वसिष्ठ उवाच:
आज्यवन्मन्त्रवच्चापि सोऽजुहोद्भृगुनन्दन ||
११ ख
वसिष्ठ उवाच:
ततः सञ्जनय़ामास भूतग्रामं स वीर्यवान् |
१२ क
वसिष्ठ उवाच:
ततस्तु तेजसस्तस्माज्जज्ञे लोकेषु तैजसम् ||
१२ ख
वसिष्ठ उवाच:
तमसस्तामसा भावा व्यापि सत्त्वं तथोभय़म् |
१३ क
वसिष्ठ उवाच:
सगुणस्तेजसो नित्यं तमस्याकाशमेव च ||
१३ ख
वसिष्ठ उवाच:
सर्वभूतेष्वथ तथा सत्त्वं तेजस्तथा तमः |
१४ क
वसिष्ठ उवाच:
शुक्रे हुतेऽग्नौ तस्मिंस्तु प्रादुरासंस्त्रय़ः प्रभो ||
१४ ख
वसिष्ठ उवाच:
पुरुषा वपुषा युक्ता युक्ताः प्रसवजैर्गुणैः |
१५ क
वसिष्ठ उवाच:
भृगित्येव भृगुः पूर्वमङ्गारेभ्योऽङ्गिराभवत् ||
१५ ख
वसिष्ठ उवाच:
अङ्गारसंश्रय़ाच्चैव कविरित्यपरोऽभवत् |
१६ क
वसिष्ठ उवाच:
सह ज्वालाभिरुत्पन्नो भृगुस्तस्माद्भृगुः स्मृतः ||
१६ ख
वसिष्ठ उवाच:
मरीचिभ्यो मरीचिस्तु मारीचः कश्यपो ह्यभूत् |
१७ क
वसिष्ठ उवाच:
अङ्गारेभ्योऽङ्गिरास्तात वालखिल्याः शिलोच्चय़ात् |
१७ ख
वसिष्ठ उवाच:
अत्रैवात्रेति च विभो जातमत्रिं वदन्त्यपि ||
१७ ग
वसिष्ठ उवाच:
तथा भस्मव्यपोहेभ्यो व्रह्मर्षिगणसंमिताः |
१८ क
वसिष्ठ उवाच:
वैखानसाः समुत्पन्नास्तपःश्रुतगुणेप्सवः |
१८ ख
वसिष्ठ उवाच:
अश्रुतोऽस्य समुत्पन्नावश्विनौ रूपसंमतौ ||
१८ ग
वसिष्ठ उवाच:
शेषाः प्रजानां पतय़ः स्रोतोभ्यस्तस्य जज्ञिरे |
१९ क
वसिष्ठ उवाच:
ऋषय़ो लोमकूपेभ्यः स्वेदाच्छन्दो मलात्मकम् ||
१९ ख
वसिष्ठ उवाच:
एतस्मात्कारणादाहुरग्निं सर्वास्तु देवताः |
२० क
वसिष्ठ उवाच:
ऋषय़ः श्रुतसम्पन्ना वेदप्रामाण्यदर्शनात् ||
२० ख
वसिष्ठ उवाच:
यानि दारूणि ते मासा निर्यासाः पक्षसञ्ज्ञिताः |
२१ क
वसिष्ठ उवाच:
अहोरात्रा मुहूर्तास्तु पित्तं ज्योतिश्च वारुणम् ||
२१ ख
वसिष्ठ उवाच:
रौद्रं लोहितमित्याहुर्लोहितात्कनकं स्मृतम् |
२२ क
वसिष्ठ उवाच:
तन्मैत्रमिति विज्ञेय़ं धूमाच्च वसवः स्मृताः ||
२२ ख
वसिष्ठ उवाच:
अर्चिषो याश्च ते रुद्रास्तथादित्या महाप्रभाः |
२३ क
वसिष्ठ उवाच:
उद्दिष्टास्ते तथाङ्गारा ये धिष्ण्येषु दिवि स्थिताः ||
२३ ख
वसिष्ठ उवाच:
आदिनाथश्च लोकस्य तत्परं व्रह्म तद्ध्रुवम् |
२४ क
वसिष्ठ उवाच:
सर्वकामदमित्याहुस्तत्र हव्यमुदावहत् ||
२४ ख
वसिष्ठ उवाच:
ततोऽव्रवीन्महादेवो वरुणः परमात्मकः |
२५ क
वसिष्ठ उवाच:
मम सत्रमिदं दिव्यमहं गृहपतिस्त्विह ||
२५ ख
वसिष्ठ उवाच:
त्रीणि पूर्वाण्यपत्यानि मम तानि न संशय़ः |
२६ क
वसिष्ठ उवाच:
इति जानीत खगमा मम यज्ञफलं हि तत् ||
२६ ख
अग्निरु उवाच:
मदङ्गेभ्यः प्रसूतानि मदाश्रय़कृतानि च |
२७ क
अग्निरु उवाच:
ममैव तान्यपत्यानि वरुणो ह्यवशात्मकः ||
२७ ख
अग्निरु उवाच:
अथाव्रवील्लोकगुरुर्व्रह्मा लोकपितामहः |
२८ क
अग्निरु उवाच:
ममैव तान्यपत्यानि मम शुक्रं हुतं हि तत् ||
२८ ख
अग्निरु उवाच:
अहं वक्ता च मन्त्रस्य होता शुक्रस्य चैव ह |
२९ क
अग्निरु उवाच:
यस्य वीजं फलं तस्य शुक्रं चेत्कारणं मतम् ||
२९ ख
अग्निरु उवाच:
