chevron_left भीष्म पर्व अध्याय ८५
धृतराष्ट्र उवाच:
दृष्ट्वा मम हतान्पुत्रान्वहूनेकेन सञ्जय़ |
१ क
धृतराष्ट्र उवाच:
भीष्मो द्रोणः कृपश्चैव किमकुर्वत संय़ुगे ||
१ ख
धृतराष्ट्र उवाच:
अहन्यहनि मे पुत्राः क्षय़ं गच्छन्ति सञ्जय़ |
२ क
धृतराष्ट्र उवाच:
मन्येऽहं सर्वथा सूत दैवेनोपहता भृशम् ||
२ ख
धृतराष्ट्र उवाच:
यत्र मे तनय़ाः सर्वे जीय़न्ते न जय़न्त्युत |
३ क
धृतराष्ट्र उवाच:
यत्र भीष्मस्य द्रोणस्य कृपस्य च महात्मनः ||
३ ख
धृतराष्ट्र उवाच:
सौमदत्तेश्च वीरस्य भगदत्तस्य चोभय़ोः |
४ क
धृतराष्ट्र उवाच:
अश्वत्थाम्नस्तथा तात शूराणां सुमहात्मनाम् ||
४ ख
धृतराष्ट्र उवाच:
अन्येषां चैव वीराणां मध्यगास्तनय़ा मम |
५ क
धृतराष्ट्र उवाच:
यदहन्यन्त सङ्ग्रामे किमन्यद्भागधेय़तः ||
५ ख
धृतराष्ट्र उवाच:
न हि दुर्योधनो मन्दः पुरा प्रोक्तमवुध्यत |
६ क
धृतराष्ट्र उवाच:
वार्यमाणो मय़ा तात भीष्मेण विदुरेण च ||
६ ख
धृतराष्ट्र उवाच:
गान्धार्या चैव दुर्मेधाः सततं हितकाम्यया |
७ क
धृतराष्ट्र उवाच:
नाववुध्यत्पुरा मोहात्तस्य प्राप्तमिदं फलम् ||
७ ख
धृतराष्ट्र उवाच:
यद्भीमसेनः समरे पुत्रान्मम विचेतसः |
८ क
धृतराष्ट्र उवाच:
अहन्यहनि सङ्क्रुद्धो नय़ते यमसादनम् ||
८ ख
सञ्जय़ उवाच:
इदं तत्समनुप्राप्तं क्षत्तुर्वचनमुत्तमम् |
९ क
सञ्जय़ उवाच:
न वुद्धवानसि विभो प्रोच्यमानं हितं तदा ||
९ ख
सञ्जय़ उवाच:
निवारय़ सुतान्द्यूतात्पाण्डवान्मा द्रुहेति च |
१० क
सञ्जय़ उवाच:
सुहृदां हितकामानां व्रुवतां तत्तदेव च ||
१० ख
सञ्जय़ उवाच:
न शुश्रूषसि यद्वाक्यं मर्त्यः पथ्यमिवौषधम् |
११ क
सञ्जय़ उवाच:
तदेव त्वामनुप्राप्तं वचनं साधु भाषितम् ||
११ ख
सञ्जय़ उवाच:
विदुरद्रोणभीष्माणां तथान्येषां हितैषिणाम् |
१२ क
सञ्जय़ उवाच:
अकृत्वा वचनं पथ्यं क्षय़ं गच्छन्ति कौरवाः ||
१२ ख
सञ्जय़ उवाच:
तदेतत्समतिक्रान्तं पूर्वमेव विशां पते |
१३ क
सञ्जय़ उवाच:
तस्मान्मे शृणु तत्त्वेन यथा युद्धमवर्तत ||
१३ ख
सञ्जय़ उवाच:
मध्याह्ने सुमहारौद्रः सङ्ग्रामः समपद्यत |
१४ क
सञ्जय़ उवाच:
लोकक्षय़करो राजंस्तन्मे निगदतः शृणु ||
१४ ख
सञ्जय़ उवाच:
ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् |
१५ क
सञ्जय़ उवाच:
संरव्धान्यभ्यधावन्त भीष्ममेव जिघांसय़ा ||
१५ ख
सञ्जय़ उवाच:
धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः |
१६ क
सञ्जय़ उवाच:
युक्तानीका महाराज भीष्ममेव समभ्ययुः ||
१६ ख
सञ्जय़ उवाच:
अर्जुनो द्रौपदेय़ाश्च चेकितानश्च संय़ुगे |
१७ क
सञ्जय़ उवाच:
दुर्योधनसमादिष्टान्राज्ञः सर्वान्समभ्ययुः ||
१७ ख
सञ्जय़ उवाच:
अभिमन्युस्तथा वीरो हैडिम्वश्च महारथः |
१८ क
सञ्जय़ उवाच:
भीमसेनश्च सङ्क्रुद्धस्तेऽभ्यधावन्त कौरवान् ||
१८ ख
सञ्जय़ उवाच:
त्रिधाभूतैरवध्यन्त पाण्डवैः कौरवा युधि |
