chevron_left भीष्म पर्व अध्याय ८६
सञ्जय़ उवाच:
वर्तमाने तथा रौद्रे राजन्वीरवरक्षय़े |
१ क
सञ्जय़ उवाच:
शकुनिः सौवलः श्रीमान्पाण्डवान्समुपाद्रवत् ||
१ ख
सञ्जय़ उवाच:
तथैव सात्वतो राजन्हार्दिक्यः परवीरहा |
२ क
सञ्जय़ उवाच:
अभ्यद्रवत सङ्ग्रामे पाण्डवानामनीकिनीम् ||
२ ख
सञ्जय़ उवाच:
ततः काम्वोजमुख्यानां नदीजानां च वाजिनाम् |
३ क
सञ्जय़ उवाच:
आरट्टानां महीजानां सिन्धुजानां च सर्वशः ||
३ ख
सञ्जय़ उवाच:
वनाय़ुजानां शुभ्राणां तथा पर्वतवासिनाम् |
४ क
सञ्जय़ उवाच:
ये चापरे तित्तिरजा जवना वातरंहसः ||
४ ख
सञ्जय़ उवाच:
सुवर्णालङ्कृतैरेतैर्वर्मवद्भिः सुकल्पितैः |
५ क
सञ्जय़ उवाच:
हय़ैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो वली |
५ ख
सञ्जय़ उवाच:
अभ्यवर्तत तत्सैन्यं हृष्टरूपः परन्तपः ||
५ ग
सञ्जय़ उवाच:
अर्जुनस्याथ दाय़ाद इरावान्नाम वीर्यवान् |
६ क
सञ्जय़ उवाच:
सुताय़ां नागराजस्य जातः पार्थेन धीमता ||
६ ख
सञ्जय़ उवाच:
ऐरावतेन सा दत्ता अनपत्या महात्मना |
७ क
सञ्जय़ उवाच:
पत्यौ हते सुपर्णेन कृपणा दीनचेतना ||
७ ख
सञ्जय़ उवाच:
भार्यार्थं तां च जग्राह पार्थः कामवशानुगाम् |
८ क
सञ्जय़ उवाच:
एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः ||
८ ख
सञ्जय़ उवाच:
स नागलोके संवृद्धो मात्रा च परिरक्षितः |
९ क
सञ्जय़ उवाच:
पितृव्येण परित्यक्तः पार्थद्वेषाद्दुरात्मना ||
९ ख
सञ्जय़ उवाच:
रूपवान्वीर्यसम्पन्नो गुणवान्सत्यविक्रमः |
१० क
सञ्जय़ उवाच:
इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम् ||
१० ख
सञ्जय़ उवाच:
सोऽभिगम्य महात्मानं पितरं सत्यविक्रमम् |
११ क
सञ्जय़ उवाच:
अभ्यवादय़दव्यग्रो विनय़ेन कृताञ्जलिः |
११ ख
सञ्जय़ उवाच:
इरावानस्मि भद्रं ते पुत्रश्चाहं तवाभिभो ||
११ ग
सञ्जय़ उवाच:
मातुः समागमो यश्च तत्सर्वं प्रत्यवेदय़त् |
१२ क
सञ्जय़ उवाच:
तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः ||
१२ ख
सञ्जय़ उवाच:
परिष्वज्य सुतं चापि सोऽऽत्मनः सदृशं गुणैः |
१३ क
सञ्जय़ उवाच:
प्रीतिमानभवत्पार्थो देवराजनिवेशने ||
१३ ख
सञ्जय़ उवाच:
सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप |
१४ क
सञ्जय़ उवाच:
प्रीतिपूर्वं महावाहुः स्वकार्यं प्रति भारत |
१४ ख
सञ्जय़ उवाच:
युद्धकाले त्वय़ास्माकं साह्यं देय़मिति प्रभो ||
१४ ग
सञ्जय़ उवाच:
वाढमित्येवमुक्त्वा च युद्धकाल उपागतः |
१५ क
सञ्जय़ उवाच:
कामवर्णजवैरश्वैः संवृतो वहुभिर्नृप ||