ततोऽव्रुवन्देवगणाः पितामहमुपेत्य वै |
३० क
अग्निरु उवाच:
कृताञ्जलिपुटाः सर्वे शिरोभिरभिवन्द्य च ||
३० ख
अग्निरु उवाच:
वय़ं च भगवन्सर्वे जगच्च सचराचरम् |
३१ क
अग्निरु उवाच:
तवैव प्रसवाः सर्वे तस्मादग्निर्विभावसुः |
३१ ख
अग्निरु उवाच:
वरुणश्चेश्वरो देवो लभतां काममीप्सितम् ||
३१ ग
अग्निरु उवाच:
निसर्गाद्वरुणश्चापि व्रह्मणो यादसां पतिः |
३२ क
अग्निरु उवाच:
जग्राह वै भृगुं पूर्वमपत्यं सूर्यवर्चसम् ||
३२ ख
अग्निरु उवाच:
ईश्वरोऽङ्गिरसं चाग्नेरपत्यार्थेऽभ्यकल्पय़त् |
३३ क
अग्निरु उवाच:
पितामहस्त्वपत्यं वै कविं जग्राह तत्त्ववित् ||
३३ ख
अग्निरु उवाच:
तदा स वारुणः ख्यातो भृगुः प्रसवकर्मकृत् |
३४ क
अग्निरु उवाच:
आग्नेय़स्त्वङ्गिराः श्रीमान्कविर्व्राह्मो महाय़शाः |
३४ ख
अग्निरु उवाच:
भार्गवाङ्गिरसौ लोके लोकसन्तानलक्षणौ ||
३४ ग
अग्निरु उवाच:
एते विप्रवराः सर्वे प्रजानां पतय़स्त्रय़ः |
३५ क
अग्निरु उवाच:
सर्वं सन्तानमेतेषामिदमित्युपधारय़ ||
३५ ख
अग्निरु उवाच:
भृगोस्तु पुत्रास्तत्रासन्सप्त तुल्या भृगोर्गुणैः |
३६ क
अग्निरु उवाच:
च्यवनो वज्रशीर्षश्च शुचिरौर्वस्तथैव च ||
३६ ख
अग्निरु उवाच:
शुक्रो वरेण्यश्च विभुः सवनश्चेति सप्त ते |
३७ क
अग्निरु उवाच:
भार्गवा वारुणाः सर्वे येषां वंशे भवानपि ||
३७ ख
अग्निरु उवाच:
अष्टौ चाङ्गिरसः पुत्रा वारुणास्तेऽप्युदाहृताः |
३८ क
अग्निरु उवाच:
वृहस्पतिरुतथ्यश्च वय़स्यः शान्तिरेव च ||
३८ ख
अग्निरु उवाच:
घोरो विरूपः संवर्तः सुधन्वा चाष्टमः स्मृतः |
३९ क
अग्निरु उवाच:
एतेऽष्टावग्निजाः सर्वे ज्ञाननिष्ठा निरामय़ाः ||
३९ ख
अग्निरु उवाच:
व्राह्मणस्य कवेः पुत्रा वारुणास्तेऽप्युदाहृताः |
४० क
अग्निरु उवाच:
अष्टौ प्रसवजैर्युक्ता गुणैर्व्रह्मविदः शुभाः ||
४० ख
अग्निरु उवाच:
कविः काव्यश्च विष्णुश्च वुद्धिमानुशनास्तथा |
४१ क
अग्निरु उवाच:
भृगुश्च विरजाश्चैव काशी चोग्रश्च धर्मवित् ||
४१ ख
अग्निरु उवाच:
अष्टौ कविसुता ह्येते सर्वमेभिर्जगत्ततम् |
४२ क
अग्निरु उवाच:
प्रजापतय़ एते हि प्रजानां यैरिमाः प्रजाः ||
४२ ख
अग्निरु उवाच:
एवमङ्गिरसश्चैव कवेश्च प्रसवान्वय़ैः |
४३ क
अग्निरु उवाच:
भृगोश्च भृगुशार्दूल वंशजैः सततं जगत् ||
४३ ख
अग्निरु उवाच:
वरुणश्चादितो विप्र जग्राह प्रभुरीश्वरः |
४४ क
अग्निरु उवाच:
कविं तात भृगुं चैव तस्मात्तौ वारुणौ स्मृतौ ||
४४ ख
अग्निरु उवाच:
जग्राहाङ्गिरसं देवः शिखी तस्माद्धुताशनः |
४५ क
अग्निरु उवाच:
तस्मादङ्गिरसो ज्ञेय़ाः सर्व एव तदन्वय़ाः ||
४५ ख
अग्निरु उवाच:
व्रह्मा पितामहः पूर्वं देवताभिः प्रसादितः |
४६ क
अग्निरु उवाच:
इमे नः सन्तरिष्यन्ति प्रजाभिर्जगदीश्वराः ||
४६ ख
अग्निरु उवाच:
सर्वे प्रजानां पतय़ः सर्वे चातितपस्विनः |
४७ क
अग्निरु उवाच:
त्वत्प्रसादादिमं लोकं तारय़िष्यन्ति शाश्वतम् ||
४७ ख
अग्निरु उवाच:
तथैव वंशकर्तारस्तव तेजोविवर्धनाः |
४८ क