chevron_left द्रोण पर्व अध्याय ८६
सञ्जय़ उवाच:
प्रीतिय़ुक्तं च हृद्यं च मधुराक्षरमेव च |
१ क
सञ्जय़ उवाच:
कालय़ुक्तं च चित्रं च स्वतय़ा चाभिभाषितम् ||
१ ख
सञ्जय़ उवाच:
धर्मराजस्य तद्वाक्यं निशम्य शिनिपुङ्गवः |
२ क
सञ्जय़ उवाच:
सात्यकिर्भरतश्रेष्ठ प्रत्युवाच युधिष्ठिरम् ||
२ ख
सञ्जय़ उवाच:
श्रुतं ते गदतो वाक्यं सर्वमेतन्मय़ाच्युत |
३ क
सञ्जय़ उवाच:
न्याय़युक्तं च चित्रं च फल्गुनार्थे यशस्करम् ||
३ ख
सञ्जय़ उवाच:
एवंविधे तथा काले मदृशं प्रेक्ष्य संमतम् |
४ क
सञ्जय़ उवाच:
वक्तुमर्हसि राजेन्द्र यथा पार्थं तथैव माम् ||
४ ख
सञ्जय़ उवाच:
न मे धनञ्जय़स्यार्थे प्राणा रक्ष्याः कथञ्चन |
५ क
सञ्जय़ उवाच:
त्वत्प्रय़ुक्तः पुनरहं किं न कुर्यां महाहवे ||
५ ख
सञ्जय़ उवाच:
लोकत्रय़ं योधय़ेय़ं सदेवासुरमानुषम् |
६ क
सञ्जय़ उवाच:
त्वत्प्रय़ुक्तो नरेन्द्रेह किमुतैतत्सुदुर्वलम् ||
६ ख
सञ्जय़ उवाच:
सुय़ोधनवलं त्वद्य योधय़िष्ये समन्ततः |
७ क
सञ्जय़ उवाच:
विजेष्ये च रणे राजन्सत्यमेतद्व्रवीमि ते ||
७ ख
सञ्जय़ उवाच:
कुशल्यहं कुशलिनं समासाद्य धनञ्जय़म् |
८ क
सञ्जय़ उवाच:
हते जय़द्रथे राजन्पुनरेष्यामि तेऽन्तिकम् ||
८ ख
सञ्जय़ उवाच:
अवश्यं तु मय़ा सर्वं विज्ञाप्यस्त्वं नराधिप |
९ क
सञ्जय़ उवाच:
वासुदेवस्य यद्वाक्यं फल्गुनस्य च धीमतः ||
९ ख
सञ्जय़ उवाच:
दृढं त्वभिपरीतोऽहमर्जुनेन पुनः पुनः |
१० क
सञ्जय़ उवाच:
मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः ||
१० ख
सञ्जय़ उवाच:
अद्य माधव राजानमप्रमत्तोऽनुपालय़ |
११ क
सञ्जय़ उवाच:
आर्यां युद्धे मतिं कृत्वा यावद्धन्मि जय़द्रथम् ||
११ ख
सञ्जय़ उवाच:
त्वय़ि वाहं महावाहो प्रद्युम्ने वा महारथे |
१२ क
सञ्जय़ उवाच:
नृपं निक्षिप्य गच्छेय़ं निरपेक्षो जय़द्रथम् ||
१२ ख
सञ्जय़ उवाच:
जानीषे हि रणे द्रोणं रभसं श्रेष्ठसंमतम् |
१३ क
सञ्जय़ उवाच:
प्रतिज्ञा चापि ते नित्यं श्रुता द्रोणस्य माधव ||
१३ ख
सञ्जय़ उवाच:
ग्रहणं धर्मराजस्य भारद्वाजोऽनुगृध्यति |
१४ क
सञ्जय़ उवाच:
शक्तश्चापि रणे द्रोणो निगृहीतुं युधिष्ठिरम् ||
१४ ख
सञ्जय़ उवाच:
एवं त्वय़ि समाधाय़ धर्मराजं नरोत्तमम् |
१५ क
सञ्जय़ उवाच:
अहमद्य गमिष्यामि सैन्धवस्य वधाय़ हि ||
१५ ख
सञ्जय़ उवाच:
जय़द्रथमहं हत्वा ध्रुवमेष्यामि माधव |
१६ क
सञ्जय़ उवाच:
धर्मराजं यथा द्रोणो निगृह्णीय़ाद्रणे वलात् ||
१६ ख
सञ्जय़ उवाच:
निगृहीते नरश्रेष्ठे भारद्वाजेन माधव |
१७ क
सञ्जय़ उवाच:
