सञ्जय़ उवाच:
धर्मराजस्य तद्वाक्यं निशम्य शिनिपुङ्गवः |
१ क
सञ्जय़ उवाच:
पार्थाच्च भय़माशङ्कन्परित्यागान्महीपतेः ||
१ ख
सञ्जय़ उवाच:
अपवादं ह्यात्मनश्च लोकाद्रक्षन्विशेषतः |
२ क
सञ्जय़ उवाच:
न मां भीत इति व्रूय़ुराय़ान्तं फल्गुनं प्रति ||
२ ख
सञ्जय़ उवाच:
निश्चित्य वहुधैवं स सात्यकिर्युद्धदुर्मदः |
३ क
सञ्जय़ उवाच:
धर्मराजमिदं वाक्यमव्रवीत्पुरुषर्षभ ||
३ ख
सञ्जय़ उवाच:
कृतां चेन्मन्यसे रक्षां स्वस्ति तेऽस्तु विशां पते |
४ क
सञ्जय़ उवाच:
अनुय़ास्यामि वीभत्सुं करिष्ये वचनं तव ||
४ ख
सञ्जय़ उवाच:
न हि मे पाण्डवात्कश्चित्त्रिषु लोकेषु विद्यते |
५ क
सञ्जय़ उवाच:
यो वै प्रिय़तरो राजन्सत्यमेतद्व्रवीमि ते ||
५ ख
सञ्जय़ उवाच:
तस्याहं पदवीं यास्ये सन्देशात्तव मानद |
६ क
सञ्जय़ उवाच:
त्वत्कृते न च मे किञ्चिदकर्तव्यं कथञ्चन ||
६ ख
सञ्जय़ उवाच:
यथा हि मे गुरोर्वाक्यं विशिष्टं द्विपदां वर |
७ क
सञ्जय़ उवाच:
तथा तवापि वचनं विशिष्टतरमेव मे ||
७ ख
सञ्जय़ उवाच:
प्रिय़े हि तव वर्तेते भ्रातरौ कृष्णपाण्डवौ |
८ क
सञ्जय़ उवाच:
तय़ोः प्रिय़े स्थितं चैव विद्धि मां राजपुङ्गव ||
८ ख
सञ्जय़ उवाच:
तवाज्ञां शिरसा गृह्य पाण्डवार्थमहं प्रभो |
९ क
सञ्जय़ उवाच:
भित्त्वेदं दुर्भिदं सैन्यं प्रय़ास्ये नरसत्तम ||
९ ख
सञ्जय़ उवाच:
द्रोणानीकं विशाम्येष क्रुद्धो झष इवार्णवम् |
१० क
सञ्जय़ उवाच:
तत्र यास्यामि यत्रासौ राजन्राजा जय़द्रथः ||
१० ख
सञ्जय़ उवाच:
यत्र सेनां समाश्रित्य भीतस्तिष्ठति पाण्डवात् |
११ क
सञ्जय़ उवाच:
गुप्तो रथवरश्रेष्ठैर्द्रौणिकर्णकृपादिभिः ||
११ ख
सञ्जय़ उवाच:
इतस्त्रिय़ोजनं मन्ये तमध्वानं विशां पते |
१२ क
सञ्जय़ उवाच:
यत्र तिष्ठति पार्थोऽसौ जय़द्रथवधोद्यतः ||
१२ ख
सञ्जय़ उवाच:
त्रिय़ोजनगतस्यापि तस्य यास्याम्यहं पदम् |
१३ क
सञ्जय़ उवाच:
आसैन्धववधाद्राजन्सुदृढेनान्तरात्मना ||
१३ ख
सञ्जय़ उवाच:
अनादिष्टस्तु गुरुणा को नु युध्येत मानवः |
१४ क
सञ्जय़ उवाच:
आदिष्टस्तु त्वय़ा राजन्को न युध्येत मादृशः |
१४ ख
सञ्जय़ उवाच:
अभिजानामि तं देशं यत्र यास्याम्यहं प्रभो ||
१४ ग
सञ्जय़ उवाच:
हुडशक्तिगदाप्रासखड्गचर्मर्ष्टितोमरम् |
१५ क
सञ्जय़ उवाच:
इष्वस्त्रवरसम्वाधं क्षोभय़िष्ये वलार्णवम् ||
१५ ख
सञ्जय़ उवाच:
यदेतत्कुञ्जरानीकं साहस्रमनुपश्यसि |
१६ क
सञ्जय़ उवाच:
कुलमञ्जनकं नाम यत्रैते वीर्यशालिनः ||
१६ ख
सञ्जय़ उवाच:
आस्थिता वहुभिर्म्लेच्छैर्युद्धशौण्डैः प्रहारिभिः |
१७ क
सञ्जय़ उवाच:
नागा मेघनिभा राजन्क्षरन्त इव तोय़दाः ||
१७ ख
सञ्जय़ उवाच:
नैते जातु निवर्तेरन्प्रेषिता हस्तिसादिभिः |
१८ क
सञ्जय़ उवाच:
अन्यत्र हि वधादेषां नास्ति राजन्पराजय़ः ||
१८ ख
सञ्जय़ उवाच:
अथ यान्रथिनो राजन्समन्तादनुपश्यसि |
१९ क
सञ्जय़ उवाच:
एते रुक्मरथा नाम राजपुत्रा महारथाः ||
१९ ख
सञ्जय़ उवाच:
रथेष्वस्त्रेषु निपुणा नागेषु च विशां पते |
२० क
सञ्जय़ उवाच:
धनुर्वेदे गताः पारं मुष्टिय़ुद्धे च कोविदाः ||
२० ख
सञ्जय़ उवाच:
गदाय़ुद्धविशेषज्ञा निय़ुद्धकुशलास्तथा |
२१ क
सञ्जय़ उवाच:
खड्गप्रहरणे युक्ताः सम्पाते चासिचर्मणोः ||
२१ ख
सञ्जय़ उवाच:
शूराश्च कृतविद्याश्च स्पर्धन्ते च परस्परम् |
२२ क
सञ्जय़ उवाच:
नित्यं च समरे राजन्विजिगीषन्ति मानवान् ||
२२ ख
सञ्जय़ उवाच:
कर्णेन विजिता राजन्दुःशासनमनुव्रताः |
२३ क
सञ्जय़ उवाच:
एतांस्तु वासुदेवोऽपि रथोदारान्प्रशंसति ||
२३ ख
सञ्जय़ उवाच:
सततं प्रिय़कामाश्च कर्णस्यैते वशे स्थिताः |
२४ क
सञ्जय़ उवाच:
तस्यैव वचनाद्राजन्निवृत्ताः श्वेतवाहनात् ||
२४ ख
सञ्जय़ उवाच:
ते न क्षता न च श्रान्ता दृढावरणकार्मुकाः |
२५ क
सञ्जय़ उवाच:
मदर्थं विष्ठिता नूनं धार्तराष्ट्रस्य शासनात् ||
२५ ख
सञ्जय़ उवाच:
एतान्प्रमथ्य सङ्ग्रामे प्रिय़ार्थं तव कौरव |
२६ क
सञ्जय़ उवाच:
प्रय़ास्यामि ततः पश्चात्पदवीं सव्यसाचिनः ||
२६ ख
सञ्जय़ उवाच:
यांस्त्वेतानपरान्राजन्नागान्सप्तशतानि च |
२७ क
सञ्जय़ उवाच:
प्रेक्षसे वर्मसञ्छन्नान्किरातैः समधिष्ठितान् ||
२७ ख
सञ्जय़ उवाच:
किरातराजो यान्प्रादाद्गृहीतः सव्यसाचिना |
२८ क
सञ्जय़ उवाच:
स्वलङ्कृतांस्तथा प्रेष्यानिच्छञ्जीवितमात्मनः ||
२८ ख
सञ्जय़ उवाच:
आसन्नेते पुरा राजंस्तव कर्मकरा दृढम् |
२९ क
सञ्जय़ उवाच:
त्वामेवाद्य युय़ुत्सन्ते पश्य कालस्य पर्ययम् ||
२९ ख
सञ्जय़ उवाच:
तेषामेते महामात्राः किराता युद्धदुर्मदाः |
३० क
सञ्जय़ उवाच:
हस्तिशिक्षाविदश्चैव सर्वे चैवाग्निय़ोनय़ः ||
३० ख
सञ्जय़ उवाच:
एते विनिर्जिताः सर्वे सङ्ग्रामे सव्यसाचिना |
३१ क
सञ्जय़ उवाच:
मदर्थमद्य संय़त्ता दुर्योधनवशानुगाः ||
३१ ख
सञ्जय़ उवाच:
एतान्भित्त्वा शरै राजन्किरातान्युद्धदुर्मदान् |
३२ क
सञ्जय़ उवाच:
सैन्धवस्य वधे युक्तमनुय़ास्यामि पाण्डवम् ||
३२ ख
सञ्जय़ उवाच:
ये त्वेते सुमहानागा अञ्जनस्य कुलोद्भवाः |
३३ क
सञ्जय़ उवाच:
कर्कशाश्च विनीताश्च प्रभिन्नकरटामुखाः ||
३३ ख
सञ्जय़ उवाच:
जाम्वूनदमय़ैः सर्वैर्वर्मभिः सुविभूषिताः |
३४ क
सञ्जय़ उवाच:
लव्धलक्ष्या रणे राजन्नैरावणसमा युधि ||
३४ ख
सञ्जय़ उवाच:
उत्तरात्पर्वतादेते तीक्ष्णैर्दस्युभिरास्थिताः |
३५ क
सञ्जय़ उवाच:
कर्कशैः प्रवरैर्योधैः कार्ष्णाय़सतनुच्छदैः ||
३५ ख
सञ्जय़ उवाच:
सन्ति गोय़ोनय़श्चात्र सन्ति वानरय़ोनय़ः |
३६ क
सञ्जय़ उवाच:
अनेकय़ोनय़श्चान्ये तथा मानुषय़ोनय़ः ||
३६ ख
सञ्जय़ उवाच:
अनीकमसतामेतद्धूमवर्णमुदीर्यते |
३७ क
सञ्जय़ उवाच:
म्लेच्छानां पापकर्तॄणां हिमवद्दुर्गवासिनाम् ||
३७ ख
सञ्जय़ उवाच:
एतद्दुर्योधनो लव्ध्वा समग्रं नागमण्डलम् |
३८ क
सञ्जय़ उवाच:
कृपं च सौमदत्तिं च द्रोणं च रथिनां वरम् ||
३८ ख
सञ्जय़ उवाच:
सिन्धुराजं तथा कर्णमवमन्यत पाण्डवान् |
३९ क
सञ्जय़ उवाच:
कृतार्थमथ चात्मानं मन्यते कालचोदितः ||
३९ ख
सञ्जय़ उवाच:
ते च सर्वेऽनुसम्प्राप्ता मम नाराचगोचरम् |
४० क
सञ्जय़ उवाच:
न विमोक्ष्यन्ति कौन्तेय़ यद्यपि स्युर्मनोजवाः ||
४० ख
सञ्जय़ उवाच:
तेन सम्भाविता नित्यं परवीर्योपजीविना |
४१ क
सञ्जय़ उवाच:
विनाशमुपय़ास्यन्ति मच्छरौघनिपीडिताः ||
४१ ख
सञ्जय़ उवाच:
ये त्वेते रथिनो राजन्दृश्यन्ते काञ्चनध्वजाः |
४२ क
सञ्जय़ उवाच:
एते दुर्वारणा नाम काम्वोजा यदि ते श्रुताः ||
४२ ख
सञ्जय़ उवाच:
शूराश्च कृतविद्याश्च धनुर्वेदे च निष्ठिताः |
४३ क
सञ्जय़ उवाच:
संहताश्च भृशं ह्येते अन्योन्यस्य हितैषिणः ||
४३ ख
सञ्जय़ उवाच:
अक्षौहिण्यश्च संरव्धा धार्तराष्ट्रस्य भारत |
४४ क
सञ्जय़ उवाच:
यत्ता मदर्थं तिष्ठन्ति कुरुवीराभिरक्षिताः ||
४४ ख
सञ्जय़ उवाच:
अप्रमत्ता महाराज मामेव प्रत्युपस्थिताः |
४५ क
सञ्जय़ उवाच:
तांस्त्वहं प्रमथिष्यामि तृणानीव हुताशनः ||
४५ ख
सञ्जय़ उवाच:
तस्मात्सर्वानुपासङ्गान्सर्वोपकरणानि च |
४६ क
सञ्जय़ उवाच:
रथे कुर्वन्तु मे राजन्यथावद्रथकल्पकाः ||
४६ ख
सञ्जय़ उवाच:
अस्मिंस्तु खलु सङ्ग्रामे ग्राह्यं विविधमाय़ुधम् |
४७ क
सञ्जय़ उवाच:
यथोपदिष्टमाचार्यैः कार्यः पञ्चगुणो रथः ||
४७ ख
सञ्जय़ उवाच:
काम्वोजैर्हि समेष्यामि क्रुद्धैराशीविषोपमैः |
४८ क
सञ्जय़ उवाच:
नानाशस्त्रसमावापैर्विविधाय़ुधय़ोधिभिः ||
४८ ख
सञ्जय़ उवाच:
किरातैश्च समेष्यामि विषकल्पैः प्रहारिभिः |
४९ क
सञ्जय़ उवाच:
लालितैः सततं राज्ञा दुर्योधनहितैषिभिः ||
४९ ख
सञ्जय़ उवाच:
शकैश्चापि समेष्यामि शक्रतुल्यपराक्रमैः |
५० क