१९ क
सञ्जय़ उवाच:
तथैव कौरवे राजन्नवध्यन्त परे रणे ||
१९ ख
सञ्जय़ उवाच:
द्रोणस्तु रथिनां श्रेष्ठः सोमकान्सृञ्जय़ैः सह |
२० क
सञ्जय़ उवाच:
अभ्यद्रवत सङ्क्रुद्धः प्रेषय़िष्यन्यमक्षय़म् ||
२० ख
सञ्जय़ उवाच:
तत्राक्रन्दो महानासीत्सृञ्जय़ानां महात्मनाम् |
२१ क
सञ्जय़ उवाच:
वध्यतां समरे राजन्भारद्वाजेन धन्विना ||
२१ ख
सञ्जय़ उवाच:
द्रोणेन निहतास्तत्र क्षत्रिय़ा वहवो रणे |
२२ क
सञ्जय़ उवाच:
विवेष्टन्तः स्म दृश्यन्ते व्याधिक्लिष्टा नरा इव ||
२२ ख
सञ्जय़ उवाच:
कूजतां क्रन्दतां चैव स्तनतां चैव संय़ुगे |
२३ क
सञ्जय़ उवाच:
अनिशं श्रूय़ते शव्दः क्षुत्कृशानां नृणामिव ||
२३ ख
सञ्जय़ उवाच:
तथैव कौरवेय़ाणां भीमसेनो महावलः |
२४ क
सञ्जय़ उवाच:
चकार कदनं घोरं क्रुद्धः काल इवापरः ||
२४ ख
सञ्जय़ उवाच:
वध्यतां तत्र सैन्यानामन्योन्येन महारणे |
२५ क
सञ्जय़ उवाच:
प्रावर्तत नदी घोरा रुधिरौघप्रवाहिनी ||
२५ ख
सञ्जय़ उवाच:
स सङ्ग्रामो महाराज घोररूपोऽभवन्महान् |
२६ क
सञ्जय़ उवाच:
कुरूणां पाण्डवानां च यमराष्ट्रविवर्धनः ||
२६ ख
सञ्जय़ उवाच:
ततो भीमो रणे क्रुद्धो रभसश्च विशेषतः |
२७ क
सञ्जय़ उवाच:
गजानीकं समासाद्य प्रेषय़ामास मृत्यवे ||
२७ ख
सञ्जय़ उवाच:
तत्र भारत भीमेन नाराचाभिहता गजाः |
२८ क
सञ्जय़ उवाच:
पेतुः सेदुश्च नेदुश्च दिशश्च परिवभ्रमुः ||
२८ ख
सञ्जय़ उवाच:
छिन्नहस्ता महानागाश्छिन्नपादाश्च मारिष |
२९ क
सञ्जय़ उवाच:
क्रौञ्चवद्व्यनदन्भीताः पृथिवीमधिशिश्यिरे ||
२९ ख
सञ्जय़ उवाच:
नकुलः सहदेवश्च हय़ानीकमभिद्रुतौ |
३० क
सञ्जय़ उवाच:
ते हय़ाः काञ्चनापीडा रुक्मभाण्डपरिच्छदाः |
३० ख
सञ्जय़ उवाच:
वध्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः ||
३० ग
सञ्जय़ उवाच:
पतद्भिश्च हय़ै राजन्समास्तीर्यत मेदिनी |
३१ क
सञ्जय़ उवाच:
निर्जिह्वैश्च श्वसद्भिश्च कूजद्भिश्च गतासुभिः |
३१ ख
सञ्जय़ उवाच:
हय़ैर्वभौ नरश्रेष्ठ नानारूपधरैर्धरा ||
३१ ग
सञ्जय़ उवाच:
अर्जुनेन हतैः सङ्ख्ये तथा भारत वाजिभिः |
३२ क
सञ्जय़ उवाच:
प्रवभौ वसुधा घोरा तत्र तत्र विशां पते ||
३२ ख
सञ्जय़ उवाच:
रथैर्भग्नैर्ध्वजैश्छिन्नैश्छत्रैश्च सुमहाप्रभैः |
३३ क
सञ्जय़ उवाच:
हारैर्निष्कैः सकेय़ूरैः शिरोभिश्च सकुण्डलैः ||
३३ ख
सञ्जय़ उवाच:
उष्णीषैरपविद्धैश्च पताकाभिश्च सर्वषः |
३४ क
सञ्जय़ उवाच:
अनुकर्षैः शुभै राजन्योक्त्रैश्चव्यसुरश्मिभिः |
३४ ख
सञ्जय़ उवाच:
सञ्छन्ना वसुधा भाति वसन्ते कुसुमैरिव ||
३४ ग
सञ्जय़ उवाच:
एवमेष क्षय़ो वृत्तः पाण्डूनामपि भारत |
३५ क
सञ्जय़ उवाच:
क्रुद्धे शान्तनवे भीष्मे द्रोणे च रथसत्तमे ||
३५ ख
सञ्जय़ उवाच:
अश्वत्थाम्नि कृपे चैव तथैव कृतवर्मणि |
३६ क
सञ्जय़ उवाच:
तथेतरेषु क्रुद्धेषु तावकानामपि क्षय़ः ||
३६ ख