सञ्जय़ उवाच:
वाढमित्येवमुक्त्वा तु राक्षसो घोरदर्शनः |
४८ क
सञ्जय़ उवाच:
प्रय़यौ सिंहनादेन यत्रार्जुनसुतो युवा ||
४८ ख
सञ्जय़ उवाच:
स्वारूढैर्युद्धकुशलैर्विमलप्रासय़ोधिभिः |
४९ क
सञ्जय़ उवाच:
वीरैः प्रहारिभिर्युक्तः स्वैरनीकैः समावृतः |
४९ ख
सञ्जय़ उवाच:
निहन्तुकामः समरे इरावन्तं महावलम् ||
४९ ग
सञ्जय़ उवाच:
इरावानपि सङ्क्रुद्धस्त्वरमाणः पराक्रमी |
५० क
सञ्जय़ उवाच:
हन्तुकामममित्रघ्नो राक्षसं प्रत्यवारय़त् ||
५० ख
सञ्जय़ उवाच:
तमापतन्तं सम्प्रेक्ष्य राक्षसः सुमहावलः |
५१ क
सञ्जय़ उवाच:
त्वरमाणस्ततो माय़ां प्रय़ोक्तुमुपचक्रमे ||
५१ ख
सञ्जय़ उवाच:
तेन माय़ामय़ाः कॢप्ता हय़ास्तावन्त एव हि |
५२ क
सञ्जय़ उवाच:
स्वारूढा राक्षसैर्घोरैः शूलपट्टिशपाणिभिः ||
५२ ख
सञ्जय़ उवाच:
ते संरव्धाः समागम्य द्विसाहस्राः प्रहारिणः |
५३ क
सञ्जय़ उवाच:
अचिराद्गमय़ामासुः प्रेतलोकं परस्परम् ||
५३ ख
सञ्जय़ उवाच:
तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ |
५४ क
सञ्जय़ उवाच:
सङ्ग्रामे व्यवतिष्ठेतां यथा वै वृत्रवासवौ ||
५४ ख
सञ्जय़ उवाच:
आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम् |
५५ क
सञ्जय़ उवाच:
इरावान्क्रोधसंरव्धः प्रत्यधावन्महावलः ||
५५ ख
सञ्जय़ उवाच:
समभ्याशगतस्याजौ तस्य खड्गेन दुर्मतेः |
५६ क
सञ्जय़ उवाच:
चिच्छेद कार्मुकं दीप्तं शरावापं च पञ्चकम् ||
५६ ख
सञ्जय़ उवाच:
स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत् |
५७ क
सञ्जय़ उवाच:
इरावन्तमभिक्रुद्धं मोहय़न्निव माय़या ||
५७ ख
सञ्जय़ उवाच:
ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम् |
५८ क
सञ्जय़ उवाच:
विमोहय़ित्वा माय़ाभिस्तस्य गात्राणि साय़कैः |
५८ ख
सञ्जय़ उवाच:
चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः ||
५८ ग
सञ्जय़ उवाच:
तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः |
५९ क
सञ्जय़ उवाच:
सम्वभूव महाराज समवाप च यौवनम् ||
५९ ख
सञ्जय़ उवाच:
माय़ा हि सहजा तेषां वय़ो रूपं च कामजम् |
६० क
सञ्जय़ उवाच:
एवं तद्राक्षसस्याङ्गं छिन्नं छिन्नं व्यरोहत ||
६० ख
सञ्जय़ उवाच:
इरावानपि सङ्क्रुद्धो राक्षसं तं महावलम् |
६१ क
सञ्जय़ उवाच:
परश्वधेन तीक्ष्णेन चिच्छेद च पुनः पुनः ||
६१ ख
सञ्जय़ उवाच:
स तेन वलिना वीरश्छिद्यमान इव द्रुमः |
६२ क
सञ्जय़ उवाच:
राक्षसो व्यनदद्घोरं स शव्दस्तुमुलोऽभवत् ||
६२ ख
सञ्जय़ उवाच:
परश्वधक्षतं रक्षः सुस्राव रुधिरं वहु |
६३ क
सञ्जय़ उवाच:
ततश्चुक्रोध वलवांश्चक्रे वेगं च संय़ुगे ||
६३ ख
सञ्जय़ उवाच:
आर्श्यशृङ्गिस्ततो दृष्ट्वा समरे शत्रुमूर्जितम् |
६४ क
सञ्जय़ उवाच:
कृत्वा घोरं महद्रूपं ग्रहीतुमुपचक्रमे |
६४ ख
सञ्जय़ उवाच:
सङ्ग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम् ||
६४ ग
सञ्जय़ उवाच:
तां दृष्ट्वा तादृशीं माय़ां राक्षसस्य महात्मनः |
६५ क
सञ्जय़ उवाच:
इरावानपि सङ्क्रुद्धो माय़ां स्रष्टुं प्रचक्रमे ||
६५ ख
सञ्जय़ उवाच:
तस्य क्रोधाभिभूतस्य संय़ुगेष्वनिवर्तिनः |
६६ क
सञ्जय़ उवाच:
योऽन्वय़ो मातृकस्तस्य स एनमभिपेदिवान् ||
६६ ख
