chevron_left शान्ति पर्व अध्याय ८६
युधिष्ठिर उवाच:
कथं स्विदिह राजेन्द्र पालय़न्पार्थिवः प्रजाः |
१ क
युधिष्ठिर उवाच:
प्रति धर्मं विशेषेण कीर्तिमाप्नोति शाश्वतीम् ||
१ ख
भीष्म उवाच:
व्यवहारेण शुद्धेन प्रजापालनतत्परः |
२ क
भीष्म उवाच:
प्राप्य धर्मं च कीर्तिं च लोकावाप्नोत्युभौ शुचिः ||
२ ख
युधिष्ठिर उवाच:
कीदृशं व्यवहारं तु कैश्च व्यवहरेन्नृपः |
३ क
युधिष्ठिर उवाच:
एतत्पृष्टो महाप्राज्ञ यथावद्वक्तुमर्हसि ||
३ ख
युधिष्ठिर उवाच:
ये चैते पूर्वकथिता गुणास्ते पुरुषं प्रति |
४ क
युधिष्ठिर उवाच:
नैकस्मिन्पुरुषे ह्येते विद्यन्त इति मे मतिः ||
४ ख
भीष्म उवाच:
एवमेतन्महाप्राज्ञ यथा वदसि वुद्धिमान् |
५ क
भीष्म उवाच:
दुर्लभः पुरुषः कश्चिदेभिर्गुणगुणैर्युतः ||
५ ख
भीष्म उवाच:
किं तु सङ्क्षेपतः शीलं प्रय़त्ने नेह दुर्लभम् |
६ क
भीष्म उवाच:
वक्ष्यामि तु यथामात्यान्यादृशांश्च करिष्यसि ||
६ ख
भीष्म उवाच:
चतुरो व्राह्मणान्वैद्यान्प्रगल्भान्सात्त्विकाञ्शुचीन् |
७ क
भीष्म उवाच:
त्रींश्च शूद्रान्विनीतांश्च शुचीन्कर्मणि पूर्वके ||
७ ख
भीष्म उवाच:
अष्टाभिश्च गुणैर्युक्तं सूतं पौराणिकं चरेत् |
८ क
भीष्म उवाच:
पञ्चाशद्वर्षवय़सं प्रगल्भमनसूय़कम् ||
८ ख
भीष्म उवाच:
मतिस्मृतिसमाय़ुक्तं विनीतं समदर्शनम् |
९ क
भीष्म उवाच:
कार्ये विवदमानानां शक्तमर्थेष्वलोलुपम् ||
९ ख
भीष्म उवाच:
विवर्जितानां व्यसनैः सुघोरैः सप्तभिर्भृशम् |
१० क
भीष्म उवाच:
अष्टानां मन्त्रिणां मध्ये मन्त्रं राजोपधारय़ेत् ||
१० ख
भीष्म उवाच:
ततः सम्प्रेषय़ेद्राष्ट्रे राष्ट्राय़ाथ च दर्शय़ेत् |
११ क
भीष्म उवाच:
अनेन व्यवहारेण द्रष्टव्यास्ते प्रजाः सदा ||
११ ख
भीष्म उवाच:
न चापि गूढं कार्यं ते ग्राह्यं कार्योपघातकम् |
१२ क
भीष्म उवाच:
कार्ये खलु विपन्ने त्वां सोऽधर्मस्तांश्च पीडय़ेत् ||
१२ ख
भीष्म उवाच:
विद्रवेच्चैव राष्ट्रं ते श्येनात्पक्षिगणा इव |
१३ क
भीष्म उवाच:
परिस्रवेच्च सततं नौर्विशीर्णेव सागरे ||
१३ ख
भीष्म उवाच:
प्रजाः पालय़तोऽसम्यगधर्मेणेह भूपतेः |
१४ क
भीष्म उवाच:
हार्दं भय़ं सम्भवति स्वर्गश्चास्य विरुध्यते ||
१४ ख
भीष्म उवाच:
अथ योऽधर्मतः पाति राजामात्योऽथ वात्मजः |
१५ क
भीष्म उवाच:
धर्मासने निय़ुक्तः सन्धर्ममूलं नरर्षभ ||
१५ ख
भीष्म उवाच:
कार्येष्वधिकृताः सम्यगकुर्वन्तो नृपानुगाः |
१६ क
भीष्म उवाच:
आत्मानं पुरतः कृत्वा यान्त्यधः सहपार्थिवाः ||
१६ ख
भीष्म उवाच:
वलात्कृतानां वलिभिः कृपणं वहु जल्पताम् |
१७ क
भीष्म उवाच:
नाथो वै भूमिपो नित्यमनाथानां नृणां भवेत् ||
१७ ख
भीष्म उवाच:
ततः साक्षिवलं साधु द्वैधे वादकृतं भवेत् |
१८ क
भीष्म उवाच:
असाक्षिकमनाथं वा परीक्ष्यं तद्विशेषतः ||
१८ ख
भीष्म उवाच:
अपराधानुरूपं च दण्डं पापेषु पातय़ेत् |
१९ क
भीष्म उवाच:
उद्वेजय़ेद्धनैरृद्धान्दरिद्रान्वधवन्धनैः ||
१९ ख
भीष्म उवाच:
विनय़ैरपि दुर्वृत्तान्प्रहारैरपि पार्थिवः |
२० क
भीष्म उवाच:
सान्त्वेनोपप्रदानेन शिष्टांश्च परिपालय़ेत् ||
२० ख
भीष्म उवाच:
राज्ञो वधं चिकीर्षेद्यस्तस्य चित्रो वधो भवेत् |
२१ क
भीष्म उवाच:
आजीवकस्य स्तेनस्य वर्णसङ्करकस्य च ||
२१ ख
भीष्म उवाच:
सम्यक्प्रणय़तो दण्डं भूमिपस्य विशां पते |
२२ क
भीष्म उवाच:
युक्तस्य वा नास्त्यधर्मो धर्म एवेह शाश्वतः ||
२२ ख
भीष्म उवाच:
कामकारेण दण्डं तु यः कुर्यादविचक्षणः |
२३ क
भीष्म उवाच:
स इहाकीर्तिसंय़ुक्तो मृतो नरकमाप्नुय़ात् ||
२३ ख
भीष्म उवाच:
न परस्य श्रवादेव परेषां दण्डमर्पय़ेत् |
२४ क
भीष्म उवाच:
आगमानुगमं कृत्वा वध्नीय़ान्मोक्षय़ेत वा ||
२४ ख
भीष्म उवाच:
न तु हन्यान्नृपो जातु दूतं कस्याञ्चिदापदि |
२५ क
भीष्म उवाच:
दूतस्य हन्ता निरय़माविशेत्सचिवैः सह ||
२५ ख
भीष्म उवाच:
यथोक्तवादिनं दूतं क्षत्रधर्मरतो नृपः |
२६ क
भीष्म उवाच:
यो हन्यात्पितरस्तस्य भ्रूणहत्यामवाप्नुय़ुः ||
२६ ख
भीष्म उवाच:
कुलीनः शीलसम्पन्नो वाग्मी दक्षः प्रिय़ंवदः |
२७ क
भीष्म उवाच:
यथोक्तवादी स्मृतिमान्दूतः स्यात्सप्तभिर्गुणैः ||
२७ ख
भीष्म उवाच:
एतैरेव गुणैर्युक्तः प्रतीहारोऽस्य रक्षिता |
२८ क
भीष्म उवाच:
शिरोरक्षश्च भवति गुणैरेतैः समन्वितः ||
२८ ख
भीष्म उवाच:
धर्मार्थशास्त्रतत्त्वज्ञः सन्धिविग्रहको भवेत् |
२९ क
भीष्म उवाच:
मतिमान्धृतिमान्धीमान्रहस्यविनिगूहिता ||
२९ ख
भीष्म उवाच:
कुलीनः सत्यसम्पन्नः शक्तोऽमात्यः प्रशंसितः |
३० क
भीष्म उवाच:
एतैरेव गुणैर्युक्तस्तथा सेनापतिर्भवेत् ||
३० ख
भीष्म उवाच:
व्यूहय़न्त्राय़ुधीय़ानां तत्त्वज्ञो विक्रमान्वितः |
३१ क
भीष्म उवाच:
वर्षशीतोष्णवातानां सहिष्णुः पररन्ध्रवित् ||
३१ ख
भीष्म उवाच:
विश्वासय़ेत्परांश्चैव विश्वसेन्न तु कस्यचित् |
३२ क
भीष्म उवाच:
पुत्रेष्वपि हि राजेन्द्र विश्वासो न प्रशस्यते ||
३२ ख
भीष्म उवाच:
एतच्छास्त्रार्थतत्त्वं तु तवाख्यातं मय़ानघ |
३३ क
भीष्म उवाच:
अविश्वासो नरेन्द्राणां गुह्यं परममुच्यते ||
३३ ख