१५ ख
सञ्जय़ उवाच:
ते हय़ाः काञ्चनापीडा नानावर्णा मनोजवाः |
१६ क
सञ्जय़ उवाच:
उत्पेतुः सहसा राजन्हंसा इव महोदधौ ||
१६ ख
सञ्जय़ उवाच:
ते त्वदीय़ान्समासाद्य हय़सङ्घान्महाजवान् |
१७ क
सञ्जय़ उवाच:
क्रोडैः क्रोडानभिघ्नन्तो घोणाभिश्च परस्परम् |
१७ ख
सञ्जय़ उवाच:
निपेतुः सहसा राजन्सुवेगाभिहता भुवि ||
१७ ग
सञ्जय़ उवाच:
निपतद्भिस्तथा तैश्च हय़सङ्घैः परस्परम् |
१८ क
सञ्जय़ उवाच:
शुश्रुवे दारुणः शव्दः सुपर्णपतने यथा ||
१८ ख
सञ्जय़ उवाच:
तथैव च महाराज समेत्यान्योन्यमाहवे |
१९ क
सञ्जय़ उवाच:
परस्परवधं घोरं चक्रुस्ते हय़सादिनः ||
१९ ख
सञ्जय़ उवाच:
तस्मिंस्तथा वर्तमाने सङ्कुले तुमुले भृशम् |
२० क
सञ्जय़ उवाच:
उभय़ोरपि संशान्ता हय़सङ्घाः समन्ततः ||
२० ख
सञ्जय़ उवाच:
प्रक्षीणसाय़काः शूरा निहताश्वाः श्रमातुराः |
२१ क
सञ्जय़ उवाच:
विलय़ं समनुप्राप्तास्तक्षमाणाः परस्परम् ||
२१ ख
सञ्जय़ उवाच:
ततः क्षीणे हय़ानीके किञ्चिच्छेषे च भारत |
२२ क
सञ्जय़ उवाच:
सौवलस्यात्मजाः शूरा निर्गता रणमूर्धनि ||
२२ ख
सञ्जय़ उवाच:
वाय़ुवेगसमस्पर्शा जवे वाय़ुसमांस्तथा |
२३ क
सञ्जय़ उवाच:
आरुह्य शीलसम्पन्नान्वय़ःस्थांस्तुरगोत्तमान् ||
२३ ख
सञ्जय़ उवाच:
गजो गवाक्षो वृषकश्चर्मवानार्जवः शुकः |
२४ क
सञ्जय़ उवाच:
षडेते वलसम्पन्ना निर्ययुर्महतो वलात् ||
२४ ख
सञ्जय़ उवाच:
वार्यमाणाः शकुनिना स्वैश्च योधैर्महावलैः |
२५ क
सञ्जय़ उवाच:
संनद्धा युद्धकुशला रौद्ररूपा महावलाः ||
२५ ख
सञ्जय़ उवाच:
तदनीकं महावाहो भित्त्वा परमदुर्जय़म् |
२६ क
सञ्जय़ उवाच:
वलेन महता युक्ताः स्वर्गाय़ विजय़ैषिणः |
२६ ख
सञ्जय़ उवाच:
विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः ||
२६ ग
सञ्जय़ उवाच:
तान्प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान् |
२७ क
सञ्जय़ उवाच:
अव्रवीत्समरे योधान्विचित्राभरणाय़ुधान् ||
२७ ख
सञ्जय़ उवाच:
यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः |
२८ क
सञ्जय़ उवाच:
हन्यन्ते समरे सर्वे तथा नीतिर्विधीय़ताम् ||
२८ ख
सञ्जय़ उवाच:
वाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः |
२९ क
सञ्जय़ उवाच:
जघ्नुस्ते वै परानीकं दुर्जय़ं समरे परैः ||
२९ ख
सञ्जय़ उवाच:
तदनीकमनीकेन समरे वीक्ष्य पातितम् |
३० क
सञ्जय़ उवाच:
अमृष्यमाणास्ते सर्वे सुवलस्यात्मजा रणे |
३० ख
सञ्जय़ उवाच:
इरावन्तमभिद्रुत्य सर्वतः पर्यवारय़न् ||
३० ग
सञ्जय़ उवाच:
ताडय़न्तः शितैः प्रासैश्चोदय़न्तः परस्परम् |
३१ क
सञ्जय़ उवाच:
ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम् ||
३१ ख
सञ्जय़ उवाच:
इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महात्मभिः |
३२ क
सञ्जय़ उवाच:
स्रवता रुधिरेणाक्तस्तोत्त्रैर्विद्ध इव द्विपः ||
३२ ख
सञ्जय़ उवाच:
उरस्यपि च पृष्ठे च पार्श्वय़ोश्च भृशाहतः |
३३ क
सञ्जय़ उवाच:
एको वहुभिरत्यर्थं धैर्याद्राजन्न विव्यथे ||
३३ ख
सञ्जय़ उवाच:
इरावानथ सङ्क्रुद्धः सर्वांस्तान्निशितैः शरैः |
३४ क
सञ्जय़ उवाच:
मोहय़ामास समरे विद्ध्वा परपुरञ्जय़ः ||
३४ ख
सञ्जय़ उवाच:
प्रासानुद्धृत्य सर्वांश्च स्वशरीरादरिन्दमः |
३५ क
सञ्जय़ उवाच:
तैरेव ताडय़ामास सुवलस्यात्मजान्रणे ||
३५ ख
सञ्जय़ उवाच:
निकृष्य निशितं खड्गं गृहीत्वा च शरावरम् |
३६ क
सञ्जय़ उवाच:
पदातिस्तूर्णमागच्छज्जिघांसुः सौवलान्युधि ||
३६ ख
सञ्जय़ उवाच:
ततः प्रत्यागतप्राणाः सर्वे ते सुवलात्मजाः |
३७ क
सञ्जय़ उवाच:
भूय़ः क्रोधसमाविष्टा इरावन्तमथाद्रवन् ||
३७ ख
सञ्जय़ उवाच:
इरावानपि खड्गेन दर्शय़न्पाणिलाघवम् |
३८ क
सञ्जय़ उवाच:
अभ्यवर्तत तान्सर्वान्सौवलान्वलदर्पितः ||
३८ ख
सञ्जय़ उवाच:
लाघवेनाथ चरतः सर्वे ते सुवलात्मजाः |
३९ क
सञ्जय़ उवाच:
अन्तरं नाध्यगच्छन्त चरन्तः शीघ्रगामिनः ||
३९ ख
सञ्जय़ उवाच:
भूमिष्ठमथ तं सङ्ख्ये सम्प्रदृश्य ततः पुनः |
४० क
सञ्जय़ उवाच:
परिवार्य भृशं सर्वे ग्रहीतुमुपचक्रमुः ||
४० ख
सञ्जय़ उवाच:
अथाभ्याशगतानां स खड्गेनामित्रकर्शनः |
४१ क
सञ्जय़ उवाच:
उपहस्तावहस्ताभ्यां तेषां गात्राण्यकृन्तत ||
४१ ख
सञ्जय़ उवाच:
आय़ुधानि च सर्वेषां वाहूनपि च भूषितान् |
४२ क
सञ्जय़ उवाच:
अपतन्त निकृत्ताङ्गा गता भूमिं गतासवः ||
४२ ख
सञ्जय़ उवाच:
वृषकस्तु महाराज वहुधा परिविक्षतः |
४३ क
सञ्जय़ उवाच:
अमुच्यत महारौद्रात्तस्माद्वीरावकर्तनात् ||
४३ ख
सञ्जय़ उवाच:
तान्सर्वान्पतितान्दृष्ट्वा भीतो दुर्योधनस्ततः |
४४ क
सञ्जय़ उवाच:
अभ्यभाषत सङ्क्रुद्धो राक्षसं घोरदर्शनम् ||
४४ ख
सञ्जय़ उवाच:
आर्श्यशृङ्गिं महेष्वासं माय़ाविनमरिन्दमम् |
४५ क
सञ्जय़ उवाच:
वैरिणं भीमसेनस्य पूर्वं वकवधेन वै ||
४५ ख
सञ्जय़ उवाच:
पश्य वीर यथा ह्येष फल्गुनस्य सुतो वली |
४६ क
सञ्जय़ उवाच:
माय़ावी विप्रिय़ं घोरमकार्षीन्मे वलक्षय़म् ||
४६ ख
सञ्जय़ उवाच:
त्वं च कामगमस्तात माय़ास्त्रे च विशारदः |
४७ क
सञ्जय़ उवाच:
कृतवैरश्च पार्थेन तस्मादेनं रणे जहि ||
४७ ख