सैन्धवस्य वधो न स्यान्ममाप्रीतिस्तथा भवेत् ||
१७ ख
सञ्जय़ उवाच:
एवं गते नरश्रेष्ठ पाण्डवे सत्यवादिनि |
१८ क
सञ्जय़ उवाच:
अस्माकं गमनं व्यक्तं वनं प्रति भवेत्पुनः ||
१८ ख
सञ्जय़ उवाच:
सोऽय़ं मम जय़ो व्यक्तं व्यर्थ एव भविष्यति |
१९ क
सञ्जय़ उवाच:
यदि द्रोणो रणे क्रुद्धो निगृह्णीय़ाद्युधिष्ठिरम् ||
१९ ख
सञ्जय़ उवाच:
स त्वमद्य महावाहो प्रिय़ार्थं मम माधव |
२० क
सञ्जय़ उवाच:
जय़ार्थं च यशोर्थं च रक्ष राजानमाहवे ||
२० ख
सञ्जय़ उवाच:
स भवान्मय़ि निक्षेपो निक्षिप्तः सव्यसाचिना |
२१ क
सञ्जय़ उवाच:
भारद्वाजाद्भय़ं नित्यं पश्यमानेन ते प्रभो ||
२१ ख
सञ्जय़ उवाच:
तस्यापि च महावाहो नित्यं पश्यति संय़ुगे |
२२ क
सञ्जय़ उवाच:
नान्यं हि प्रतिय़ोद्धारं रौक्मिणेय़ादृते प्रभो |
२२ ख
सञ्जय़ उवाच:
मां वापि मन्यते युद्धे भारद्वाजस्य धीमतः ||
२२ ग
सञ्जय़ उवाच:
सोऽहं सम्भावनां चैतामाचार्यवचनं च तत् |
२३ क
सञ्जय़ उवाच:
पृष्ठतो नोत्सहे कर्तुं त्वां वा त्यक्तुं महीपते ||
२३ ख
सञ्जय़ उवाच:
आचार्यो लघुहस्तत्वादभेद्यकवचावृतः |
२४ क
सञ्जय़ उवाच:
उपलभ्य रणे क्रीडेद्यथा शकुनिना शिशुः ||
२४ ख
सञ्जय़ उवाच:
यदि कार्ष्णिर्धनुष्पाणिरिह स्यान्मकरध्वजः |
२५ क
सञ्जय़ उवाच:
तस्मै त्वां विसृजेय़ं वै स त्वां रक्षेद्यथार्जुनः ||
२५ ख
सञ्जय़ उवाच:
कुरु त्वमात्मनो गुप्तिं कस्ते गोप्ता गते मय़ि |
२६ क
सञ्जय़ उवाच:
यः प्रतीय़ाद्रणे द्रोणं यावद्गच्छामि पाण्डवम् ||
२६ ख
सञ्जय़ उवाच:
मा च ते भय़मद्यास्तु राजन्नर्जुनसम्भवम् |
२७ क
सञ्जय़ उवाच:
न स जातु महावाहुर्भारमुद्यम्य सीदति ||
२७ ख
सञ्जय़ उवाच:
ये च सौवीरका योधास्तथा सैन्धवपौरवाः |
२८ क
सञ्जय़ उवाच:
उदीच्या दाक्षिणात्याश्च ये चान्येऽपि महारथाः ||
२८ ख
सञ्जय़ उवाच:
ये च कर्णमुखा राजन्रथोदाराः प्रकीर्तिताः |
२९ क
सञ्जय़ उवाच:
एतेऽर्जुनस्य क्रुद्धस्य कलां नार्हन्ति षोडशीम् ||
२९ ख
सञ्जय़ उवाच:
उद्युक्ता पृथिवी सर्वा ससुरासुरमानुषा |
३० क
सञ्जय़ उवाच:
सराक्षसगणा राजन्सकिंनरमहोरगा ||
३० ख
सञ्जय़ उवाच:
जङ्गमाः स्थावरैः सार्धं नालं पार्थस्य संय़ुगे |
३१ क
सञ्जय़ उवाच:
एवं ज्ञात्वा महाराज व्येतु ते भीर्धनञ्जय़े ||
३१ ख
सञ्जय़ उवाच:
यत्र वीरौ महेष्वासौ कृष्णौ सत्यपराक्रमौ |
३२ क
सञ्जय़ उवाच:
न तत्र कर्मणो व्यापत्कथञ्चिदपि विद्यते ||
३२ ख
सञ्जय़ उवाच:
दैवं कृतास्त्रतां योगममर्षमपि चाहवे |
३३ क
सञ्जय़ उवाच:
कृतज्ञतां दय़ां चैव भ्रातुस्त्वमनुचिन्तय़ ||
३३ ख
सञ्जय़ उवाच:
मय़ि चाप्यपय़ाते वै गच्छमानेऽर्जुनं प्रति |
३४ क
सञ्जय़ उवाच:
द्रोणे चित्रास्त्रतां सङ्ख्ये राजंस्त्वमनुचिन्तय़ ||
३४ ख
सञ्जय़ उवाच:
आचार्यो हि भृशं राजन्निग्रहे तव गृध्यति |
३५ क
सञ्जय़ उवाच:
प्रतिज्ञामात्मनो रक्षन्सत्यां कर्तुं च भारत ||
३५ ख
सञ्जय़ उवाच:
कुरुष्वाद्यात्मनो गुप्तिं कस्ते गोप्ता गते मय़ि |
३६ क
सञ्जय़ उवाच:
यस्याहं प्रत्ययात्पार्थ गच्छेय़ं फल्गुनं प्रति ||
३६ ख
सञ्जय़ उवाच:
न ह्यहं त्वा महाराज अनिक्षिप्य महाहवे |
३७ क
सञ्जय़ उवाच:
क्वचिद्यास्यामि कौरव्य सत्यमेतद्व्रवीमि ते ||
३७ ख
सञ्जय़ उवाच:
एतद्विचार्य वहुशो वुद्ध्या वुद्धिमतां वर |
३८ क
सञ्जय़ उवाच:
दृष्ट्वा श्रेय़ः परं वुद्ध्या ततो राजन्प्रशाधि माम् ||
३८ ख
युधिष्ठिर उवाच:
एवमेतन्महावाहो यथा वदसि माधव |
३९ क
युधिष्ठिर उवाच:
न तु मे शुध्यते भावः श्वेताश्वं प्रति मारिष ||
३९ ख
युधिष्ठिर उवाच:
करिष्ये परमं यत्नमात्मनो रक्षणं प्रति |
४० क
युधिष्ठिर उवाच:
गच्छ त्वं समनुज्ञातो यत्र यातो धनञ्जय़ः ||
४० ख
युधिष्ठिर उवाच:
आत्मसंरक्षणं सङ्ख्ये गमनं चार्जुनं प्रति |
४१ क
युधिष्ठिर उवाच:
विचार्यैतद्द्वय़ं वुद्ध्या गमनं तत्र रोचय़े ||
४१ ख
युधिष्ठिर उवाच:
स त्वमातिष्ठ यानाय़ यत्र यातो धनञ्जय़ः |
४२ क
युधिष्ठिर उवाच:
ममापि रक्षणं भीमः करिष्यति महावलः ||
४२ ख
युधिष्ठिर उवाच:
पार्षतश्च ससोदर्यः पार्थिवाश्च महावलाः |
४३ क
युधिष्ठिर उवाच:
द्रौपदेय़ाश्च मां तात रक्षिष्यन्ति न संशय़ः ||
४३ ख
युधिष्ठिर उवाच:
केकय़ा भ्रातरः पञ्च राक्षसश्च घटोत्कचः |
४४ क
युधिष्ठिर उवाच:
विराटो द्रुपदश्चैव शिखण्डी च महारथः ||
४४ ख
युधिष्ठिर उवाच:
धृष्टकेतुश्च वलवान्कुन्तिभोजश्च मारिष |
४५ क
युधिष्ठिर उवाच:
नकुलः सहदेवश्च पाञ्चालाः सृञ्जय़ास्तथा |
४५ ख
युधिष्ठिर उवाच:
एते समाहितास्तात रक्षिष्यन्ति न संशय़ः ||
४५ ग
युधिष्ठिर उवाच:
न द्रोणः सह सैन्येन कृतवर्मा च संय़ुगे |
४६ क
युधिष्ठिर उवाच:
समासादय़ितुं शक्तो न च मां धर्षय़िष्यति ||
४६ ख
युधिष्ठिर उवाच:
धृष्टद्युम्नश्च समरे द्रोणं क्रुद्धं परन्तपः |
४७ क
युधिष्ठिर उवाच:
वारय़िष्यति विक्रम्य वेलेव मकरालय़म् ||
४७ ख
युधिष्ठिर उवाच:
यत्र स्थास्यति सङ्ग्रामे पार्षतः परवीरहा |
४८ क
युधिष्ठिर उवाच:
न द्रोणसैन्यं वलवत्क्रामेत्तत्र कथञ्चन ||
४८ ख
युधिष्ठिर उवाच:
एष द्रोणविनाशाय़ समुत्पन्नो हुताशनात् |
४९ क
युधिष्ठिर उवाच:
कवची स शरी खड्गी धन्वी च वरभूषणः ||
४९ ख