chevron_left आदि पर्व अध्याय ८६
अष्टक उवाच:
चरन्गृहस्थः कथमेति देवा; न्कथं भिक्षुः कथमाचार्यकर्मा |
१ क
अष्टक उवाच:
वानप्रस्थः सत्पथे संनिविष्टो; वहून्यस्मिन्सम्प्रति वेदय़न्ति ||
१ ख
यय़ातिरु उवाच:
आहूताध्याय़ी गुरुकर्मस्वचोद्यः; पूर्वोत्थाय़ी चरमं चोपशाय़ी |
२ क
यय़ातिरु उवाच:
मृदुर्दान्तो धृतिमानप्रमत्तः; स्वाध्याय़शीलः सिध्यति व्रह्मचारी ||
२ ख
यय़ातिरु उवाच:
धर्मागतं प्राप्य धनं यजेत; दद्यात्सदैवातिथीन्भोजय़ेच्च |
३ क
यय़ातिरु उवाच:
अनाददानश्च परैरदत्तं; सैषा गृहस्थोपनिषत्पुराणी ||
३ ख
यय़ातिरु उवाच:
स्ववीर्यजीवी वृजिनान्निवृत्तो; दाता परेभ्यो न परोपतापी |
४ क
यय़ातिरु उवाच:
तादृङ्मुनिः सिद्धिमुपैति मुख्यां; वसन्नरण्ये निय़ताहारचेष्टः ||
४ ख
यय़ातिरु उवाच:
अशिल्पजीवी नगृहश्च नित्यं; जितेन्द्रिय़ः सर्वतो विप्रमुक्तः |
५ क
यय़ातिरु उवाच:
अनोकसारी लघुरल्पचार; श्चरन्देशानेकचरः स भिक्षुः ||
५ ख
यय़ातिरु उवाच:
रात्र्या यय़ा चाभिजिताश्च लोका; भवन्ति कामा विजिताः सुखाश्च |
६ क
यय़ातिरु उवाच:
तामेव रात्रिं प्रय़तेत विद्वा; नरण्यसंस्थो भवितुं यतात्मा ||
६ ख
यय़ातिरु उवाच:
दशैव पूर्वान्दश चापरांस्तु; ज्ञातीन्सहात्मानमथैकविंशम् |
७ क
यय़ातिरु उवाच:
अरण्यवासी सुकृते दधाति; विमुच्यारण्ये स्वशरीरधातून् ||
७ ख
अष्टक उवाच:
कति स्विदेव मुनय़ो मौनानि कति चाप्युत |
८ क
अष्टक उवाच:
भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वय़म् ||
८ ख
यय़ातिरु उवाच:
अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः |
९ क
यय़ातिरु उवाच:
ग्रामे वा वसतोऽरण्यं स मुनिः स्याज्जनाधिप ||
९ ख
अष्टक उवाच:
कथं स्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः |
१० क
अष्टक उवाच:
ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः ||
१० ख
यय़ातिरु उवाच:
न ग्राम्यमुपय़ुञ्जीत य आरण्यो मुनिर्भवेत् |
११ क
यय़ातिरु उवाच:
तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः ||
११ ख
यय़ातिरु उवाच:
अनग्निरनिकेतश्च अगोत्रचरणो मुनिः |
१२ क
यय़ातिरु उवाच:
कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम् ||
१२ ख
यय़ातिरु उवाच:
यावत्प्राणाभिसन्धानं तावदिच्छेच्च भोजनम् |
१३ क
यय़ातिरु उवाच:
तथास्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः ||
१३ ख
यय़ातिरु उवाच:
यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रिय़ः |
१४ क
यय़ातिरु उवाच:
आतिष्ठेत मुनिर्मौनं स लोके सिद्धिमाप्नुय़ात् ||
१४ ख
यय़ातिरु उवाच:
धौतदन्तं कृत्तनखं सदा स्नातमलङ्कृतम् |
१५ क
यय़ातिरु उवाच:
असितं सितकर्मस्थं कस्तं नार्चितुमर्हति ||
१५ ख
यय़ातिरु उवाच:
तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः |
१६ क
यय़ातिरु उवाच:
यदा भवति निर्द्वन्द्वो मुनिर्मौनं समास्थितः |
१६ ख
यय़ातिरु उवाच:
अथ लोकमिमं जित्वा लोकं विजय़ते परम् ||
१६ ग
यय़ातिरु उवाच:
आस्येन तु यदाहारं गोवन्मृगय़ते मुनिः |
१७ क
यय़ातिरु उवाच:
अथास्य लोकः पूर्वो यः सोऽमृतत्वाय़ कल्पते ||
१७ ख