chevron_left द्रोण पर्व अध्याय ८५
धृतराष्ट्र उवाच:
भारद्वाजं कथं युद्धे युय़ुधानोऽभ्यवारय़त् |
१ क
धृतराष्ट्र उवाच:
सञ्जय़ाचक्ष्व तत्त्वेन परं कौतूहलं हि मे ||
१ ख
सञ्जय़ उवाच:
शृणु राजन्महाप्राज्ञ सङ्ग्रामं लोमहर्षणम् |
२ क
सञ्जय़ उवाच:
द्रोणस्य पाण्डवैः सार्धं युय़ुधानपुरोगमैः ||
२ ख
सञ्जय़ उवाच:
वध्यमानं वलं दृष्ट्वा युय़ुधानेन मारिष |
३ क
सञ्जय़ उवाच:
अभ्यद्रवत्स्वय़ं द्रोणः सात्यकिं सत्यविक्रमम् ||
३ ख
सञ्जय़ उवाच:
तमापतन्तं सहसा भारद्वाजं महारथम् |
४ क
सञ्जय़ उवाच:
सात्यकिः पञ्चविंशत्या क्षुद्रकाणां समार्पय़त् ||
४ ख
सञ्जय़ उवाच:
द्रोणोऽपि युधि विक्रान्तो युय़ुधानं समाहितः |
५ क
सञ्जय़ उवाच:
अविध्यत्पञ्चभिस्तूर्णं हेमपुङ्खैः शिलाशितैः ||
५ ख
सञ्जय़ उवाच:
ते वर्म भित्त्वा सुदृढं द्विषत्पिशितभोजनाः |
६ क
सञ्जय़ उवाच:
अभ्यगुर्धरणीं राजञ्श्वसन्त इव पन्नगाः ||
६ ख
सञ्जय़ उवाच:
दीर्घवाहुरभिक्रुद्धस्तोत्त्रार्दित इव द्विपः |
७ क
सञ्जय़ उवाच:
द्रोणं पञ्चाशताविध्यन्नाराचैरग्निसंनिभैः ||
७ ख
सञ्जय़ उवाच:
भारद्वाजो रणे विद्धो युय़ुधानेन सत्वरम् |
८ क
सञ्जय़ उवाच:
सात्यकिं वहुभिर्वाणैर्यतमानमविध्यत ||
८ ख
सञ्जय़ उवाच:
ततः क्रुद्धो महेष्वासो भूय़ एव महावलः |
९ क
सञ्जय़ उवाच:
सात्वतं पीडय़ामास शतेन नतपर्वणा ||
९ ख
सञ्जय़ उवाच:
स वध्यमानः समरे भारद्वाजेन सात्यकिः |
१० क
सञ्जय़ उवाच:
नाभ्यपद्यत कर्तव्यं किञ्चिदेव विशां पते ||
१० ख
सञ्जय़ उवाच:
विषण्णवदनश्चापि युय़ुधानोऽभवन्नृप |
११ क
सञ्जय़ उवाच:
भारद्वाजं रणे दृष्ट्वा विसृजन्तं शिताञ्शरान् ||
११ ख
सञ्जय़ उवाच:
तं तु सम्प्रेक्ष्य ते पुत्राः सैनिकाश्च विशां पते |
१२ क
सञ्जय़ उवाच:
प्रहृष्टमनसो भूत्वा सिंहवद्व्यनदन्मुहुः ||
१२ ख
सञ्जय़ उवाच:
तं श्रुत्वा निनदं घोरं पीड्यमानं च माधवम् |
१३ क
सञ्जय़ उवाच:
युधिष्ठिरोऽव्रवीद्राजन्सर्वसैन्यानि भारत ||
१३ ख
सञ्जय़ उवाच:
एष वृष्णिवरो वीरः सात्यकिः सत्यकर्मकृत् |
१४ क
सञ्जय़ उवाच:
ग्रस्यते युधि वीरेण भानुमानिव राहुणा |
१४ ख
सञ्जय़ उवाच:
अभिद्रवत गच्छध्वं सात्यकिर्यत्र युध्यते ||
१४ ग
सञ्जय़ उवाच:
धृष्टद्युम्नं च पाञ्चाल्यमिदमाह जनाधिप |
१५ क
सञ्जय़ उवाच:
अभिद्रव द्रुतं द्रोणं किं नु तिष्ठसि पार्षत |
१५ ख
सञ्जय़ उवाच:
न पश्यसि भय़ं घोरं द्रोणान्नः समुपस्थितम् ||
१५ ग
सञ्जय़ उवाच:
असौ द्रोणो महेष्वासो युय़ुधानेन संय़ुगे |
१६ क
सञ्जय़ उवाच:
क्रीडते सूत्रवद्धेन पक्षिणा वालको यथा ||
१६ ख
सञ्जय़ उवाच:
तत्रैव सर्वे गच्छन्तु भीमसेनमुखा रथाः |
१७ क
सञ्जय़ उवाच:
त्वय़ैव सहिता यत्ता युय़ुधानरथं प्रति ||
१७ ख
सञ्जय़ उवाच:
पृष्ठतोऽनुगमिष्यामि त्वामहं सहसैनिकः |
१८ क
सञ्जय़ उवाच:
सात्यकिं मोक्षय़स्वाद्य यमदंष्ट्रान्तरं गतम् ||
१८ ख
सञ्जय़ उवाच:
एवमुक्त्वा ततो राजा सर्वसैन्येन पाण्डवः |
१९ क
सञ्जय़ उवाच:
अभ्यद्रवद्रणे द्रोणं युय़ुधानस्य कारणात् ||
१९ ख
सञ्जय़ उवाच:
तत्रारावो महानासीद्द्रोणमेकं युय़ुत्सताम् |
२० क
सञ्जय़ उवाच:
पाण्डवानां च भद्रं ते सृञ्जय़ानां च सर्वशः ||
२० ख
सञ्जय़ उवाच:
ते समेत्य नरव्याघ्रा भारद्वाजं महारथम् |
२१ क
सञ्जय़ उवाच:
अभ्यवर्षञ्शरैस्तीक्ष्णैः कङ्कवर्हिणवाजितैः ||
२१ ख
सञ्जय़ उवाच:
स्मय़न्नेव तु तान्वीरान्द्रोणः प्रत्यग्रहीत्स्वय़म् |
२२ क
सञ्जय़ उवाच:
अतिथीनागतान्यद्वत्सलिलेनासनेन च ||
२२ ख
सञ्जय़ उवाच:
तर्पितास्ते शरैस्तस्य भारद्वाजस्य धन्विनः |
२३ क
सञ्जय़ उवाच:
आतिथेय़गृहं प्राप्य नृपतेऽतिथय़ो यथा ||
२३ ख
सञ्जय़ उवाच:
भारद्वाजं च ते सर्वे न शेकुः प्रतिवीक्षितुम् |
२४ क
सञ्जय़ उवाच:
मध्यन्दिनमनुप्राप्तं सहस्रांशुमिव प्रभो ||
२४ ख
सञ्जय़ उवाच:
तांस्तु सर्वान्महेष्वासान्द्रोणः शस्त्रभृतां वरः |
२५ क
सञ्जय़ उवाच:
अतापय़च्छरव्रातैर्गभस्तिभिरिवांशुमान् ||
२५ ख
सञ्जय़ उवाच:
वध्यमाना रणे राजन्पाण्डवाः सृञ्जय़ास्तथा |
२६ क
सञ्जय़ उवाच:
त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः ||
२६ ख
सञ्जय़ उवाच:
द्रोणस्य च व्यदृश्यन्त विसर्पन्तो महाशराः |
२७ क
सञ्जय़ उवाच:
घभस्तय़ इवार्कस्य प्रतपन्तः समन्ततः ||
२७ ख
सञ्जय़ उवाच:
तस्मिन्द्रोणेन निहताः पाञ्चालाः पञ्चविंशतिः |
२८ क
सञ्जय़ उवाच:
महारथसमाख्याता धृष्टद्युम्नस्य संमताः ||
२८ ख
सञ्जय़ उवाच:
पाण्डूनां सर्वसैन्येषु पाञ्चालानां तथैव च |
२९ क
सञ्जय़ उवाच:
द्रोणं स्म ददृशुः शूरं विनिघ्नन्तं वरान्वरान् ||
२९ ख
सञ्जय़ उवाच:
केकय़ानां शतं हत्वा विद्राव्य च समन्ततः |
३० क
सञ्जय़ उवाच:
द्रोणस्तस्थौ महाराज व्यादितास्य इवान्तकः ||
३० ख
सञ्जय़ उवाच:
पाञ्चालान्सृञ्जय़ान्मत्स्यान्केकय़ान्पाण्डवानपि |
३१ क
सञ्जय़ उवाच:
द्रोणोऽजय़न्महावाहुः शतशोऽथ सहस्रशः ||
३१ ख
सञ्जय़ उवाच:
तेषां समभवच्छव्दो वध्यतां द्रोणसाय़कैः |
३२ क
सञ्जय़ उवाच:
वनौकसामिवारण्ये दह्यतां धूमकेतुना ||
३२ ख
सञ्जय़ उवाच:
तत्र देवाः सगन्धर्वाः पितरश्चाव्रुवन्नृप |