सञ्जय़ उवाच:
स नागैर्वहुशो राजन्सर्वतः संवृतो रणे |
६७ क
सञ्जय़ उवाच:
दधार सुमहद्रूपमनन्त इव भोगवान् |
६७ ख
सञ्जय़ उवाच:
ततो वहुविधैर्नागैश्छादय़ामास राक्षसम् ||
६७ ग
सञ्जय़ उवाच:
छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुङ्गवः |
६८ क
सञ्जय़ उवाच:
सौपर्णं रूपमास्थाय़ भक्षय़ामास पन्नगान् ||
६८ ख
सञ्जय़ उवाच:
माय़या भक्षिते तस्मिन्नन्वय़े तस्य मातृके |
६९ क
सञ्जय़ उवाच:
विमोहितमिरावन्तमसिना राक्षसोऽवधीत् ||
६९ ख
सञ्जय़ उवाच:
सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम् |
७० क
सञ्जय़ उवाच:
इरावतः शिरो रक्षः पातय़ामास भूतले ||
७० ख
सञ्जय़ उवाच:
तस्मिंस्तु निहते वीरे राक्षसेनार्जुनात्मजे |
७१ क
सञ्जय़ उवाच:
विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः ||
७१ ख
सञ्जय़ उवाच:
तस्मिन्महति सङ्ग्रामे तादृशे भैरवे पुनः |
७२ क
सञ्जय़ उवाच:
महान्व्यतिकरो घोरः सेनय़ोः समपद्यत ||
७२ ख
सञ्जय़ उवाच:
हय़ा गजाः पदाताश्च विमिश्रा दन्तिभिर्हताः |
७३ क
सञ्जय़ उवाच:
रथाश्च दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः ||
७३ ख
सञ्जय़ उवाच:
तथा पत्तिरथौघाश्च हय़ाश्च वहवो रणे |
७४ क
सञ्जय़ उवाच:
रथिभिर्निहता राजंस्तव तेषां च सङ्कुले ||
७४ ख
सञ्जय़ उवाच:
अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम् |
७५ क
सञ्जय़ उवाच:
जघान समरे शूरान्राज्ञस्तान्भीष्मरक्षिणः ||
७५ ख
सञ्जय़ उवाच:
तथैव तावका राजन्सृञ्जय़ाश्च महावलाः |
७६ क
सञ्जय़ उवाच:
जुह्वतः समरे प्राणान्निजघ्नुरितरेतरम् ||
७६ ख
सञ्जय़ उवाच:
मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः |
७७ क
सञ्जय़ उवाच:
वाहुभिः समय़ुध्यन्त समवेताः परस्परम् ||
७७ ख
सञ्जय़ उवाच:
तथा मर्मातिगैर्भीष्मो निजघान महारथान् |
७८ क
सञ्जय़ उवाच:
कम्पय़न्समरे सेनां पाण्डवानां महावलः ||
७८ ख
सञ्जय़ उवाच:
तेन यौधिष्ठिरे सैन्ये वहवो मानवा हताः |
७९ क
सञ्जय़ उवाच:
दन्तिनः सादिनश्चैव रथिनोऽथ हय़ास्तथा ||
७९ ख
सञ्जय़ उवाच:
तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम् |
८० क
सञ्जय़ उवाच:
अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम् ||
८० ख
सञ्जय़ उवाच:
तथैव भीमसेनस्य पार्षतस्य च भारत |
८१ क
सञ्जय़ उवाच:
रौद्रमासीत्तदा युद्धं सात्वतस्य च धन्विनः ||
८१ ख
सञ्जय़ उवाच:
दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान्भय़माविशत् |
८२ क
सञ्जय़ उवाच:
एक एव रणे शक्तो हन्तुमस्मान्ससैनिकान् ||
८२ ख
सञ्जय़ उवाच:
किं पुनः पृथिवीशूरैर्योधव्रातैः समावृतः |
८३ क
सञ्जय़ उवाच:
इत्यव्रुवन्महाराज रणे द्रोणेन पीडिताः ||
८३ ख
सञ्जय़ उवाच:
वर्तमाने तथा रौद्रे सङ्ग्रामे भरतर्षभ |
८४ क
सञ्जय़ उवाच:
उभय़ोः सेनय़ोः शूरा नामृष्यन्त परस्परम् ||
८४ ख
सञ्जय़ उवाच:
आविष्टा इव युध्यन्ते रक्षोभूता महावलाः |
८५ क
सञ्जय़ उवाच:
तावकाः पाण्डवेय़ाश्च संरव्धास्तात धन्विनः ||
८५ ख
सञ्जय़ उवाच:
न स्म पश्यामहे कञ्चिद्यः प्राणान्परिरक्षति |
८६ क
सञ्जय़ उवाच:
सङ्ग्रामे दैत्यसङ्काशे तस्मिन्योद्धा नराधिप ||
८६ ख