३३ क
सञ्जय़ उवाच:
एते द्रवन्ति पाञ्चालाः पाण्डवाश्च ससैनिकाः ||
३३ ख
सञ्जय़ उवाच:
तं तथा समरे द्रोणं निघ्नन्तं सोमकान्रणे |
३४ क
सञ्जय़ उवाच:
न चाप्यभिय़युः केचिदपरे नैव विव्यधुः ||
३४ ख
सञ्जय़ उवाच:
वर्तमाने तथा रौद्रे तस्मिन्वीरवरक्षय़े |
३५ क
सञ्जय़ उवाच:
अशृणोत्सहसा पार्थः पाञ्चजन्यस्य निस्वनम् ||
३५ ख
सञ्जय़ उवाच:
पूरितो वासुदेवेन शङ्खराट्स्वनते भृशम् |
३६ क
सञ्जय़ उवाच:
युध्यमानेषु वीरेषु सैन्धवस्याभिरक्षिषु |
३६ ख
सञ्जय़ उवाच:
नदत्सु धार्तराष्ट्रेषु विजय़स्य रथं प्रति ||
३६ ग
सञ्जय़ उवाच:
गाण्डीवस्य च निर्घोषे विप्रनष्टे समन्ततः |
३७ क
सञ्जय़ उवाच:
कश्मलाभिहतो राजा चिन्तय़ामास पाण्डवः ||
३७ ख
सञ्जय़ उवाच:
न नूनं स्वस्ति पार्थस्य यथा नदति शङ्खराट् |
३८ क
सञ्जय़ उवाच:
कौरवाश्च यथा हृष्टा विनदन्ति मुहुर्मुहुः ||
३८ ख
सञ्जय़ उवाच:
एवं सञ्चिन्तय़ित्वा तु व्याकुलेनान्तरात्मना |
३९ क
सञ्जय़ उवाच:
अजातशत्रुः कौन्तेय़ः सात्वतं प्रत्यभाषत ||
३९ ख
सञ्जय़ उवाच:
वाष्पगद्गदय़ा वाचा मुह्यमानो मुहुर्मुहुः |
४० क
सञ्जय़ उवाच:
कृत्यस्यानन्तरापेक्षी शैनेय़ं शिनिपुङ्गवम् ||
४० ख
सञ्जय़ उवाच:
यः स धर्मः पुरा दृष्टः सद्भिः शैनेय़ शाश्वतः |
४१ क
सञ्जय़ उवाच:
साम्पराय़े सुहृत्कृत्ये तस्य कालोऽय़मागतः ||
४१ ख
सञ्जय़ उवाच:
सर्वेष्वपि च योधेषु चिन्तय़ञ्शिनिपुङ्गव |
४२ क
सञ्जय़ उवाच:
त्वत्तः सुहृत्तमं कञ्चिन्नाभिजानामि सात्यके ||
४२ ख
सञ्जय़ उवाच:
यो हि प्रीतमना नित्यं यश्च नित्यमनुव्रतः |
४३ क
सञ्जय़ उवाच:
स कार्ये साम्पराय़े तु निय़ोज्य इति मे मतिः ||
४३ ख
सञ्जय़ उवाच:
यथा च केशवो नित्यं पाण्डवानां पराय़णम् |
४४ क
सञ्जय़ उवाच:
तथा त्वमपि वार्ष्णेय़ कृष्णतुल्यपराक्रमः ||
४४ ख
सञ्जय़ उवाच:
सोऽहं भारं समाधास्ये त्वय़ि तं वोढुमर्हसि |
४५ क
सञ्जय़ उवाच:
अभिप्राय़ं च मे नित्यं न वृथा कर्तुमर्हसि ||
४५ ख
सञ्जय़ उवाच:
स त्वं भ्रातुर्वय़स्यस्य गुरोरपि च संय़ुगे |
४६ क
सञ्जय़ उवाच:
कुरु कृच्छ्रे सहाय़ार्थमर्जुनस्य नरर्षभ ||
४६ ख
सञ्जय़ उवाच:
त्वं हि सत्यव्रतः शूरो मित्राणामभय़ङ्करः |
४७ क
सञ्जय़ उवाच:
लोके विख्याय़से वीर कर्मभिः सत्यवागिति ||
४७ ख
सञ्जय़ उवाच:
यो हि शैनेय़ मित्रार्थे युध्यमानस्त्यजेत्तनुम् |
४८ क
सञ्जय़ उवाच:
पृथिवीं वा द्विजातिभ्यो यो दद्यात्सममेव तत् ||
४८ ख
सञ्जय़ उवाच:
श्रुताश्च वहवोऽस्माभी राजानो ये दिवं गताः |
४९ क